पूर्वम्: ३।१।१४
अनन्तरम्: ३।१।१६
 
सूत्रम्
कर्मणः रोमन्थतपोभ्यां वर्तिचरोः॥ ३।१।१५
काशिका-वृत्तिः
कर्मणो रोमन्थतपोभ्यां वर्तिचरोः ३।१।१५

रोमन्थशब्दात् तपःशब्दाच् च कर्मणो यथाक्रमं वर्तिचरोरर्थयोः क्यङ् प्रत्ययो भवति। रोमन्थं वर्तयति रोमन्थायते गौः। हनुचलने इति वक्तव्यम्। इह मा भूत्, कीटो रोमन्थं वर्तयति। तपसः परस्मैपदम् च। तपशचरति तपस्यति।
न्यासः
कर्मणो रोमन्थतपोभ्यां वर्त्तिचरोः। , ३।१।१५

कर्मण इति पञ्चमी; रोमन्थतपोभ्यां पञ्चम्यन्ताभ्यां सामानाधिकरण्यात्। सत्यपि ताभ्यां सामानाधिकरण्ये द्विवचनं न भवति, प्रत्येकं वाक्यपरिसमाप्तेः। " वर्त्तिचरोः" इति। वत्र्तनं वर्त्तिः, ण्यन्तात् स्त्रियां क्तिन्। ननु च क्तिना न भवितव्यम्, "ण्यासश्रन्थो युच्" ३।३।१०७ इति युचा बाधितत्वात्। अस्मादेव निपातनात् क्तिन् भविष्यतीत्यदोषः। चरणं चरिति सम्पदादित्वात् क्विप्। "हनुचलने" इत्यादि। अभ्यवह्मतस्य यत् पुनरुद्गीर्य चर्वणं हनुचलनम्। अत्रार्थे रोमन्थशब्दात् क्यङ भवतीत्येतदर्थरूपं व्याख्येयम्। व्याख्यानं तु वाग्रहणमनुवर्त्त्य तद्व्यवस्थितरकविभाषात्वमाश्रित्य कत्र्तव्यम्। वाग्रहणं त्ववश्यमनुवत्र्तयितव्यम्, रोमन्थं वत्र्तयतीति वाक्यं यथा स्यात्। "कीटो रोमन्थं वत्र्तयति" इति। उद्गीर्णं वहिर्निरस्तमवगीर्णं वा पृष्ठान्तेन निर्गतं रोमन्थाख्यं द्रव्यं वत्र्तयति, गुटिकां करोतीत्यर्थः। तेनात्र हनुचलनं न विद्यते। मूलोदाहरणे तु विद्यत एव, तथा हि रोमन्थायत इति। अभ्यवह्मतं पुनराकृष्य चर्वयीत्यर्थः। तच्चर्वणं हनुचलनात्मकमेव। अन्ये तु हनुचलने प्रत्ययमन्यथा प्रतिपादयन्ति। अस्ति चायं रोमन्थशब्दः क्रियापदार्थको यो रोमन्थशब्दात् प्रातिपदिकाद्धात्वर्थ इत्यादिना णिचमुत्पाद्य घञन्तो व्युत्पाद्यते, स ह्रभ्यवह्मतस्य द्रव्यस्य पुनराकृष्य यच्चर्वणं तत्र वर्तते। अस्ति च द्रव्यवचनोऽयं य उद्गीर्णमवगीर्णं वा रोमन्थक्रियाविशिष्टं द्रव्यमाह। तत्र यः क्रियावचनस्तस्येदं ग्रहणम्, यतो द्रव्येऽप्ययं वत्र्तमानः क्रियाद्वारेणैव वत्र्तते। अतो द्रव्ये गौणः, क्रियायां मुख्यः; गौणमुख्ययोर्मुख्ये कार्यसम्प्रत्ययः (व्या।प।४)। तेन क्रियावचनादेव भवति, न द्रव्यवचनादिति। "तपसः परस्मैपदं च" इति। वक्तव्यमित्यपेक्षते ङित्त्वादात्मनेपदे प्राप्ते परस्मैपदं वक्तव्यम् = व्याख्येयम्। व्याख्यानं तु "अनुदात्तङितः" १।३।१२ इति सूत्रे "नपुंसकमनपुंसकेन" १।२।६९ इत्यादेः सूत्रान्मण्डूकप्लुतिन्यायेनानुवत्र्तमानस्यान्थतरस्यांग्रहणस्य व्यवस्थितविभाषात्वमाश्रित्य कत्र्तव्यम्। तेन तपसः क्यङन्तादात्मनेपदं न भवति। तदभावात् "शेषात् कत्र्तरि परस्मैपदम्" १।३।७८ इति परस्मैपदमेव भवति।
बाल-मनोरमा
कर्मणो रोमन्थतपोभ्यां वर्तिचरोः ४९६, ३।१।१५

