पूर्वम्: ३।१।१०
अनन्तरम्: ३।१।१२
 
सूत्रम्
कर्तुः क्यङ् सलोपश्च॥ ३।१।११
काशिका-वृत्तिः
कर्तुः क्यङ् सलोपश् च ३।१।११

आचारे इत्यनुवर्तते। उपमानात् कर्तुः सुबन्तादाचारे ऽर्थे वा क्यङ्प्रत्त्ययो भवति, सकारस्य च लोपो भवति। अन्वाचयशिष्तः सलोपः, तदभावे ऽपि क्यङ् भवत्येव। श्येन इवाचरति काकः श्येनायते। कुमुदं पुष्करायते। सलोपविधावपि वाग्रहणं सम्बध्यते, सा च व्यवस्थितविभाषा भवति। ओजसो ऽप्सरसो नित्यं पयसस्तु विभाषया। {सकारस्येष्यते लोपः शब्दशास्त्रविचक्षनैः} ओजायमानं यो अहिं जघान। ओजायते, अप्सरायते। पयायते, पयस्यते। सलोपविधौ च कर्तुः इति स्थानषष्ठी सम्पद्यते, तत्र अलो ऽन्त्यनियमे सति हंसायते, सारसायते इति सलोपो न भवति। आचारे ऽवगल्भक्लीबहोडेभ्यः क्विब् वा वक्तव्यः। अवगल्भते, अवगल्भायते। क्लीबते, क्लीबायते। होडते, होडायते। सर्वप्रातिपदिकेभ्य इत्येके। अश्व इव आचरति अश्वायते, अश्वति। गर्दभायते, गर्दभति।
न्यासः
कर्त्तु- क्यङ् सलोपश्च। , ३।१।११

सलोपसन्नियोगेन चायं क्यङ विधीयते। तेन यत्रैव सलोपस्तत्रैव स्यात्-- पयायत इत्यादौ, इह तु न स्यात्-- काकः श्येनायत इत्यादौ। एकं हीदं वाक्यम्,चकारश्च समुच्चये, तेनैतदुक्तं भवति-- क्यङसलोपौ भवत इति। तथा च युगपदनयोर्विधानात् सलोपाभावे क्यङा न भवितव्यम्। युगपदनयोर्विधाने हि नान्यतराभावे कार्यमुपयुज्यते, यथा-- "स्थाध्वोरिच्च" १।२।१७, इत्यत आह-- "अन्वाचशिष्टः" इत्यादि। एतदनेन हि। नायं समुच्चये चकारः, किं तर्हि? अन्वाचये। तत्र द्वे वाक्ये भवतः-- कर्त्तुः भवति सर्वत्र, यत्र त्वस्ति सकारस्तत्र तस्यापि लोपः। तत्राद्येन वाक्येन सलोपमनपेक्ष्य प्राधान्येन विधीयमानः क्यङ सलोपविधावपि प्रवत्र्तते। "श्येनायते" इति। "अकृत्सार्वधातुकयोः" ७।४।२५ इति दीर्घः। "सलोपविधावपि वाग्रहणं सम्बध्यते" इति। अन्यथा पयस्यत इति न सिध्येत्। "सा च व्यवस्थितविभाषा" इति। अन्यथौजसोऽप्सरसोरपि विभाषा सलोपः स्यात्। "ओजसोप्सरसोर्नित्यं पयसस्तु विभाषया" (वा।१८५-- (जै।सू।२।१।९१) इति यदुक्तम्, सा च व्यवस्थितविभाषा भवतीति, तदनेन विस्पष्टीकरोति। अथ हंसायते सारसायत इत्यत्र सलोपः कस्मान्न भवतीत्याह-- "सलोपविधौ च" इत्यादि। यदि सलोपविधावपि कर्त्तुरित्येषा पञ्चमी स्यात तदा हि "अलोऽन्त्यस्य" १।१।५१ इत्यस्यानुपस्थानात् यत्रतत्रस्थस् सलोपो भवन्निहापि स्यात्। न च सलोपविधौ कर्त्तुरित्येषा पञ्चमी, किं तर्हि? षष्ठी। यस्मादर्थाद्विभक्तिपरिणामो भवतीति स्थानषष्ठी सम्पद्यते। स्थानषष्ठ()आं च "अलोऽन्त्यस्य" १।१।