पूर्वम्: ३।१।६८
अनन्तरम्: ३।१।७०
 
प्रथमावृत्तिः

सूत्रम्॥ दिवादिभ्यः श्यन्॥ ३।१।६९

पदच्छेदः॥ दिवादिभ्यः ५।३ श्यन् १।१ ७२ सार्वधातुके ७।१ ६७ कर्तरि ७।१ ६८ धातोः ५।१ २२ प्रत्ययः १।१ परश्च १।१

समासः॥

दिव आदिः येषां ते दिवादयः, तेभ्यः ॰ बहुव्रीहिः।

अर्थः॥

दिवादिभ्यः धातुभ्यः श्यन् प्रत्ययः भवति, कर्त्तरि सार्वधातुके परतः।

उदाहरणम्॥

दीव्यति, सीव्यति।
काशिका-वृत्तिः
दिवादिभ्यः श्यन् ३।१।६९

दिवित्येवम् आदिभ्यः धातुभ्यः श्यन् पर्त्ययो भवति। शपो ऽपवादः। नकारः स्वरार्थः। शकारः सार्वधातुकार्थः। दीव्यति। सीव्यति।
लघु-सिद्धान्त-कौमुदी
दिवादिभ्यः श्यन् ६३२, ३।१।६९

शपोऽपवादः। हलि चेति दीर्घः। दीव्यति। दिदेव। देविता। देविष्यति। दीव्यतु। अदीव्यत्। दीव्येत्। दीव्यात्। अदेवीत्। अदेविष्यत्॥ एवं षिवु तन्तुसन्ताने॥ २॥ नृती गात्रविक्षेपे॥ ३॥ नृत्यति। ननर्त। नर्तिता॥
न्यासः
दिवादभ्यः श्यन्। , ३।१।६९

"शपोऽपवादः" इति। तत्प्राप्तावेवास्यारम्भात्। "नकारः स्वरार्थः" इति। "ञ्नित्यादिर्नित्यम्" ६।१।१९१ इति पदस्याद्युदात्तत्वं यथा स्यात्। "दीव्यति" इति। "हलि च" ८।२।७७ इति दीर्घः॥
बाल-मनोरमा
दिवादिभ्यः श्यन् ३३४, ३।१।६९

दिवादिभ्यः। "कर्तरि श"बित्यतः कर्तरिति, "सार्वधातुके य"गित्यतः सार्वधातुके इति चानुवर्तते इत्यभिप्रेत्याह-- शपोऽपवाद इति। शकारनकारावितौ। दिव् यतीति स्थिते आह-- हलि चेति दीर्घ इति। श्यनोऽपित्त्वेन ङित्त्वान्न गुण इति भावः। दीव्यतः दीव्यन्तीत्यादि सुगमम्। दिदेवेति। दिदिवतुः। दिदेविथ। दिदिविव। सेट्त्वं सूचयति--देवितेति। षिनुधातुरपि सेट्। षोपदेशः। दिवुधातुवदस्य रूपाणि।परिषीव्यतीति। "परिनिविभ्यः सेवे"ति षत्वमिति भावः। परिषिषेवेति। "स्थादिष्वेवाभ्यासस्ये"ति नियमस्तु न, तत्र "प्राक्सिता"दित्यनुवृत्तेरितिभावः। "सिवादीनां वाऽड्व्यवायेऽपी"ति मत्वाह--न्यषेवीत् न्यसेवीदिति। रिउआवुधातुस्तु रेफवान्। ष्ठिवु निरसने इति। "सुब्दातुष्वक्कष्ठीवा"मिति न सत्वम्। ष्ठीव्यतीत्यादि सुगमम्। आद्र्धदातुकेषु तु शब्विकरणस्थष्ठिबुधातुवद्रूपाणि। ष्णसुधातुश्च षोपदेशः। नृती गात्रेति। "()आईदितः" इत्याद्यार्थमीदित्त्वम्। सेडयम्।