पूर्वम्: ३।१।९१
अनन्तरम्: ३।१।९३
 
सूत्रम्
तत्रोपपदं सप्तमीस्थम्॥ ३।१।९२
काशिका-वृत्तिः
तत्र उपपदं सप्तमीस्थम् ३।१।९२

तत्र एतस्मिन् धात्वधिकारे तृतीये यत् सप्तमीनिर्दिष्टं तदुपपदसंज्ञं भवति। वक्ष्यति कर्मण्यण् ३।२।१। कुम्भकारः। स्थग्रहणं सूत्रेषु सप्तमीनिर्देशप्रतिपत्त्यर्थम्। इतरथा हि सप्तमी श्रूयते यत्र तत्र एव स्यात्, स्तम्बेरमः, कर्णेजपः इति। यत्र वा सप्तमीश्रुतिरस्ति सप्तम्यां जनेर् डः ३।२।९७ इति, उपसरजः, मन्दुरजः इति। स्थग्रहणात् तु सर्वत्र भवति। गुरुसंज्ञाकरणम् अन्वर्थसंज्ञाविज्ञाने सति समर्थपरिभाषाव्यापारार्थम्। पष्य कुम्भं, करोति कटम् इति प्रत्ययो न भवति। उपपदप्रदेशाः उपपदम् अतिङ् २।२।१९ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
तत्रोपपदं सप्तमीस्थम् ९५६, ३।१।९२

सप्तम्यन्ते पदे कर्मणीत्यादौ वाच्यत्वेन स्थितं यत्कुम्भादि तद्वाचकं पदमुपपदसंज्ञं स्यात्॥
बाल-मनोरमा
तत्रोपपदं सप्तमीस्थम् ७७१, ३।१।९२

अथोपपदसमासं वक्ष्यन्नुपपदसंज्ञामाह--तत्रोपपदं सप्तमीस्थम्। अधिकाऽयम्। "सप्तमी"ति तदन्तग्रहणम्। सप्तम्यन्ते पदे वाच्यवाचकभावसंबन्धेन तिष्ठतीति सप्तमीस्थम्। सप्तम्यन्तवाच्यमिति यावत्। धातोरित्यधिकारसूत्रादुत्तरसूत्रमिदम्। ततश्च तदधिकारान्तर्गतेषु "कर्मण्य"णित्यादिसूत्रेषु यत्सप्तम्यन्तमुच्चारितं तदेव इह विवक्षितम्। एवंच तदुदाहरणे कुम्भं करोति कुम्भकार इत्यत्र सप्तम्यन्तवाच्यं कुम्भादीति पर्यवसन्नम्। कुम्भादेश्च उपपदसंज्ञायां प्रयोजनाऽभावात्तद्वाचकपदेषु विश्राम्यति। तथाच धातोरित्यधिकारान्तर्गते कर्मणीत्यादिसूत्रे यत्सप्तम्यन्तं "कर्मणी"त्यादि, तद्वाच्यं यत्कुम्भादि, तद्वाचकं पदम् उपपदसंज्ञं स्यादित्यधिकृत वेदितव्यमित्यर्थः फलितः। तदाह--सप्तम्यन्ते पद इत्यादिना। तत्र "धातोः कर्मणः समानकर्तृकात्" इति, "धातोरेकाचो हलादेः" इति, "धातो"रिति च क्रमेण त्रयो धात्वधिकाराः। तत्र प्रत्यासत्त्या तृतीयधात्वधिकारस्थसप्तम्यन्तस्यैव ग्रहणात् "धातोरेकाचः" इत्याधिकारे "च्लि लुङी"त्यत्र सप्तम्यन्तं न गृह्रते। अन्यथा कर्मणीत्यादाविव लुङन्ते अभूदित्यादावुपपदो धातोः च्लिरित्यर्थः स्यात्। ननु तत्रेति व्यर्थं, तृतीयधात्वधिकारस्य प्रकृतत्वादेव ग्रहणसंभवादित्याशङ्क्या--त()स्मश्च सत्येवेति। अयमाशयः--तत्रेति भिन्नं वाक्यं क्रमव्यत्यासेन योज्यम्। सप्तमीस्थमुपपदसंज्ञं स्यात्, "तत्र"=तस्मिन्सति इति चाधिकृतं वेदितव्यमिति। तथाचोपपदे सति वक्ष्यमाणः प्रत्ययः स्यादिति "तत्रे"त्यस्यार्थः फलति। तथाच "कर्मण्य णित्यत्र इदं सूत्रमुपस्थितम्। कर्मणीति सप्तम्यन्तं प्रथमान्तत्वेन विपरिणम्यते। सप्तमीनिर्देशस्तु उपपदसंज्ञाप्रवृत्त्यर्थः। "धातोरण्स्यात्कर्तर्यर्थे, कर्मवाचकं तु कुम्भादिपदमुपपदसंज्ञं प्रत्येतव्यम्, तस्मिन्नपपदे सत्यव अण्स्या"दिति फलति। "तस्मिन्सत्येवाऽण्स्या"दित्यभावे तु कारेत्येवं केवलादपि धातोः कर्तर्यर्थे अण्प्रत्ययः स्यात्। कर्मणीति सप्तम्यन्तनिर्देशस्तु कुम्भकार इत्यादौ उपपदसंज्ञां प्रापय्य"उपपदमति"ङिति नित्यसमाससंपादनेन कुम्बे त्यस्य कारेत्यस्य च साधुत्वप्रापणार्थतया चरितार्थः। "तस्मिन्नुपपदे सत्येवाण्स्या"दित्युक्ते तु कुम्भाद्युपपदस्य अम्प्रत्ययोत्पत्तौ निमित्तत्वावगमान्न केवलादण्प्रत्ययः, उपपदसंज्ञायाः प्रत्ययविधिसंनियोगशिष्टत्वलाभात्। "धः कर्मणि ष्ट्रन्" "भुवो भावे" इत्यादौ सप्तम्यन्तमर्थनिर्देशपरमेव, व्याख्यानादिति भाष्यकैयटादिषु स्पष्टम्।