५१ इत्युपस्थानेऽन्त्यस्यैव लोपेन भवितव्यम्। तेन हंसायत इत्यादौ न भवति लोपः। "आचारे" इत्यादि। क्यङविषयोपलक्षणार्थम्; तेन क्यङपवादः क्विब्दिधीयते। अत्र चावगल्भादीनामनुदात्तमकारमनुबन्धमासज्य निर्देशादवगल्भत इत्यात्मनेपदं भवति, पुनरवल्भादिभ्यो विकल्पेन क्विब् विधीयते, यावता "{गल्भ धार्ष्ट()ए-- धा।पा।} अवगल्भ आ धृष्टे" (धा।पा।३९२), "क्लीबृ {अधार्ष्ट()ए-- धा।पा।) मदे" (धा।पा।३८१), "हुडृ होडृ गतौ" (धा।पा।३५२, ३५४) इत्यात्मनेपदिनः, तत्रैतेभ्यो यदा लकारस्तदावगल्भत इत्यादि भविष्यति, यदा तु कृतमुत्पाद्याचं प्रातिपदिकानि कृत्वा क्यङुत्पाद्यते तदावगल्भायत इति भविष्यति? इदं प्रयोजनं विकल्पेन क्विब्विधानस्य-- अवगल्भाञ्चक्र इति "कास्प्रत्ययादाममन्त्रे" ३।१।३५ इत्यां यथा स्यात्। अन्यथा ह्रप्रत्ययान्तात् प्रत्ययान्ताद्धातोरामुच्यमानो न स्यात्। "सर्वप्रातिपदिकेभ्यः" इति। तरप्यवगल्भाद्यनुकर्षणं कत्र्तव्यम्-- अनुबन्धासञ्जनार्थम्। इह चाचारे क्विब् वेत्यपेक्षते। तेन सर्वप्रातिपदिकेभ्य आचार एव क्विब् भवतीति वाक्यं निष्पद्यते। अथ किमर्थं ककारपकारौ क्विपोऽनुबन्धावासज्येते, यावताककारस्य गुणप्रतिषेधः प्रयोजनम्, न चेह गुणप्राप्तिरस्ति? क्विपो धातोरित्यविधानात् सार्वधातुकत्वाभावात्। सार्वधातुकार्धधातुकयोर्हि गुण उच्यते। पकारस्य चानुदात्तत्वं प्रयोजनं, तच्च क्विपो न सम्भवति; अनच्कत्वात्, सर्वलोपित्वाच्च "वेरपृक्तस्य" ६।१।६५ इति। तर्हि द्वावेतौ सामान्यग्रहणाविघातार्थौ, न; अन्यतरेणैव सामान्यग्रहणाविघातस्य सिद्धत्वात। अन्यथा विज्()विटोरपि तदर्थोऽनुबन्धः कत्र्तव्यः स्यादिति चिन्त्यमेतत्॥
बाल-मनोरमा
कर्तुः क्यङ् स लोपश्च ४९०, ३।१।११

कर्तुः क्यङ्। "कर्तु"रित्यावर्तते। "कर्तुः क्य"ङित्येकं वाक्यम्। अत्र कर्तुरिति पञ्चम्यन्तम्। उपमानादाचारे इत्यनुवर्तते। "धातोः कर्मणः" इत्यतो वेति च। तदाह-- उपमानादिति। उपमानं यत्कर्तृकारकं तद्वृत्तेः सुबन्तादित्यर्थः। "कर्तुः सलोपश्चे"ति द्वितीयं वाक्यम्। चकारः "तु"पर्यायो भिन्नक्रमः। "स" इति लुप्तषष्ठीकं पृथक्पदं। "कर्तु"रिति षष्ठ()न्तस्य विशेषणम्। तदन्तविधिः। तदाह-- सान्तस्य त्विति। पक्षे इति। क्यङभावपक्षे इत्यर्थः। क्यङभावपक्षे सकारलोप इति भ्रमं वारयति-- सान्तस्य लोपस्त्विति। एतच्च महाभाष्ये स्पष्टम्। क्यङि सलोपविकल्पः सर्वत्र स्यादित्यत आह-- स च व्यवस्थित इति। सान्तस्य सलोप इत्यर्थः। व्यवस्थामेव दर्शयति-- ओजसोऽप्सरस इति। इदं वार्तिकम्। ओजश्शब्द इति। क्यङन्तोऽयम्। "सनाद्यन्ता" इति धातुत्वाद्वृत्तिः। तत्र ओजश्शब्द ओजस्विनि वर्तत इत्यर्थः। ओजायते इति। अप्सरश्शब्दात्क्यङि सलोपदीर्घौ। क्यङो