पूर्वम्: ३।१।१२२
अनन्तरम्: ३।१।१२४
 
सूत्रम्
छन्दसि निष्टर्क्यदेवहूयप्रणीयोन्नीयोच्छिष्य मर्यस्तर्याध्वर्यखन्यखान्यदेवयज्याऽ‌ऽपृच्छ्य प्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्योपचाय्यपृडानि॥ ३।१।१२३
काशिका-वृत्तिः
छन्दसि निष्टर्क्यदेवहूयप्रणीयौन्नीयौच्छिष्यमर्यस्तर्यध्वर्यखन्यखान्यदेवयज्याऽअपृच्छ्यप्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्यौपचाय्यपृडानि ३।१।१२३

निष्टर्क्याऽदयः शब्दाश् छन्दसि विषये निपात्यन्ते। यदिह लक्षणेन अनुपपन्नं तत् सर्वं निपातनात् सिद्धम्। निष्टर्क्यः इति कृती छेदने इत्यस्मान् निस्पूर्वात् क्यपि प्राप्ते ण्यत्, आद्यन्तविपर्ययश्च, निसश्च षत्वं निपात्यते। निष्टर्क्यं चिन्वीत पशुकामः। देवशब्दे उपपदे ह्वयतेर् जुहोतेर् वा क्यप्, दीर्घस्तुगभावश्च। देवहूयः। प्रपूर्वादुत्पूर्वाच् च नयतेः क्यप्। प्रणीयः। उन्नीयः। उत्पूर्वाच् छिषेः क्यप्। उच्छिष्यः। मृङ् प्राणत्यागे, स्तृञाच्छन्दने, ध्वृ हूर्च्छने, एतेभ्यो यत् प्रत्ययः। मर्यः। स्तर्या। स्त्रियाम् एव निपातनम्। ध्वर्यः। खनेर्यत्। खन्या। एतस्मादेव ण्यत्। खान्यः। देवशब्दे उपपदे यजेर्यत्। देवयज्या। स्त्रीलिङ्गनिपातनम्। आङ्पूर्वात् पृच्छेः क्यप्। आपृच्छ्यः। प्रतिपूर्वत् सीव्यतेः क्यप् षत्वम् च। प्रतिषीव्यः। ब्रह्मण्युपपदे वदेर् ण्यत्। ब्रहमवाद्यम्। भवतेः स्तौतेश्च ण्यत्, आवदेशश्च भवति। भाव्यम्। स्ताव्यः। उपपूर्वस्य चिनोतेः ण्यदायादेशौ। उपचाय्यपृडम्। पृडे चोत्तरपदे निपातनमेतत्। हिरण्य इति वक्तव्यम्। हिरण्यादन्यत्र उपचेयपृडम् एव। निष्टर्क्ये व्यत्ययं विद्यान् निसः षत्वं निपातनात्। ण्यदायादेश इत्येतावुपचाय्ये निपाततौ। ण्यदेकस्माच् चतुर्घ्यः क्यप् चतुर्भ्यश्च यतो विधिः। ण्यदेकस्माद् यशब्दश्च द्वौ क्यपौ ण्यद्विधिश्चतुः।
न्यासः
छन्दसि निष्टर्क्यदेवहूयप्रणीयोन्नीयोच्छिष्यमर्यस्तर्याध्वर्यखन्यखान्यदेवयज्यापृच्छ्यप्रतिषीव्यब्राहृवाद्यभाव्यस्ताव्योपचाय्यपृडानि। , ३।१।१२३

