पूर्वम्: ३।१।४८
अनन्तरम्: ३।१।५०
 
सूत्रम्
विभाषा धेट्श्व्योः॥ ३।१।४९
काशिका-वृत्तिः
विभाषा धेट्श्व्योः ३।१।४९

धेट् पाने, टुओश्वि गतिवृद्ध्योः, एताभ्याम् उत्तरस्य च्लेर् विभाषा चङादेशो भवति। धेटस्तावत् अदधात्। सिच्पक्षे विभाषा घ्राधेट्शाच्छासः २।४।७८ इति लुक्। अधात्। अधासीत्। श्वयतेः खल्वपि। अशिश्वियत्। अङो ऽप्यत्र विकल्प इष्यते। अश्वत्। अश्वयीत्। कर्तरि इत्येव, अधिषातां गवौ वत्सेन।
बाल-मनोरमा
विभाषा धेट् २१२, ३।१।४९

लुङि च्लेः सिचि प्राप्ते-- विभाषा धेट्। "च्लि लुङी"त्यनुवर्तते। "णिश्रिद्रुरुआउभ्यःरर" इत्यतः कर्तरि चङिति च। तदाह--आभ्यामिति। धेट् ()इआ आभ्यामित्यर्थः। अदधदिति। चङि द्वित्वे आल्लोप इति भावः। अदधताम्। अदधन्। अदधः अदधतम् अदधत। अदधम् अदधाव अदधाम।

तत्त्व-बोधिनी
विभाषा धेट्श्व्योः १८४, ३।१।४९

विभाषा धेट्। "च्लि लुङी"त्यनुवर्तते, "णिश्री"त्यस्मात्कर्तरीति च। तदाह--च्लेश्चङ् वेत्यादि। अदधदिति। चङि आतो लोपः। ()आयतेरुदाहरणम्-- अशि()इआयत्।