पूर्वम्: ३।१।१२७
अनन्तरम्: ३।१।१२९
 
सूत्रम्
प्रणाय्योऽसंमतौ॥ ३।१।१२८
काशिका-वृत्तिः
प्रणाय्यो ऽसम्मतौ ३।१।१२८

अविद्यमाना सम्मतिरस्मिनित्यसम्मतिः। सम्मननं सममतिः, सम्मतता, पूजा। प्रणाय्यः इति निपात्यते ऽसम्मतावभिधेये। प्रणाय्यश्चोरः। असम्मतौ इति किम्? प्रणेयो ऽन्यः। यद्येवं कथम् एतत्, ज्येष्ठाय पुत्राय पिता ब्रह्म ब्रूयात् प्रणाय्यान्तेवासिने, न अन्यस्मै कस्मैचन इति? सम्मतिरभिलाषो ऽप्युच्यते। तदभावेन निष्कामतया असम्मतिरन्तेवासी भवति। तस्मै निष्कामाय मोक्षार्थं यतमानायान्तेवासिने प्रणाय्याय ब्रह्म ब्रूयातिति युज्यते।
न्यासः
प्रणाय्योऽसम्मतौ। , ३।१।१२८

अविद्यमाना सम्मतिरित्यनेन वाक्यविशेषेण बहुव्रीहिं दर्शयंस्तत्पुरुषाशङ्कां निराकरोति-- "सम्मतिः सम्मतता" इति। सम्मत इति पूजित इत्युच्यते। सम्मतस्य भावः सम्मतता। एतेन सम्मतिशब्देनेह पूजिताभिधेयतेति दर्शयति। "यद्येवम्" इत्यादि। अविद्यमानपूजे चौरादौ प्रणाय्यशब्दस्यान्तेवासिनि प्रयोगो नोपपद्यते। न हि पूजाऽन्तेवासिनि न विद्यत इत्यभिप्रायः। "ब्राहृ प्रब्राऊयात्" इति ब्राहमशब्देनात्र वेद उच्यते। "सम्मतिरभिलोषोऽप्युच्यते" इति। न केवलं पूजेत्यपिशब्देन दर्शयति। "तदभावेन" इति। अभिलाषाभावेन। "निष्कामतया" इति। भावभोगाभिलाषरहिततयेत्यर्थः॥
बाल-मनोरमा
प्रणाय्योऽसमंतौ ७०६, ३।१।१२८

प्रणाय्योऽसमंतौ। असंमतौ गम्यायां "प्रणाय्य" इति निपात्यते। तत्र असंमतिशब्दैकदेशं समंतिशब्दं विवृणोति-- प्रीतिविषयीभवनमिति। तच्च कर्मनिष्ठमित्याह-- कर्मव्यापार इति।तथेति। भोगेषु = सुखदुःखानुभवेषु आसक्तिरपि संमतिरित्यर्थः। एवंविधा संमतिर्न भवतीति असंमतिरिति फलितम्। प्रणाय्यश्चोर इति। ण्यति वृद्धौ आयादेशः।

तत्त्व-बोधिनी
प्रणाय्योऽसमंतौ ५८७, ३।१।१२८

कर्मव्यापार इति।तथा चायमर्थः-- लोकानां या प्रीतिस्तद्विषयीभवनं यस्मिन्नास्ति चोरादौ सोऽसंमतिरिति। वस्तुतस्तु प्रीतिविषयीभवनापेक्षया लाघवात्प्रीतिरेव संमतिः,सा यस्मिन् चोरादौ नास्ति लोकानं सोऽसंमतिः। यद्वा संमतिः प्रीतिविषयेषु यस्य नास्ति स विरक्कतोऽसंमति। तन्त्रेणाऽर्थद्वयमपि गृह्रते।