ङित्त्वादात्मनेपदम्। "इतरेषां विभाषये"त्यस्योदाहरति --यशायते यशस्यते इति। यशस्वीवाचरतीत्यर्थः। विद्वायते विद्वस्यते इति। विद्वानिवाचरतीत्यर्थः। विद्वच्छब्दात्क्यङि सलोपविकल्पः। त्वद्यते मद्यते इति। त्वमिव अहमिव आचरतीत्यर्थः। युष्मदस्मच्छब्दात्क्यङि "प्रत्ययोत्तरपदयोश्चे"ति मपर्यन्तस्य त्वमौ। युष्मद्यते अस्मद्यते इति। यूयमिव वयमिव आचरतीत्यर्थः। "त्वमावेकवचने" इत्यस्मात् "प्रत्ययोत्तरपदयोश्चे"ति सूत्रे "एकवचने" इत्नुवृत्तेरेकत्वविशिष्टार्थवृत्तित्वे सत्येव युष्मदस्मादोस्त्वमाविति भावः। कुमार्यादिशब्दात्क्यङि पुंवत्त्वं स्मारयति-- क्यङ्मानिनोश्चेति। कुमारायते इति। पुंवत्त्वेन ङीषो निवृत्तौ दीर्घः। हरितायते इति। हरिणीशब्दात् क्यङि पुंवत्त्वेन "वर्णादनुदात्ता"दिति नत्वस्य ङीषश्च निवृत्तौ दीर्घः। गुरूयते इति। गुर्वीशब्दात्क्यङि ङीषो निवृत्तौ दीर्घः। सपत्नायते इति। शत्रुपर्यायात् सपत्नशब्दाच्छाङ्र्गरवादित्वेन ङीनन्तात्पुंवत्त्वेन ङीनो निवृत्तौ दीर्घ इति भावः। सपतीयते इति। समानः पतिः स्वामी यस्या इति बहुव्रीहौ सपतिशब्दस्य नत्वे ङीपि च निष्पन्नात्सपत्नीशब्दात्क्यङि पुंवत्त्वेन ङीब्नत्वयोर्निवृत्तौ दीर्घ इति भावः। सपत्नीयते इति। युवायते इति। युवतिशब्दात्क्यङि पुंवत्त्वे तिप्रत्ययस्य निवृत्तौ नलोपे दीर्घ इति भावः। वयोवाचिनां जातिकार्यं वैकल्पिकमिति "जातेरस्त्रीविषया"दित्यत्र भाष्ये स्पष्टम्। एतेन "जातेश्चे"ति निषेधादिह पुंवत्त्वं दुर्लभमित्यपास्तमिति शब्देन्दुशेखरे स्थितम्। पट्वीमृदूयते इति। "आचारेऽवगल्भक्लीबहोडेभ्यः क्विब्वे"ति वार्तिकम्। उपमानादित्यनुवर्तते। "धातोः कर्मणः" इत्यतो वाग्रहणस्याऽस्मिन्प्रकरणे अनुवृत्त्यैव सिद्दे वागरहणं व्यर्थमित्यत आह-- वाग्रहणात्क्यङपीति। अन्यथा विशेषविहितत्वात्क्विपा क्यङो बाधः स्यादिति भावः। तथाचाऽत्र वाशब्दो विकल्पार्थक इति फलितम्। अत्र सुप इति नानुवर्तते। प्रातिपदिकात् क्यङोऽप्राप्तौ वाग्रहणात्समुच्चीयते इति केचित्। अवगल्भादयत इति। "गल्भ अवगल्भ इति इवाचरति, क्लीब इवाचरति, होड इवाचरतीत्यर्थे अवगल्भादिशब्देभ्यः क्विप्क्यङाविति स्थितम्। अवगल्भते इत्यात्मनेपदलाभायाह-- क्विप्संनियोगेनेति। अन्त्यस्य अकारस्य अनुदात्तत्वमनुनासिकत्वं चाऽत्र प्रतिज्ञायते। ततश्च तस्य इत्संज्ञायां लोपे अनुदात्तेत्त्वादात्मनेपदं लभ्यते। तदाह--तेन तङिति अवगल्भते इति। क्विपि भकारादकारस्य लोपे हल्नताल्लडादौ तङि शविति भावः। ननु अवगल्भांचक्रे, क्लीबाञ्चक्रे, होडांचक्रे इत्यतर् कथमाम्? अन्त्यस्य च इत्संज्ञालोपाभ्यामपहारेण धातूनामेकाच्त्वेन "कास्यनेका"जित्यस्याऽप्रवृत्तेः। न च "अवगल्भे"त्यस्य क्विबन्तस्य धातोरनेकाच्कत्वमस्तीति वाच्यम्, "उपसर्गसमानाकारं पूर्वपदं धातुसंज्ञाप्रयोजके प्रत्यये चिकीर्षिते पृथक्()क्रियते" इत्यनुपदमेव वक्ष्यमाणत्वादित्यत आह--भूतपूर्वादपीति। क्विबुत्पत्तेः प्राक्तनमनेकाच्त्वं भूतपूर्वगत्या आश्रित्येत्यर्थः। भूतपूर्वगत्याश्रयणे प्रमाणमाह-- एतद्वार्तिकेति। "सर्वप्रातिपदिकेभ्यः क्विब्वे"ति वक्ष्यमाणवार्तिकादेव अवगल्भते, अवजगल्भे इत्यादिसिद्धौ पुनरेभ्यः क्विब्विधां तत्संनियोगेन अन्त्यवर्णस्य अनुदात्तत्वानुनासिकत्वप्रतिज्ञानार्थं सद्भूतपूर्वगत्या अनेकाच्त्वाश्रयणं ज्ञापयतीत्यर्थः। नन्वनुदात्तत्वानुनासिकत्वप्रतिज्ञानस्यात्मनपदसिद्धावुपक्षीणत्वात्कथमुक्तज्ञापकतेत्याशङ्क्य निराकरोति-- नचेत्यादि। कुत इत्यत आह-- केवलानामिति। अच्प्रत्ययरहितानां धातुपाठसिद्धानामनुदात्तेतामेव गल्भादिधातूनामवगल्भ इवाचरतीत्याद्यर्थेषु वृत्तिसंभवात्। तच्च कुत इत्यत आह-- धातूनामनेकार्थत्वादिति। एवं च "आचारेऽवगल्भे"ति क्विब्विधानमनुबन्धासञ्जनार्थं सद्भूतपूर्वगत्या अनेकाच्त्वाश्रयणं ज्ञापयतीति सिद्धम्। न च "सर्वप्रतापिदकेभ्यः" इति क्विपि अवगल्भतीत्यादिवारणाय अनुबन्धासञ्जनमुपक्षीणमिति कथं तस्य उक्तज्ञापकतेति वाच्यं, "सर्वप्रातिपदिकेभ्यः" इति वार्तिकेन क्विपि तथा प्रयोगे इष्टापत्तेः, भूतपूर्वाश्रयणपरभाष्यप्रामाण्येन "सर्वप्रातिपदिकेभ्यः" इति वार्तिकस्य अवगल्भादिभ्योऽप्रवृत्तिविज्ञानाद्वेत्यास्तां तावत्। आचारेऽवगल्भे"त्यत्र अवेत्यस्य प्रयोजनमाह-- अवेत्युपसर्गेति। केवलादिति। उपसर्गविहीनाद्गल्भशब्दादित्यर्थः। उपसर्गान्तरेति। प्रगल्भाऽनुगल्बादिशब्दादित्यर्थः। क्यङेवेति। न तु क्विबित्यर्थः। माधवादय इत्यस्वरसोद्भावनम्। तद्बीजमाह-- तङ् नेति तूचितमिति। केवलादुपसर्गान्तरविशिष्टाच्च गल्भशब्दात्, प्रगल्भादिशब्दाच्च अनेन क्विबभावेऽपि "सर्वप्रातिपदिकेभ्यः" इति वार्तिकेन क्विब्निर्बाधः। परन्तु अवपूर्वत्व एवानुबन्धासञ्जनादात्मनेपदमेव तत्र नेति वक्तुमुचितमित्यर्थः। सर्वप्रातिपदिकेभ्यः इति। "आचारे" इति शेषः। नन्वनेनैव वार्तिकेन सिद्धे "आचारेऽवगल्भे"ति वार्तिकं व्यर्थमित्यत आह-- पूर्ववार्तिकं त्विति। अन्त्यवर्णस्य इत्संज्ञासिद्ध्यर्थमित्यर्थः। तर्हि तत्र क्विब्ग्रहणं व्यर्थमित्यत आह-- तत्र क्विबनूद्यते इति। तत्संनियोगेनानुबन्धासङ्गार्थमित्यर्थः। पदकार्यं नेति। "राजानती"त्यादौ नलोपादिकं नेत्यर्थः। अन्यथा अन्तर्वर्तिविभक्त्या पदत्वान्नलोपादिकं स्यादिति भावः। पररूपमिति। कृष्णशब्दात् क्विबन्ताल्लडादौ शप "अतो गुणे" इति पररूपमित्यर्थः। कृष्णांचकार। कृष्णिता। कृष्णिष्यति। कृष्णतु। अकृष्णत्। कृष्णेत्। कृष्णायात्। अतो लोपात्परत्वात् "अकृत्सार्वे"ति दीर्घः। पूर्वविप्रतिषेधस्य विहितत्वादतो लोप इत्यन्ये। अ इवेति। अः = विष्णुः। स इवेत्यर्थः। अतीति। शपा पररूपम्। असि अथः अथ। आमि आवः आमः। क्विप्प्रत्ययान्तत्वाल्लिटि "कास्प्रत्ययात्" इत्याम्प्रत्ययमाशङ्क्य आह-- प्रत्ययग्रहणमपनीयेति। औ अतुः उरिति सिद्धरूपप्रदर्शनम्। तत्र प्रक्रियां दर्शयति-- द्वित्वमिति। णलि "द्विर्वचनेऽची"ति लोपस्य निषेध इति भावः। अतोगुणे इति। द्वित्वे कृते अ अ अ इति स्थिते अन्तरङ्गत्वादतो लोपं बाधित्वा पररूपमिति भावः। अत आदेरिति। न च परत्वान्नित्यत्वादपवादत्वाच्च "अतो गुणे" इत्यस्मात्प्राक् "अत आदे"रित्यस्य प्रवृत्तिरिति वाच्यं, तस्य बहिरङ्गत्वात् "अत आदे"रित्स्यापवादत्वेऽपि आनर्देत्यत्र हलादिशेषात्प्रागेव परत्वात् "अत आदे"रित्यस्य चरितार्थत्वेन बाधकत्वाऽसंभवात् , "अपवादोऽपि यद्यन्यत्र चरितार्थस्तह्र्रन्तरङ्गेण बाध्यते" इत्युक्तेरित्यन्यत्र विस्तरः। यद्यप्यत्र प्रक्रियाव्युत्क्रमे फलविशेषो नास्तितथापि न्याय्यत्वादेवमुक्तम्। णल औ इति। पररूपे दीर्घे च आ अ इति स्थिते "आत औ णलः इत्यौत्वमिति भावः। वृद्धिरिति। आ औ इति स्थिते "वृद्धिरेची"ति वृद्धिरित्यर्थः। तथा च "औ" इति रूपं परिनिष्ठितम्। अतुसादिष्विति। अ अतुस्, अ उस्, इति स्थिते द्वित्वे पररूपे "अत आदेः" इति दीर्घे आतो लोप इत्यर्थः। अतुः उरिति प्रत्ययमात्रं शिष्यते। थलि इटि द्वित्वे दीर्घे आल्लोपे, - इथ अथुः अ। औ इव इम। वस्तुतस्तु "कास्यनकाज्ग्रहण"मिति वार्तिकव्याख्यावसरे प्रत्ययग्रहणमपनीयेति भाष्ये नोक्तम्। कासेश्च, प्रत्ययान्ताच्च आमिति लभ्यते। अत एव "आचारेऽवगल्भक्लीबहोडेभ्यः" इति वार्तिके "अवगल्भांचक्रे" इत्यादौ अन्त्यवर्णस्यानुबन्धत्वेन एकाच्त्वेऽपि "कास्प्रत्यया"दित्यामित्युक्तं भाष्ये इति शब्देन्दुशेखरे प्रपञ्चितम्। इता। इष्यति। अतु- अतात् अताम् अन्तु अ-अतात् अतम् अत। आनि आव आम। आत् आताम् आन्। आः आतम् आत। आम् आव आम। विधिलिङि एत् एताम् एयुः। एः एतम् एत। एयम् एव एम। यात् यास्ताम् यासुः। लुङि "इट ईटि" इति सिज्लोपे "आटश्चे"ति वृदिं()ध बाधित्वा परत्वादतो लोपे इटा सह आटो वृद्धौ ऐत् ऐष्टाम् ऐषुरित्यादीति केचित्। आद्र्धधातुकोपदेशकाले एव परत्वादतो लोपे अङ्गस्याऽभावादाण्नेत्यन्ये। ईत् इष्टामित्यादि। ऐष्यत्। ननु मालाशब्दस्य टाप्प्रत्ययान्तत्वेन प्राप्तिपदिकत्वाऽभावात्ततः कथं क्विबित्यत आह-- लिङ्गविशिष्टेति। वस्तुतस्तु आबन्तेभ्य