पूर्वम्: ३।१।३४
अनन्तरम्: ३।१।३६
 
सूत्रम्
कास्प्रत्ययादाममन्त्रे लिटि॥ ३।१।३५
काशिका-वृत्तिः
कास्प्रत्ययादाम् अमन्त्रे लिटि ३।१।३५

कासृ शब्दकुत्सायाम्, ततः प्रत्ययान्तेभ्यश्च धातुभ्यः आम् प्रत्ययो भवति लिटि परतो ऽमन्त्रविषये। कासाञ्चक्रे। प्रत्ययान्तेभ्यः लोलूयाञ् चक्रे। अमन्त्रे इति किम्? कृष्णो नोनाव। कास्यनेकाचः इति वक्तव्यम् चुलुम्पाद्यर्थम्। चकासाञ्चकार। दरिद्राञ्चकार। चुलुम्पाज्चकार। आमो ऽमित्वम् अदन्तत्वादगुणत्वं विदेस् तथा। आस्कासोरां विधानाच् च पररूपं कतन्तवत्।
न्यासः
कास्प्रत्ययादाममन्त्रे लिटि। , ३।१।३५

प्रत्ययग्रहणेनेह सन्नादीनां प्रत्यायानां ग्रहणम्। "प्रत्ययग्रहणे यस्मात्" (पु।प।वृ।४४) इति परिभाषया "येन विधिस्तदन्तस्य" १।१।७१ इति वा तदन्तविधिर्विज्ञायते।धात्वधिकाराच्च प्रत्ययग्रहणेनेह धातवो विशिष्यन्त इत्याह--- "प्रत्ययान्तेभ्यो धातुभ्यः" इति। आम्प्रत्ययो भवतीति हलन्तपक्षमाश्रित्योक्तम्। अदन्तपक्षे त्वामः प्रत्ययो भवतीत्येवं वक्तव्यम्, तच्च नोक्तम्; वक्ष्यमाणादामोऽमित्त्वमदन्तत्वादित्यत एवावगम्यमानत्वात्। "अमन्त्रे" इति विषयसप्तमीयम्, न परसप्तमी, तेन मन्त्रप्रतिषेधात् भाषायां ब्राआहृणे च विषयेऽयं विधिर्विज्ञायते। ब्राआहृणो नाम मन्त्राणामेव व्याख्यानग्रन्थः। न च नञिवयुक्तन्यायेन (व्या।प।६५) ब्राआहृण एव भवितव्यम्, न भाषायाम्? नैतत्; यदि भाषायामपि न स्यात् ब्राआहृण इत्येवं ब्राऊयात्। "कासाञ्चक्रे" इति। "आमः" २।४।८१ इति लेर्लुक्। लिटः कृत्तवाल्लुप्ते तस्मिन् "कृत्तद्धितसमासाश्च" १।२।४६ इति प्रत्ययलक्षणेन प्रातिपदिकसंज्ञा, सुः, स्वरादिपाठात् " तद्धितश्चासर्वविभक्तिः" १।१।३७ इत्यत्र चकारस्यानुक्तसमुच्चयार्थत्वाद्वाऽव्ययसंज्ञायां सोर्लुक्। अथ "हल्ङ्याब्भ्यः" ६।१।६६ इत्यनेन#आत्र सोर्लोपो भविष्यति, किमत्राव्ययसंज्ञया। "लोलूयाञ्चक्रे" इति। लोलूयशब्दाद्यङन्तादाम्। "नोनाव" इति। "णु स्तुतौ" (धा।पा।१०३५), "णो नः" ६।१।६३ इति नत्वम्, यङ, नोनूयत इति स्थिते "यङोऽचि च" २।४।७४ इति यङो लुक्, लिट्, तिप्, "परस्मैपदानाम्" ३।४।८२ इति णल्, वृद्धिः। अत्र प्रत्ययलक्षणेन प्रत्ययान्तादाम् स्यात्, अमन्त्र इति वचनान्न भवति। "कास्यनेकाचः" इत्यादि। प्रत्ययग्रहणमपनीयानेकाज्ग्रहणं कत्र्तव्यमित्यर्थः। किमर्थमित्याह-- "चुलुम्पाद्यर्थम्" इति। यथान्यासं हि क इत्यस्मात् प्रजापतिवाचिनो विष्णुवाचिनोऽशब्दादाचारक्विपि तदन्तादप्याम् प्रसज्येत, चकासृप्रभृतिभ्योऽप्रत्ययान्तेभ्यश्च न स्यात्, तस्मादिदं न्यासान्तरं द्रष्टव्यम्। अन्ये तु प्रत्ययग्रहणस्यानेकाजुपलक्षणान्न कत्र्तव्यमेतदिति मन्यन्ते, एतच्चायुक्तम्; न हि प्रत्ययग्रहणमनेकाजुपलक्षणार्थमुपपद्यते, एकाचामपि प्रत्ययानां धातूनां विद्यमानत्वात्। यथा त्वेतन्न्यासान्तरं प्रत्याख्येयं भवेत् तथोत्तरत्र दर्शयिष्यामः। "चकासाञ्चकार, दरिद्राञ्चकार" इति। "चकासृ दीप्तौ" (धा।