पूर्वम्: ३।१।१२८
अनन्तरम्: ३।१।१३०
 
सूत्रम्
पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु॥ ३।१।१२९
काशिका-वृत्तिः
पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु ३।१।१२९

पाय्यादयः शब्दा निपात्यन्ते यथासङ्ख्यं माने हविषि निवासे सामिधेन्यां च अभिधेयायाम्। पाय्य इति माङो ण्यत्प्रत्ययः, आदेः पत्वं च निपात्यते माने। पाय्यं मानम् मेयम् अन्यत्। सम्पूर्वान्नयतेर् ण्यदायादेशावुपसर्गदीर्घत्वं च निपात्यते। सानाय्यं हविः। संनेयमन्यत्। रूढित्वाच् च हविर्विशेष एव अवतिष्ठते। निपूर्वाच् चिनोतेः ण्यदायादेशावादिकुवं च निपात्यते। निकाय्यो निवासः। निचेयम् अन्यत्। सामिधेनीशब्द ऋग्विशेषस्य वाचकः। तत्र च धाय्या इति न सर्वा सामिधेनी उच्यते, किं तर्हि, काचिदेव। रूधिशब्दो ह्ययम्। तथा च असामिधेन्याम् अपि दृश्यते, धाय्याः शंसत्यग्निर्नेता तं सोमक्रतुभिः इति।
न्यासः
पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिदेनीषु। , ३।१।१२९

"पाय्य" इति।" आतो युक्" ७।३।३३ "हविर्विशेषेष्वतिष्ठते" इति। यत्रैवायं रूढस्तत्रैवावतिष्ठते। न हविर्मात्रे। "धाय्या" इति। पूर्ववत् युक्। "ऋग्विशेषस्य वाचकः" इति। सर्वा ऋचो न सामिधेनीशब्देनोच्यते, किं तर्हि? समिदाधानमन्त्रः। तथा हि समिदाधानमन्त्रे सामिधेनीशब्दो व्युत्पाद्यते। सामिधेन्यपि न सर्वा ऋगभिधीयते, किं तर्हि? काचिदेवेति दर्शयन्नाह-- "तत्र" इत्यादि। कथं पुनः सामान्येन निपातनां क्रियमाणं विशेषविषयं लभत इत्याह-- "रूढिशब्दो ह्रमम् " इति।धाय्याशब्दो रूढिशब्द ऋग्विशेषस्य वाचकः। सैवानेनोच्यते, नान्या। कथं पुनज्र्ञायते रूढिशब्दोऽयमित्यत आह-- "तथा च" इत्यादि। यदि रूढिशब्दोऽयं न स्यात् सामिधेन्यां निपातितत्वाद् धाय्याः शंसतित्यत्र ऋग्विशेषे न दृश्येत, दृश्यते चासौ। तसमाद्रूढिशब्दोऽयमित्यवसीयते। यदि तह्र्रसामिधेन्यामपि दृश्यते, सामिधेनीग्रहणमनर्थकं स्यात्? नानर्थकम्; रूढिविशेषोपलक्षणार्थत्वात्॥।
बाल-मनोरमा
पाय्यसांनाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु ७०७, ३।१।१२९

पाय्यसांनाय्य। पाय्य, सांनाय्य, निकाय्य, धाय्य--एषां द्वन्द्वात्प्रथमाबहुवचनम्। मान,हविः, निवास, सामिधेनी - एषां द्वन्द्वात्सप्तमी। मानादिषु गम्येषु क्रमात् पाय्यादयो निपात्यन्ते। मीयते अनेनेति। माधातोः करणे ण्यत्,धात्वादेर्मकारस्य पत्वं च निपात्यते इत्यर्थः। आत इति।ण्यति "मीनातीत्यात्त्वे कृते आतो युगिति भावः। ण्यदिति। संपूर्वान्नीदातोः कर्मणि निपात्यत इत्यर्थः। आयादेशिति। सननीय इतिस्थिते आयादेशो निपात्यते इत्यन्वयः। निवास इति। कुसलादिरित्यर्थः। अधिकरणे इति। चिञ्धातोरधिकरणे ण्यन्निपात्यते इत्यन्वयः। आयिति। अच्()परकत्वाऽभावादायादेशोऽप्राप्तो निपात्यते इत्यन्वयः। धाय्या ऋगिति। धाधातोः करणे ण्यति आयादेशो निपात्यते इति भावः। सामिधेन्यो नाम समिदाधानार्था ऋग्विशेषाः। तत्र "समिध्यमानो अध्वरे" इति ऋच उपरि प्रक्षेप्या "पृथुपाजा अमत्र्यः इत्याद्या ऋक्प्रसिद्धा।

तत्त्व-बोधिनी
पाय्यसान्नय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु ५८८, ३।१।१२९

पाय्यसान्नाय्य। चतुर्षु अर्थेषु चत्वारो निपात्यन्ते। पीयतेऽनेनेति माङः करणे ण्यत्। पेयमन्यत्। हविर्विशेष इति। "ऐन्द्रं दध्यमावास्यायामैन्द्रं पयोऽमावास्याया"मिति विहितो दधिपयोविशेषरूपः। धीयते अनयेति। अत्र सर्वा सामिधेनी न ग्राह्रा, किंतु समिध्यमानवतीं समिद्धवतीं चान्तरेण विकृतिषु प्रक्षिप्यमाणा "पृथृपाजा अमत्र्यः" इत्यादिकैव। अयं च विशेषो निपातनस्य रूढ()र्थत्वाल्लभ्यते। नन्वेवं निपातनात्सामिदेनीविसेषवाचकत्वे सामिधेनीग्रहणं व्यर्थमिति चेत्। अत्राहुः- सूत्रे सामिधेनीग्रहणं प्रयोगविशेषोपक्षणार्थम्। तथा चाऽसामिधेन्यामपि दृश्यते-- "धाय्या शंसती"ति। न हि शस्त्रेण समित् प्रक्षिप्यते।