आचारे क्विब्नास्त्येवेति वि()आपाशब्दनिरूपणे प्रपञ्चितम्। ङीप्साहचर्यादिति। ङ्यन्तादाचारक्विबन्ताद्गौरीशब्दाल्लुङि अगौरयदित्यादौ तिस्योडर्()न्तात्परत्वाऽसंभवात्तत्साहचर्यादाबन्तादपि न तयोर्लोप इत्यर्थः। कवयतीति। शपि गुणाऽयादेशौ। कवीयादिति। "अकृत्सार्वे"ति दीर्घः। लुङि अकवि ईत् स्थिते सिचि वृद्धिमाशङ्क्य आह-- सिचि वृद्धिरित्यत्रेति। सिचा धातोराक्षेपतो लाभेऽपि "ऋत इद्धातो"रित्यतस्तदनुवृत्तेर्धातुरेव यो धातुरिति लभ्यते इति भावः। कैयटादय इति। "इको गुणवृद्धी"ति सूत्रे गोशब्दादाचारक्विपि अगवीदित्युपक्रम्य तथोक्तत्वादिति भावः। माधवस्त्विति। "सिचि वृद्धि"रित्यत्र "ऋत इद्धातो"रित्यतो धातुग्रहणानुवृत्तौ मानाऽभावेन धातुरेव यो धातुरित्युक्तार्थाऽलाभादिति तदाशयः। वस्तुतस्तु "इको गुणवृद्धी" "वदव्रजहलन्तस्याऽचःर" इत्यादिसूत्रस्थभाष्ये सिचि परत एजन्तं नास्तीत्युक्तत्वादेजन्तेभ्य आचारक्विब्नास्त्येवेति शब्देन्दुशेखरे प्रपञ्चितम्। विरिवेति। विः = पक्षी, स इवेत्यर्थः। अभिव्यक्तत्वेनेति। "अभिव्यक्तपदार्था ये"इति न्यायेनेति भावः। बुभावेति। इह न वुक्। अभ्यासस्य अत्त्वं च न। अभावीदिति। इह "गातिस्थे"ति सिचो न लुक्। चङ् नेति। "णिश्री"ति सूत्रे द्रुग्रहणेन धातुपठास्थस्यैव ग्रहणादिति भावः।

तत्त्व-बोधिनी
कर्तुः क्यङ् स लोपश्च ४२०, ३।१।११

कर्तुः क्यङ् स लोपश्च। "धातोः कर्मणः" इतिसूत्राद्वेत्यनुवर्तत इत्याह--क्यङ्वा स्यादिति। "से"ति लुप्तषष्ठीकं कर्तृविशेषणमित्याह-- सान्तस्येति। चकारस्तु अन्वाचये बोध्यः।

* ओजसोऽप्ससो नित्यमितरेषां विभाषया। तद्वतीति। तथा च "ओजायते " इत्यत्र ओजस्वीवाचरतीति विग्रहो बोध्यः। विद्वस्यत इति। नान्तस्यैव पदत्वात्सस्य रुत्वं न। पुंवद्भावं स्मारयति-- क्यङ्मानिनोश्चेति। सपत्नीवेति--त्रितयसाधारणं विग्रहवाक्यम्। सपत्नायत इति। विवाहजन्यसंस्कारविसेषनिमित्तकेन पतिशब्देन समासे सति नित्यस्त्रीत्वान्न पुंवत्। युवायत इति। न च ङ्याप्सूत्रे भाष्ये युवतितरेत्युदाहरणाद्यौवननं जातिरिति "जातेश्चे"ति निषेधे "युवतीयते" इत्युदाहरणमिहोचितमिति वाच्यं,वयसोऽनित्यत्वेनाऽजातित्वात्। अन्यथा "युवजानि" रिति "अचः परस्मि"न्निति सूत्रस्थभाष्यग्रन्थो विरुध्येत।