पा।१०७४), "दरिद्रा दुर्गतौ" (धा।पा।१०७३)। "चुलुम्पाञ्चकार" इति। चुलुम्पतेर्धातुष्वपरिपठितस्यापि कास्यनेकाज्ग्रहणं चुलुम्पाद्यर्थमिति कात्यायनवचनप्रामाण्यात् धातुत्वं वेदितव्यम्। अथामो मकारस्य "हलन्त्यम्" १।३।३ इतीत्संज्ञा कस्मान्न भवतीत्याह-- "आमोऽमित्तवम्" इत्यादि। मकार इद्यस्य सोऽयमित्, न मिदमित्, तस्य भावोऽमित्त्वम्। कथममित्तवमित्याह-- "अदन्तत्वात्" इत्यादि। मकारान्तत्वे हि सति मकार्सयेत्संज्ञा स्यात्। न चास्य मकारान्तत्वम्, किं तर्हि? अदन्तत्वम्। तेनाकार एव "उपदेशेऽजनुनासिक इत्" ((१।३।२#ः इतीत्संज्ञामनुभवन् मकारस्येत्संज्ञां प्रतिबध्नाति। यथा चामेऽमित्तवमदन्तत्वादगुणत्वं विदेस्तथा। गुणाभावोऽपि हि विदेर्विदाञ्चकारेत्यत्राकारान्तत्वादावेव भवति। अथाकारान्तत्वे सत्यतो लोपे ६।४।४८ तस्याः "अचः परस्मिन् पूर्वविधौ" १।१।५६ इति स्थानिवद्भावादिकार उपधा न भवति, तेन लघूपपधगुणो न भवति। अदन्तत्वं तु विदेः "उषविदजागृभ्योऽन्यतरस्याम्" ३।१।३८ इत्यनेनाम्प्रत्ययसन्नियोगेनाकारान्तत्वनिपातनात्। अभ्युपेत्यामो मकारान्तत्वममित्त्वं प्रतिपादयितुमाह-- "आश्चकासोर्विधानाच्च" इति। आमोऽमित्त्वमिति प्रकृतेन सम्बन्धः,"दयायासश्च"( ३।१।३७) इत्यास आमो विधानात्। कास्यनेकाज्ग्रहणं चुलुम्पाद्यर्थमित्युपसंख्यानाच्चकासेः। आदिग्रहणेन हि चकासेरपि ग्रहणम्। मकारस्येत्संज्ञैयतत् प्रय#ओजनम्-- अचोऽन्त्यात् परो यथा स्यादिति। यदि चामोऽमित्त्वं स्यात् तदाऽ‌ऽश्चकासोरामो विधानमनर्थकं स्यात्। न हि तयोरचोऽन्त्यात् प आशि भवत्यभवति वा कश्चिद्विशेषः। उभयथा हि "अकः सवर्णे" ६।१।९७ इति दीर्घत्वे तदेव रूपं स्यात्, तदेतदाश्चकासोरामो विधानं कथमर्थवद्भवति? यद्यमित्तवमामो भवति नान्यथा। न ह्रन्यत् किञ्चित्प्रयोजनमस्तीति प्रयोजनाभावादित्संज्ञा न भविष्यति। आश्चकासोर्विधानसमाथ्र्यात् सवर्णदीर्घत्वमिह न भविष्यति। "मिदचोऽन्त्यात् परः" १।१।४६ इति परिभाषा वा नोपस्थास्य इत्येतच्च नाशङ्कनीयं लक्ष्यविरोधमनिच्छता। एवं ह्रनिष्टं रूपं स्यात्। न चानिष्टार्था शास्त्रे प्रक्लृप्तिर्युक्ता। यदि तह्र्रमोऽदन्तत्वमेवं सत्याममन्त्र इति निर्देशो नोपपद्यते, सवर्णदीर्घत्वे "आमामन्त्रे" इति भवितव्यमित्याह-- "पररूपं कतन्तवत्" इति। यथा" सर्वत्र लोहितादिकतन्तेभ्यः" ४।१।१८ इत्यत्र पररूपं तथेहापीति न भवति निर्देशानुपपत्तिः॥
बाल-मनोरमा
कास्प्रत्ययादाममन्त्रे लिटि १४९, ३।१।३५