कर्मणो रोमन्थ। वृतुधातोण्र्यन्तात् "धात्वर्थनिर्देशे इग्वक्तव्यः" इति इकि वर्तिशब्दः। आवर्तनमर्थः। चरेः संपदादित्वाद्भावे क्विप्। वर्ति चर अनयोद्र्वन्द्वात्सप्तमी। आवर्तने चरणे चेति लभ्यते। कर्मशब्देन कर्मकारकं विवक्षितम्। तपोभ्यामिति। रोमन्थमिति। उद्गीर्णस्य निगीर्णस्य वा मन्थो रोमन्थ इति भाष्यम्। उद्गीर्णस्य = उदरादुपरि कण्ठ्दवारा निर्गतस्य, निगीर्णस्य = अपानद्वारा निर्गतस्य च मन्थः = चर्वणं रोमन्थ इत्यर्थः। वर्तयतीति। आवर्तयतीत्यर्थः। हनुचलन इति। हनु = तालु, तच्चलने सत्येव अयं विधिरित्यर्थः। तथा च उदरगतं भक्षितं द्रव्यं तृणादिकं पुनःपुनराकृष्य तालुचलनेन चूर्णितस्य पुनः पुनः प्राशने रोमन्थशब्दात्क्यङिति फलितम्। तदाह-- चर्वितस्येति। हनुचलनेन भक्षितस्य उदरं प्रविष्टस्य पुनः पुनराकृष्य हनुचलनेन भक्षणे गम्ये इति फलितमित्यर्थः। कीट इति। इह हनुचलनाऽभावान्न क्यङिति भावः। तदेवोपपादयति--अपानेति। तपसः परस्मैपदं चेति-- वार्तिकम्। तपश्शब्दः कर्मकारकवृत्तिः पूर्वसूत्राच्चरणे क्यङं लभते, ङित्त्वप्रयुक्तमात्मनेपदं बाधित्वा परस्मैपदमेव च लभते इत्यर्थः। तपस्यतीति। प्रातिपदिकादेवास्य क्यङुत्पत्तेरन्वर्वर्तिविभक्त्यभावात् "नः क्ये" इति नियमाच्च पदत्वाऽभावान्न रुत्वमिति भावः।

तत्त्व-बोधिनी
कर्मणो रोमन्थतपोभ्यां वर्तिचरोः ४२५, ३।१।१५

कर्मणो। "रोमन्थतपोभ्या"मित्यनेन सामानाधिकरण्यात्कर्मण इति पञ्चमी। प्रत्येकं संबन्धादेकवचनमित्याह-- कर्मभ्यामिति। वर्तनायां चरण इति। सूत्रे "वर्ती"ति ण्यन्ताद्वृतेः "ण्यासश्रन्थे"ति युचं बाधित्वाऽस्मादेव निपातनात्क्तिन्। चर्तेस्तु संपदादित्वाद्भावे क्विबिति भावः। केचित्तु वर्तिशब्दो वर्तयतेः "इक्श्तिपौ" इति इकि रूपम्। लक्षणया चाऽर्थलाभ इत्याहुः।