"क्यपि प्राप्ते" इति। ऋदुपधत्वात्। "आद्यन्तविपर्ययः" इति ककारस्यादेरन्तत्वं निपात्यते। तकारस्यान्तस्यादित्वम्। "ह्वयतेः" इत्यादि। यदा "ह्वेञ् स्पद्र्धायाम्" (धा।पा।१००८) इत्यस्मात् क्यप् तदा यजादित्वात् ६।१।१५ सम्प्रसारणम्, "हलः" ६।४।२ इति दीर्घः। यदा तु "{हु दानादनयोः" धा।पा।}हु दाने" (धा।पा।१०८३) इत्यसमात्, तदा तुगभावो निपात्यते दीर्घत्वं च। देवा हूयन्तेऽस्मिन्निति देवहूवः। "{उच्छिष्यम् इति काशिका} अच्छिव्यः" इति। "शिष्लृ {विशेषणे-धा।पा।} विशरणे" (धा।पा।१४५१)। "शश्छोऽटि" ८।४।६२ इति छकारः, "स्तोः श्चुना श्चुः" ८।४।३९ इति श्चुत्वम्। " आभ्यां यत्प्रत्ययः" इति। ऋकारान्तत्वाण्ण्यति प्राप्ते। "स्त्रियामव निपातनम्िति। अन्यथा स्तर्येति स्त्रीलिङ्गनिर्देशोऽपार्थकः स्यात्। "आपृच्छ्यः" इति। ग्रह्रादिना ६।१।१६ सम्प्रसारणम्। "प्रतिषीव्यः" इति। "हलि च" ८।२।७७ इत दीर्घः" "वदेण्र्यत्" इति। "वदः सुपि क्यप् च" ३।१।१०६ इति क्यपि यति च प्राप्ते। "भाव्यः, स्ताव्यः" इति। भवतेः स्तौतेश्च यदपवादो ण्यत्। "निष्टर्क्ये" इत्यादि। सुखोपग्रहणार्थौ सङग्रहश्लोकौ। "व्यत्ययम्" इति। आद्यन्तविपर्ययमित्यर्थः। "ण्यदेकस्मात" इति। कर्मणि ल्यब्लोप एषा पञ्चमी। एकं निष्टर्क्यशब्दमुद्दिश्य ण्यद्भवति। एकं शब्दं साधयितुं ण्यद्भवतीति यावत्। "चतुभ्र्यः क्यप्" इति। तादथ्र्य एषा चतुर्थी। ये देवहूयादयोऽनन्तराश्चत्वारस्तदर्थ तत्सिद्ध्यर्थ क्यब् भवतीति। "चततुभ्र्यश्च यतो विधिः" इति। एषापि तादथ्र्यं एव चतुर्थी। तदनन्तरा ये चत्वारो मर्यादयः खान्यपर्यन्तास्तदर्थम् = तत्सिद्ध्यर्थं यतो विधिर्भवति। "णय्देकस्मात्" इति। एषामपि ल्यब्लोपे कर्मणि पञ्चमी। खान्यमेकं शब्दमुद्दिश्य ण्यद्भवति। खान्यशब्दं साधयितुमित्यर्थः। "यशब्दश्च" इति। एकस्मादित्यनुकर्षणार्थः। देवयज्याशब्दमुद्दिश्य यशब्दो भवति। "द्वौ क्यपौ" इति। आपृच्छ्यप्रतीषीव्यशब्दयोः सिद्ध्ये द्वौ क्यपौ भवतः। "ण्यद्विधिश्चुतः" इति। चतुरो वारान् ण्यद्भवतीत्यर्थः। स पुनः परिशिष्टेषु ब्राहृवाद्यादिषु। अथ वा-- "ण्यदेकस्मात्" इत्येकस्माद्धातोरित्यर्थः। "चतुभ्र्यः क्यप्" इति। चतुर्भ्यो धातुभ्यः क्यब् भवतीति। ननु च नयतिरेकएव धातुः, तत्कथं चतुर्भ्यो धातुभ्य इत्युच्यते? उपसर्गभेदादेकस्यापि भेदो विवक्षित इत्यदोषः। "चतुभ्र्यश्च यतो विधिः" इति। तदनन्तरेभ्यश्चतुर्भ्यो धातुभ्यो यतो विधिरित्यर्थः। "ण्यदेकस्मात्" इति। खन एकस्माद्धातोण्र्यद्विधिः। "यशब्दश्च" इति। देवयज्याशब्द एकस्माद्धातोर्यशब्दो भवति। "द्वौ क्यपौ" इति। आपृच्छ्यप्रतिषीव्यशब्दयोः सिद्ध्य आप्रच्छिप्तिषिवशब्दाभ्यां द्वौ क्यपौ भवतः॥