युवतितरेति भाष्यस्य तु का गतिररिति चेत्। अत्राहुः-- "तसिलादिषु" इति पुंवद्भावे प्राप्ते भाष्यनिर्देशादेव न पुंवदिति। "युवती"शब्दस्य तु तरपि "घरूपे"ति ह्यस्वे "युवतितरे" ति भवत्येव। पट्वीमृदूयत इति। पूर्वशब्दस्य क्यङ्परत्वाऽभावान्न पुंवत्। पाचिकायत इति। पुंवद्भावे सति कात्पूर्वस्येत्वं न श्रूयेतेति भावः। एवं -- पञ्चमीयते। स्नौग्ध्नीयते। सुकेशीयते। ब्राआहृणीयत इत्यादि। आचारेऽवगल्भ। गल्भ धार्ष्ट()ए। क्लीबृ--- अधार्ष्ट()ए। होड्ट अनादर#ए। क्यङपीति। अपिशब्दाद्वाक्यम्। तत्तु "सर्वप्रातिपदिकेभ्यः" इत्यत्र वाग्रहणाल्लभ्यते इत्याहुः। क्विप्सन्नियोगेनेत्यादि। तेन क्यङ्सन्नियोगेनाऽनुदात्तत्वानुनासिकत्वायोरभावदित्संज्ञालोपौ न स्त "अकृत्सार्वे"ति दीर्घे सति अवगल्भायते क्लीबायत इत्यादि भवति। तेन तङिति। आत्मनेपदमित्यर्थः। तथा च अवगल्भमानः क्लीबमान इत्यादि सिध्यति। माधवादय इति। केचित्तेषामाशयमाहुः-- "आचारेऽगल्भे" इत्यत्र सुप इत्यनुवर्तते। तथा च केवलादुपसर्गान्तरविशिष्टादवगल्भप्रगल्भादिसुबन्तात्क्यङेव, न तु क्विप्। तङ् नेति तूचितमिति। उत्तर वार्तिकेन प्रातिपदिकमात्रात्क्विब्विधीयत इति एतेभ्योऽपि त्रिभ्यः क्विपि सिद्धे तत्सन्नियोगेनानुदात्तत्वानुनासिकत्वमात्रमच्प्रत्ययस्य "आचारेऽवगल्भे"त्यवगल्भादिषु प्रतिज्ञायते। लाघवात्। अन्यत्र तु गल्भप्रगल्भादिप्रातिपदिकेषु क्विपि परस्मैपदमेव भवति न तु तङिति भावः। नन्वेवम् "आचारेऽवगल्भे" त्यत्र वाग्रहणात्क्यङमनुवर्त्त्य अवगल्भादिप्रातिपदिकेभ्यः क्यङ्()विधानेऽप्यन्यत्र सुबन्तादेव क्यङिति क्यङो विषय एव नास्ति, तथा च केवलादुपसर्गान्तरविशिष्टाच्च क्यङप्ययुक्त इति चेत्। अत्र वदन्ति-- प्रातिपदिकेभ्यः क्विप्, सुबन्तेभ्यः क्यङिति विषयभेदनापि गल्भति गल्भायते प्रगल्भति प्रगल्भायते इत्यादि सिध्यत्येवेति। स्यादेतत्-- "गल्भ धार्ष्ट()ए" इत्यादीनामनुदात्तत्वादवगल्भते इत्यादिप्रयोगसिद्धावपि अवगल्भादिषूत्तरवार्तिकेन क्विपि सत्यवगल्भतीत्याद्यनिष्टप्रयोगः स्यात्तद्वारणार्थम् "आचारेऽवगल्भे"ति वार्तिकारम्भस्यावश्यकतया सामथ्र्यस्योपक्षीणत्वात् "भूतपूर्वादप्यनेकाच आ" मित्येतदप्युक्तमिति चेत्। सत्यम्। अत्र ह्रयमाशयः-- "सर्वप्रातिपदिकेभ्यः" इति वार्तिके वाग्रहणेन व्यवस्थिविभाषाश्रीयते।तथा च अवगल्भक्लीबहोडेभ्यः क्विपोऽभावादनिष्टप्रयोगो न भविष्यतीति स्वीकृते सामथ्र्यं नोपक्षीणमिति दिक्। पदकार्यं नेति। सवर्णदीर्घो यद्यपि पदमात्रकार्यं न भवति तथापि पदस्य जायमानं कार्यं नेत्यत्र तात्पर्यं बोध्यम्। तनोतीति तत्। स इव आचरति ततति। अत्र जश्त्वं न। त्वगिव आचरति। त्वचरि। अत्र कुत्वं नेत्याद्यपि बोध्यम्। द्वित्वमिति। अ णल् इति स्थिते "द्विर्वचनेऽची"ति निषेधादतो लोपो न भवतीति भावः। "अतो गुणे" इति द्वित्वे कृतेऽप्यतो लोपो न भवति, अन्तरङ्गेणाऽनेन बाधितत्वादिति भावः। यद्यप्यत्र फले विशेषो नास्ति तथापि शास्त्रप्राप्तिकमनुरुध्योक्तम्। यद्यप्यत्र "वार्णादाङ्गं