पूर्वम्: ३।२।१००
अनन्तरम्: ३।२।१०२
 
सूत्रम्
अन्येष्वपि दृश्यते॥ ३।२।१०१
काशिका-वृत्तिः
अन्येष्वपि दृश्यते ३।२।१०१

अन्येष्वपि उपपदेषु कारकेषु जनेः डः प्रत्ययो दृश्यते। सप्तम्याम् इत्युकतम सप्तम्याम् अपि दृश्यते। न जायते इति अजः। द्विर्जाताः द्विजाः। पञ्चम्याम् अजातौ ३।२।९८ इत्युक्तं, जातवपि दृश्यते। ब्राह्मणजो धर्मः। क्षत्रियजं युद्धम्। उपसर्गे च संज्ञायाम् ३।२।९९ इत्युक्तम्, असंज्ञायाम् अपि दृश्यते। अभिजाः, परिजाः केशाः। अनु कर्मणि ३।२।१०० इत्युक्तम्, अकर्मण्यपि दृश्यते। अनुजातः अनुजः। अपिशब्दः सर्वोपाधिव्यभिचारार्थः। तेन धात्वन्तरादपि भवति, कारकन्तरे ऽपि। परितः खाता परिखा। आखा।
न्यासः
अन्येष्वपि दृश्यते। , ३।२।१०१

"अपिशब्दः" इत्यादि। सर्व उपाधय उपपदादयः, तेषां व्यभिचारो यथा स्यादित्येवमर्थोऽपिशब्दः। "धात्वन्तरादपि"इति। "खनु अवदारणे"(धा।पा।८७८) इत्येतस्मात्। "कारकान्तरेऽपि" इति। कर्त्तुरन्यस्मिन् कारके कर्मणि॥
बाल-मनोरमा
अन्येष्वपि दृश्यते ८२१, ३।२।१०१

अन्येष्वपि दृश्यते। अज इति। न जात इत्यर्थः। द्विजो ब्राआहृण इति। द्विर्जात इत्यर्थ-। "मातुर्यदग्रे जायन्ते द्वितीयं मौञ्जिबन्धना"दित्यादिस्मृतेरिति भावः। अपि शब्द इति। "सप्तम्यां जनेर्डः" इत्यादिसूत्रेषु डविधिषु यानि विशेषणान्युपात्तानि प्रकृतिविशेषरूपाणि, भूते कर्तरीति प्रत्ययार्थविशेषणं च तदतिक्रमार्थ इत्यर्थः।

तत्त्व-बोधिनी
अन्येष्वपि दृश्यते ६७६, ३।२।१०१

अन्येष्वपि दृश्यते। "सप्तम्यां जने"रित्युक्तमसप्तम्यामपि दृश्यत इत्याह --अजः। द्विज इति। न जायत इत्यजः। द्विर्जातो द्विजः।"जन्मना जायते शूद्रः कर्मणा जायते द्विजः" इत्यभियुक्तोक्तेः। "पञ्चम्यामजातौ"इत्युक्तं, जातावपि दृश्य त इत्याह ब्राआहृणज इति। अपिशब्द इति। यत्तु "अन्तात्यन्ताध्वे"ति प्रकरणे "अन्यत्रापऽपि दृश्यते" इत्युपसङ्ख्यातं तद्भूतकालं विनापि यथा स्यादित्येवमर्तम्। वस्तुतस्तु प्रकृतसूत्रस्थस्याऽपिग्रहणस्य सर्वपादिव्यभिचारार्थत्वात्तद्वार्तिकमेनैव गतार्थम्। विभावितं चेदं "इको गुणवृद्धी" इति सूत्रे जनेर्ड प्रक्रम्य "गमेरप्ययं डो वक्तव्यः" इति वदता भाष्यकारेण। एवं च प्रकृतसूत्रस्थम् संज्ञासिद्धिः, सिद्धायां निष्ठासंज्ञायां क्तक्तवत्वोर्विधानमित्यन्योन्याश्रय इति चेत्। अत्राहुः--भाविनी संज्ञाऽत्र विज्ञायते,-- "स भूते भवति यस्योत्पन्नस्य निष्ठेति संज्ञा भवतीत"त्याश्रयणे सामथ्र्यात् रक्तक्तवत्वोर्विधानमेतदिति नास्त्युक्तदोष इति।