तथा च लिटि आयप्रत्ययस्य विकल्पः स्थितः। तत्र आयप्रत्ययपक्षे आह---कास्प्रत्ययात्। आम्--अमन्त्रे इति च्छेदः। चकासृ दीप्तौ, जागृ निद्राक्षये इत्यादिभ्योऽपि लिटि आमिष्यते। प्रत्ययान्ताच्चेति लभ्यते। ततश्च अ इवाचरति अति। क्विबन्ताल्लडादयः। लिटि औ अतुरित्यादीष्टं न सिध्येत्, प्रत्ययान्तत्वेन आमः प्रसङ्गात्। यदि तु कासृधातोश्च, अनेकाचः प्रत्ययान्ताच्चेति व्याख्यायेत, तदा चकासृजाग्रादिभ्यो न स्यादित्यत आह--प्रत्यग्रहणमपनीयेति। तथाच कास्धातोरनेकाचश्च आमित्येतावदेव लभ्यत इति नोक्तदोषद्वयमिति भावः। वस्तुतस्तु अ इवाचरति अतीत्यादि नास्त्येवेति सुब्धातुनिरूपणे वक्ष्यते। तथा च गोपया-- आमिति स्थितम्।

तत्त्व-बोधिनी
कास्प्रत्ययादाममन्त्रे १२२, ३।१।३५

कास्प्रत्यया। अमन्त्रेति किम्?। कृष्णो नोनाव। अच्छन्दसीति तु नोक्तं, मन्त्रभिन्ने छन्दसि आम इष्टत्वात्। यथा-- "पुत्रमामन्त्रयामास"। प्रत्ययान्तत्वादाम्। "अथ ह शुनः शेप ईक्षांचक्रे"। "इजादेश्चे"त्याम्। इह चुलुम्पचकासृदरिद्रादिब्य आमोऽप्राप्तौ "कास्यनेकाच" इति वार्तिकमारभ्यते।

कास्यनेकाज्ग्रहणं कर्तव्यम्। प्रत्ययग्रहणमपनीयेति। अन्यथा अ इवाचरति अति। अस्य लिटि औ अतुरित्यादि वक्ष्यमाणं न सिध्येदिति भावः। अन्ये तु भाष्यावार्तिकयोः प्रत्ययग्रहणमपनीयेत्यनुतया प्रत्ययान्तादेकाचोप्याम् भवत्येव। अ इवाचरति इत्याचारक्विपि लिटि आंचकार आंचक्रतुरित्यादीत्याहुः।