पूर्वम्: ३।२।७८
अनन्तरम्: ३।२।८०
 
सूत्रम्
कर्तर्युपमाने॥ ३।२।७९
काशिका-वृत्तिः
कर्तर्युपमामे ३।२।७९

कर्तृवाचिनि उपमाने उपपदे धातोः णिनिप्रत्ययो भवति। उपपदकर्ता प्रत्ययार्थस्य कर्तुरुपमानम्। उष्ट्र इव क्रोशति उष्ट्रक्रोशी। ध्वाङ्क्षरावी। अताच्छील्यार्थ आरम्भः, जात्यर्थो वा। कर्तरि इति किम्? अपूपानिव भक्षयति माषान्। उपमने इति किम्? उष्ट्रः क्रोशति।
न्यासः
कत्र्तर्युपमाने। , ३।२।७९

धातोः कत्र्तरि प्रत्ययविधानात् तस्यैवोपपदकत्र्तोपमानं विज्ञायत इत्याह-- "उपपदकत्र्ता"इत्यादि। उपपदवाच्यः कत्र्रा = उपपदकत्र्ता, शाकपार्थिवादित्वन्मध्यमपदलोपी समासः। "उष्ट्रक्रोशी" इति। "क्रुश आह्वाने रोदने च"च(धा।पा।८५६)। "ध्वाङक्षरावी" इति।"रु शब्दे" (धा।पा।१०३४)। अताच्छील्यार्थ आरम्भजात्यर्थो वेति; ताच्छील्येऽजातौ च पूर्वेणैव सिद्धत्वात्। "भक्षयति" इति। "भक्ष अदने" (धा।पा।१५५७) चौरादिकः॥
बाल-मनोरमा
कत्र्तर्युपमाने ७९९, ३।२।७९

कत्र्तर्युपमाने। कर्तुरुपमानमिति। "चे"दित्यध्याहार्यम्। ननु "सुप्यजातौ" इति सिद्धे किमर्थमिदमित्यत आह-- अताच्छील्यार्थमिति।