तत्त्व-बोधिनी
तत्रोपपदं सप्तमीस्थम् ६८०, ३।१।९२

तत्रोपपदम्। "सप्तमीस्थ"मित्येतव्द्याचष्टे--सप्तम्यन्त इत्यादिना। तद्वाचकं पदमिति। एतच्चोपपदमित्यन्वर्थसंज्ञाबलाल्लभ्यते। अतएव संज्ञाविधवपि सप्तमीग्रहणेन सप्तम्यन्तं गृह्रते। "धातोः"इति पृथगधिकारबलात् "संनिहिते धात्वधिकारे"इति लभ्यते। तेन "च्लि लुङी"त्यस्य लुङन्तेऽभूदित्यादावुपपदे धातोश्चिलरित्यर्थो न भवति "तत्र ग्रहणं व्याचष्टे---तस्मिन् सत्येवेति। उपपदे सत्येवेत्यर्थः। तत्रग्रहणाऽभावे तु "धः कर्मणि ष्ट्र"न्नित्यादाविव "कर्मण्य"णित्यादावपि कर्मण्यभिधेयेऽणित्याद्यर्थः स्यात्। किंच सप्तम्यन्तनिर्देशस्योपपदसंज्ञार्थतया चरितार्थत्वात्केवलादपि धातोः कर्तर्यण्प्रत्ययः संभाब्येत। कृते तु "तत्र"ग्रहणे कुम्बाद्युपपदस्य प्रत्ययोत्पत्तौ निमित्तत्व प्रतीत्या केवलादण्()प्रत्ययशङ्कैव नास्ति। एवं स्थितेः "धः कर्मणी"त्यादौ क्वचिदर्थग्रहणं व्याख्यानादित्याहुः। अन्ये तु "तत्रोपपद"मित्यस्य "कर्मण्य" णित्यादेश्चैकवाक्यतया प्रवृत्तावुपपदसंज्ञाया निपर्विषयत्वापत्तेस्तत्रग्रहणं विनाप()ष्ट सिद्द्यत्येवेत्याहुः।