पूर्वम्: ३।२।१९
अनन्तरम्: ३।२।२१
 
सूत्रम्
कृञो हेतुताच्छील्यानुलोम्येषु॥ ३।२।२०
काशिका-वृत्तिः
कृञो हेतुताच्छील्याऽनुलोम्येषु ३।२।२०

कर्मणि उपपदे करोतेः धातोः टप्रत्ययो भवति हेतौ ताच्छील्ये आनुलोम्ये च गम्यमाने। हेतुः ऐकान्तिकं करणम्। ताच्छील्यं तत्स्वभावता। आनुलोम्यम् अनुकूलता। हेतौ तावत् शोककरी कन्या। यशस्करी विद्या। कुलकरं धनम्। ताच्छील्ये श्राद्धकरः। अर्थकरः। आनुलोम्ये प्रैषकरः। वचनकरः। एतेसु इति किम्? कुम्भकारः। नगरकारः।
लघु-सिद्धान्त-कौमुदी
कृञो हेतुताच्छील्यानुलोम्येषु ७९७, ३।२।२०

एषु द्योत्येषु करोतेष्टः स्यात्॥
न्यासः
कृञो हेतुताच्छील्यानुलोम्येषु। , ३।२।२०

हेत्वादय एते, नोपपदानि। यदि ह्रुपपदानि स्युः, "शमि धातोः संज्ञायाम्" ३।२।१४ इत्यत्र धातुग्रहणमनर्थकं स्यात्। तद्धि कृञो हेत्वादिषु टप्रतिषेधार्थं कृतम्। यद्येषामुपपदत्वं स्याट्टप्रत्ययस्य प्राप्तिरेव नास्तीति धातुग्रहणमनर्थकं स्यात्।अतो नैवामुपपदत्वम्, नापि प्रत्ययार्थत्वम्; "कत्र्तरि कृत्" ३।४।६७ इति कर्त्तुः प्रत्ययार्थत्वात्। न च तैर्बाधा युक्ता, विरोधाभावात्। तस्मात् प्रत्ययार्थविशेषमत्वमेषां युक्तम्। तत्र कत्र्तरि प्रत्ययो भवति यस्मिन्नभिधीयमाने तद्विशेषो हेत्वादयो गम्यन्ते। अत एवाह-- "हेतौ ताच्छील्ये आनुलोम्ये च गम्यमाने" इति। "हेतुरैकान्तिकं कारणम्" इति। एतेन लौकिकहेतोग्र्रहणम्, न पारिभाषिकस्येति दर्शयति। पारिभाषिको हेतुः स्वतन्त्रस्य कर्त्तुः प्रयोजकः, यदि तस्येह ग्रहणं स्यात कृञ इति नोपपद्यते; न ह्रण्यन्तात् प्रयोजककत्र्तरि प्रयोजक इत्पद्यते, अपि तु ण्यन्तादन्तर्भावितण्यर्थात् प्रत्यय उत्पद्यत इति चेत्? नैतदस्ति; टप्रत्ययान्तण्ण्यर्थस्याप्रतीतेः। ननु च लौकिकस्य हेतोग्र्रहणे सति निमित्ततया कत्र्ता विशिष्यते, तच्चायुक्तम्; न हि कर्त्तुरनिमित्वमस्ति यद्विशेषणेन व्यावर्त्त्येत? नैष दोषः सिद्धे कर्त्तुर्हि निमित्तत्वे पुनर्हेतुशब्द उपादीयमान ऐकान्तिकत्वं बोधयतीति--यः कत्र्ता यस्याः ऐकान्तिको हेतुरिति। अत एवोक्तम्-- "हेतुरैकान्तिकं कारणम्" इति। आनुलोम्यम् = अनुकूलयामीत्याराध्यचित्तानुप्रवत्र्तनम्। "यशस्करी"इति। "अतः कृकमिकंस" ८।३।४६ इत्यादिना विसर्जनीयस्य सत्वम्॥
बाल-मनोरमा
कृञो हेतुताच्छील्यानुलोम्येषु ७४८, ३।२।२०

कृञो हेतु। हेतुः-- कारणम्। आनुलोम्यम्-- आराध्यचित्तानुवर्तनम्। द्योत्येष्विति। कर्तुरेव प्रत्ययवाच्यत्वादिति भावः। हेत्वादिषूपपदेष्विति तु नार्थः, व्याख्यानात्। कर्मण्युपपदे इत्यपि द्रष्टव्यम्। "कुप्वो"रिति जिह्वामूलीयमाशङ्क्याह-- अत- कृकमीति। हेतावुदाहरति-- यशस्करी विद्येति। विद्या यशोहेतुः। श्राद्धकर इति। श्राद्धक्रियाशील इत्यर्थः। वनकर इति। गुर्वादिवचनानुवर्तीत्यर्थः।

बाल-मनोरमा
नाडीमुष्ट�ओश्च ७५८, ३।२।२०

नाडीमुष्ट()ओश्च। यथासङ्ख्यं नेष्यते इति। इदं तु भाष्ये स्पष्टम्। घटीखारीत्यादि स्पष्टम्।

तत्त्व-बोधिनी
कृञो हेतुताच्छील्यानुलोम्येपु ६२४, ३।२।२०

कृञो हेतु। हेतुरिह लोकिको न तु तत्प्रयोजको हेतुश्चे"ति कृत्रिमः, केवले कृञि तदसंभवात्। द्योत्येष्विति। न तु वाच्येषु, "कर्तरि कृ" दित्यस्य बाधानुपत्तेरिति भावः। हेत्वादिषु क्रमेणोदाहरति-- यशस्करीत्यादि। एषु किम्?। कुम्भकारः। इह प्रसिद्धतरत्वाद्द्व्यनुबन्धोऽपि करोतिरेव गृह्रते, न तु कृञ् हिंसायामिति। हेतुः-- कारणम्। आनुलोम्यमाराध्यित्तानुवर्तनम्।