पूर्वम्: २।४।६७
अनन्तरम्: २।४।६९
 
सूत्रम्
तिककितवादिभ्यो द्वंद्वे॥ २।४।६८
काशिका-वृत्तिः
तिककितवाऽदिभ्यो द्वन्द्वे २।४।६८

तिकाऽदिभ्यः कितवाऽदिभ्यश्च द्वन्द्वे गोत्रप्रत्ययस्य बहुषु लुग् भवति। तैकायनयश्च कैतवायनयश्च, तिकाऽदिभ्यः फिञ् ४।१।१५८, तस्य लुक्, तिककितवाः। वाङ्खरयश्च भान्डीरथयश्च, अत इञ् ४।१।९५, तस्य लुक्, वङ्खरभण्डीरथाः। औपकायनाश्च लामकायनाश्च, नडादिभ्यः फक् ४।१।९९, तस्य लुक्, उपकलमकाः। पाफकयश्च नारकयश्च, अत इञ् ४।१।९५, तस्य लुक्, पफकनरकाः। बाकनखयश्च श्वागुदपरिणद्धयश्च, अत इञ् ४।१।९५, तस्य लुक्, बकनखश्वगुदपरिणद्धाः। उब्जशब्दातत इञ् ४।१।९५, ककुभशब्दात् शिवादिभ्यो ऽन् ४।१।११२ तयोर् लुक्, औब्जयश्च काकुभाश्च उब्जककुभाः। लाङ्कयश्च शान्तमुखयश्च, अत इञ् ४।१।९५ तस्य लुक्, लङ्कशान्तमुखाः। उरसशब्दस्तिकादिषु पठ्यते, ततः फिञ्, लङ्कटशब्दादिञ्, तयोर् लुक्, औरसायनश्च लाङ्कटयश्च उरसलङ्कटाः। भ्राष्टकयश्च कापिष्ठलयश्च, अत इञ् ४।१।९५, तस्य लुक्, भ्रष्टकक्पिष्ठलाः। कार्ष्णाजिनयश्च कार्ष्णसुन्दरयश्च, अत इञ् ४।१।९५, तस्य लुक्, कृष्णाजिनकृष्णसुनदराः। आग्निवेश्यश्च दासेरकयश्च, अग्निवेशशब्दात् गर्गादिभ्यो यञ् ४।१।१०५, दासेरकशब्दातत इञ् ४।१।९५, तयोर्लुक्, अग्निवेशदासेरकाः।
न्यासः
तिककितवादिभ्यो द्वन्द्वे। , २।४।६८

किमर्थं पुनस्तिककितवाभ्यां द्वाभ्यां गण उपलक्ष्यते, नैकेनैवोपलक्ष्येत? नैतत्; कार्यिणा हि गण उपलक्षणयितुं युक्तः, द्वन्द्वश्चात्र कार्यी, तेनैवोपलक्षयितुं युक्तः॥
न्यासः
उपकादिभ्योऽन्यतरस्यामद्वन्द्वे। , २।४।६८

यदि द्वन्द्वे च भवत्यद्वन्द्वग्रहणं तर्हि किमर्थमित्याह-- "अद्वन्द्वग्रहणम्" इत्यादि। द्वन्द्वग्रहणे नात्र द्वन्द्वाधिकारः सम्बध्यते-- द्वन्द्वे द्वन्द्वाधिकार इति, तस्य नञा सम्बन्धे च द्वन्द्वाधिकारनिवृत्तिः प्रतीयते।?थ विषयोपग्रहणार्थमद्वन्द्वग्रहणं कस्मान्न विज्ञायते-- अद्वन्द्वेऽद्वन्द्वविषय इति? यद्ययमर्थोऽभीष्टः स्यादद्वग्रहणं न कुर्यात्; विनापि तेनार्थस्य प्रतीतेः। कथम्? तिककितवादयोऽपीह त्रयः पठ()न्ते-- उपकलमकाः, भ्रष्टककपिष्टलाः, कृष्णाजिनकृष्णसुन्दरा इति, तेषाञ्चाद्वन्द्व एव ग्रहणं प्रयोजयति न द्वन्द्वः; पूर्वेणैव सिद्धत्वादिति। तेषां तावर्न्नियमेनाद्वन्द्वार्थं ग्रहणम्, तत्साहचर्यादितरेषामप्यद्वन्द्वार्थं ग्रहणं युक्तमिति निष्फलमेवाद्वन्द्वग्रहणं स्यात्। तस्माद् द्वन्द्वाधिकारनिवृत्त्यर्थमेतद्युक्तमिति। "तेषां पूर्वेण नित्यमेव लुग्भवति" इति। अन्यथा हि तिककितवादिषु तेषां पाठोऽनर्थकः स्यात्। "अद्वन्द्वे त्वनेन विकल्पः" इति। प्रकृतत्वाल्लुको विज्ञेयः। तत्रोपकलमशब्दाभ्यां नडादिफग्विधानात् तस्य लुग्विकल्पः, ततः परेभ्यः प्राक् कपिष्ठलशब्दात् इञः। कपिष्ठलमयूरकर्ण-- इत्येतेभ्यः शिवादिभ्योऽणः। खारीजङ्घादिभ्यः प्राक् कठेरणिशब्दादत इञः। कठेरणिशब्दादौत्सर्गिकस्याणः। कुषीतकादिभ्यः कृष्णपिङ्गलपर्यन्तेभ्योऽत इञः। अनुलोमशब्दात् बाह्वादीञः। बाह्वादिषु हि लोमशब्दः पठ()ते, स च तदन्तविधिं प्रयोजयति। अनुगतानि लोमान्यस्येत्यनुलोमा, तस्यापत्यानुलोमयः, अनुलोमान इति। शेषाणामत इञः॥
बाल-मनोरमा
तिककितवादिभ्यो द्वन्द्वे ११३४, २।४।६८

तिककितव। तैकायनयश्च कैतवायनयश्चेति। द्वन्द्वविग्रहप्रदर्शनम्। तिककितवा इति। "द्वन्द्वे" इति सप्तमीनिर्देशात्पदद्वयादपि फिञो लुक्।

तत्त्व-बोधिनी
तिककितवादिभ्यो द्वन्द्वे ९४५, २।४।६८

तिककितवादिभ्यो। यद्यपि द्वन्द्वरूपाण्येव गणे पठ()न्ते तिकादीनि पूर्वपदानि कितवादिन्युत्तरपदानि, तथापि "तिकादिभ्यः"इत्युक्ते पुर्वपदेष्वेव लुगाशङ्क्येत, इष्यन्ते तूत्तरपदेष्वपि, अतः "तिककितवादिभ्यः"इत्युक्तम्। तिककितवा इति। अन्येऽप्यत्रोदाहर्तव्याः---औपकायनाश्च लामकायनाश्च। "नडादिभ्यः फक्र्" तस्य लुक्। उपकलमकाः। भ्राष्ट्रकयश्च कापिष्ठलयश्च। "अत इञ"तस्य लुक्। भ्राष्ट्रककपिष्ठलाः। काष्र्णाजिनयश्च कार्ष्णसुन्दरयश्च। "अत इञ्"तस्य लुक्। कृष्णाजिनकृष्णसुन्दरा इत्यादि।