पूर्वम्: ३।२।१४
अनन्तरम्: ३।२।१६
 
सूत्रम्
अधिकरणे शेतेः॥ ३।२।१५
काशिका-वृत्तिः
अधिकरणे शेतेः ३।२।१५

सुपि इति सम्बध्यते। शेतेर् धातोरधिकरणे सुबन्त उपपदे अच् प्रत्ययो भवति। खे शेते खशयः। गर्तशयः। पार्श्वादिषु उपसङ्ख्यानम्। पार्श्वाभ्यां शेते पार्श्वशयः। उदरशयः। पृष्ठशयः। दिग्धसहपूर्वाच् च। दिग्धेन सह शेते दिग्धसहशयः। उत्तानादिषु कर्तृषु। उत्तानः शेते उत्तानशयः। अवमूर्धा शेते अवमूर्धशयः। गिरौ डश्छन्दसि। गिरौ शेते गिरिशः।
न्यासः
अधिकरणे शेतेः। , ३।२।१५

"सुपीति सम्बध्यते" इति।शेतेरकर्मकत्वात्। अधिकरणस्य चाकर्मकत्वे सम्भवति सुपीतीह सम्बध्यते, न कर्मणीति। "पार्(ाआदिषूपसंख्यानम्" इति। आरम्भोऽयमनधिकरणार्थः। पार्(ाआभ्यामिति तृतीयान्तमुपपदं दर्शयति। उरःशः, पृष्ठशय इत्यत्रापि तृतीयान्तमेवोपपदं वेदितव्यम्। "दिग्धसहशयः" इति। दिग्धेन सह शेत इति "तृतीया" २।१।२९ इति योगविभागेन समासः। दिग्धस्य सहेन प्राक् प्रत्ययोत्पत्तेः पश्चादुपपदसमासः। "गिरौ" इत्यादि। गिरावुपपदे शेतेश्छन्दसि विषये डो भवति। "गिरिशः"इति। डित्त्वाट्टिलोपः। एतत् सर्वं "व्यत्ययो बहुलम्" ३।१।८५ इति बहुलवचनात् सिद्धम्॥
बाल-मनोरमा
अधिकरणे शेतेः ७४४, ३।२।१५

अधिकरणे। सुबन्तेऽधिकरणवाचिन्युपपदे शीङ्धातोरच् स्यादित्यर्थः। पार्(ाआदिष्विति। अत्राऽधिकरणवाचनिनीति न संबध्यते। तद्ध्वनयन्नुदाहरति-- पार्(ाआभ्यामिति। उत्तानादिषु कर्तृष्विति। वार्तिकमिदम्। उत्तानादिशब्देषु कर्तृवाचिषूपपदेषु शीङोऽजित्यर्थः। गिराविति। वार्तिकमिदम्। गिरावुपपदे शीङो दभस्यापि टेर्लोपः। यद्यपि वैदिकप्रक्रियायामेवेदं व्याख्येयम्, तथापि लोके डप्रत्ययस्य न प्रवृत्तिः कि त्वजेवेति प्रदर्शनार्थमिह तद्व्याख्यानमित्यभिप्रेत्य लोके अच्प्रत्ययमुदाहरति-- गिरिशय इति। कथमिति। लोके डप्रत्ययाऽसंभवादिति भावः। समाधत्ते-- गिरिरस्यास्तीत्यादि।

बाल-मनोरमा
हरतेर्दृतिनाथयोः पशौ ७५२, ३।२।१५

हरतेर्दृतिनाथयोः। दृतिः चर्मभस्त्रिका। दृतिहरिः ()आआ इति वृत्तिः। "नाथ" शब्दस्य विवरणम्--नासारज्जुमिति। नासिकाप्रोतरज्जुमित्यर्थः। नाथहरिरिति। नासिकाप्रोतरज्जुके पशुविशेषे रूढोऽयम्।

तत्त्व-बोधिनी
अधिकरणे शेते ६२१, ३।२।१५

* पार्(ाआदिषूपसङ्ख्यानम्। पार्(ाआभ्यामित्यादिना।