बलीयः" इति परिभाषयाऽतो लोप एवोचित इति चेन्मैवम्। तस्याः समानाश्रये कारश्चकारेत्यादौ प्रवृत्तिस्वीकारान्न तु व्याश्रयेऽपि। नच परत्वान्नित्यत्वाच्च "अत आदे"रित्यनेनैव प्रथमं भाव्यमिति वाच्यं, तस्य बहिरङ्गत्वेनाऽसिद्धत्वात्। न चापवादत्वात् "अत आदे"रित्यनेन भाव्यमिति वाच्यम्, अपवादो यद्यन्यत्र चरितार्तस्तर्हि अन्तरङ्गेण बाध्यत इत्युक्तत्वात्, आनर्देत्यादौ तस्य चरितार्थत्वात्। तत्र हलादिः शेषात्प्रागेव परत्वात् "अत आदे"रित्यस्य प्रवृत्तेः। न च नित्यत्वादद्धलादिः शेष एव प्रथमं स्यादिति वाच्यं , नित्यत्वस्य "अत आदे" रित्यस्य आनर्देत्यादौ चरितार्थत्वादन्तरङ्गमेव भवतीति मनोरमोक्कतं चिन्त्यम्। स्वविषयमध्ये एकत्रोदाहणे चरितार्थस्योदाहरणान्तरेऽपि प्रवृत्त्यभ्युपगमात्। न हि "गोद" इत्यत्र "आतोऽनुपसर्गे कः" इति चरितार्थमिति "गोप" इत्यादौ न प्रवर्तते। तस्मादणं बाधित्वा कप्रत्ययो यथा स्वविषये सर्वत्र प्रवर्तते तथेहापि प्रवर्तत इति। तदपरेन क्षमन्ते। गोदगोपादौ सर्वत्राऽणः कस्य च प्राप्तिसंभवे विनिगमनाविरहादणं बाधित्वा कप्रत्यय एव भवति। प्रकृतेत्वानर्देत्यादौ हलादिः शेषात्प्राक् "अतो गुणे" इत्यस्य प्राप्त्यभावाद्वैषम्यमस्तीति। ननु "अत आदे"रित्यस्य पररूपाऽपवादत्वमेधामासेत्यत्र यदुक्तं तत्कथं सङ्गच्छते, आनृधतुरित्यादौ "आद्गुणः" इति गुणस्याऽपि प्राप्तेः। न च यथा सवर्णदीर्घो यण्गुणयोरपवादस्तथाऽयमप्युभयोरवाद इति वाच्यम्, एवमप्यानर्देत्यत्रेव हलादिः शेषात्प्रागेवाऽ‌ऽसेत्यत्रापि "अत आदे"रित्यस्य प्रवृत्तौ किं तेन पररूपापवादत्वकथनेनेति चेत्। अत्र केचिदाहुः-- "द्वन्द्वापवाद एकशेष" इति केषांचित्प्रवादे यथाऽपवादशब्दो बाधकपरः, "सरूपाणा"मित्येकशेषानारम्भे हि स्वाद्युत्पत्तौ द्वन्द्वस्य प्रवृत्तेरेकशेषसूत्रारम्भे तु पदान्तराऽभावेन तदप्रवृत्तेस्तथाऽत्रत्याऽपवादशब्दोऽपि बाधकपरः। "अत आदे"रित्यनाररम्भे हि हलादिः शेषे पररूपप्रवृत्तावेधामासेति न स्यात्। आरब्धे तु तत्सूत्रे तथा स्यादेव, परत्वाद्धलादिःशेषात्प्रागेव दीर्घप्रवृत्त्या पररूपस्याऽप्रसक्तेरिति। यद्यप्यासेत्यादौ प्रथमतः "अत आदे" रिति दीर्घाऽकरणेऽपि हलादिःशेषे पररूपे च कृते तस्य पूर्वान्तवद्भावे सति अभ्यासग्रहणेन ग्रहणात् "अत आदे"रिति दीर्घप्रवृत्त्या समीहितरूपसिद्धिस्तथाप्य#आनर्देत्यादि न सिध्यत्येव। तत्र हि "तस्मान्नुड् द्विहलः" इति दीर्घीभूतादकारान्नुटि सिचि वृद्धिरित्यत्रेति। सिचा धातोराक्षेपात्, "ऋत इद्धातो"रित्यतो धातोरित्यनुवर्तनाच्च धातुरेव यो धातुरिति व्याख्या लभ्यत इति ज्ञेयम्। विरिवेति। विः-- पक्षी।