पूर्वम्: ३।१।१२९
अनन्तरम्: ३।१।१३१
 
सूत्रम्
क्रतौ कुण्डपाय्यसंचाय्यौ॥ ३।१।१३०
काशिका-वृत्तिः
क्रतौ कुण्डपाय्यसञ्चाय्यौ ३।१।१३०

कुण्डपाय्य सञ्चाय्य इत्येतौ शब्दौ निपात्येते क्रतावभिधेये। कुण्डशब्दे तृतीयान्त उपपदे पिबतेर् धातोरधिकरणे यत् प्रत्ययो निपात्यते युक् च। कुण्डेन पीयते ऽस्मिन् सोमः इति कुण्डपाय्यः क्रतुः। यतो ऽनावः इति स्वरः। सम्पूर्वाच् चिनोतेः ण्यदायादेशौ निपात्येते। सञ्चीयते ऽस्मिन् सोमः इति सञ्चाय्यः क्रतुः। क्रतौ इति किम्? कुण्डपानम्। सञ्चेयः।
न्यासः
क्रतौ कुण्डपाय्यसञ्चाय्यौ। , ३।१।१३०

"पिबतेः" इति। "पा पाने" (धा।पा।९२५)। "अधिकरमे यत्प्रत्ययः" इति। ल्युटि प्राप्ते। किं पुनः कारणं ण्यतं त्यक्त्वा यत्प्रत्ययान्तः कुण्डपाय्यशब्दो निपात्यते? अत आह-- "यतोऽनाव इति स्वरः" इति। यत्प्रत्ययान्तत्वे ह्रुत्तरपदाद्युदात्तत्वं भवति। ण्यत्प्रत्ययान्तत्वेऽन्तस्वरितत्वं स्यात्। "कुण्डपानम्" इति। क्रतोरन्यत्र ल्युडेव भवति॥
बाल-मनोरमा
क्रतौ कुण्डपाय्यसंचाय्यौ ७०८, ३।१।१३०

क्रतौ कुण्डपाय्य। ऋतुविशेषे गम्ये एतौ निपात्येते। कुण्डेनेति। अत्सरुकैश्चमसैरित्यर्थः। सामान्येनैकवचनम्। "यदत्सरुकैश्चमसैर्भक्षयन्ति तदेषां कुण्ड"मिति श्रुतिः। कुण्डपाय्य इति। सत्रविशेषात्मकः ऋतुः। कुण्डेनेति तृतीयान्ते उपपदे अधिकरणे ण्यत्। आतो युक्। संचाय्य इति। संपूर्वाच्चिञः कर्मणि ण्यत्, आयादेशश्च निपात्यते इति भावः। संचाय्यो नाम ऋतुविशेषः क्वचिच्छाखायामन्वेषणीयः।

तत्त्व-बोधिनी
क्रतौ कुण्डपाय्यसंचाय्यौ ५८९, ३।१।१३०

कुण्डपाय्य। कुण्डशब्दे तृतीयान्ते उपपदे पिबतेरधिकरणे यत्प्रत्ययो युगागमश्च निपात्यते। नन्वत्र ण्यदेव निपात्यतां प्रकृत्वात्, एवं च "आतो युक् चिण्कृतो"रितिसिद्धत्वद्युक् न निपातनीय इतिलाघवमस्तीति चेत्। मैवम्। तित्स्वरप्रसङ्गात्। इष्यते तु "यतोऽनावः" इत्याद्युदात्तः कृदुत्तरपदप्रकृतिस्वरः।तथा च प्रयुज्यते "प्रणाय्यात् कुण्डपाय्य" इति। संपूर्वाच्चिनोतेस्तु ण्यदायौ निपात्येते। क्रतौ किम्?। कुण्डपानम्। संचेयम्।