पूर्वम्: ३।२।७९
अनन्तरम्: ३।२।८१
 
सूत्रम्
व्रते॥ ३।२।८०
काशिका-वृत्तिः
व्रते ३।२।८०

व्रत इति शास्त्रतो नियम उच्यते व्रते गम्यमाने सुबन्त उपपदे धातोः णिनिः प्रत्ययो भवति। समुदायोपधिश्च अयम्। धतूपपदप्रत्ययसौदयेन व्रतं गम्यते। स्थण्डिलशायी। अश्राद्धभोजी। कामचारप्राप्तौ नियमः। सति शयने स्थण्डिल एव शेते न अन्यत्र। सति भोजने ऽश्राद्धम् एव भुङ्क्ते न श्राद्धम् इति। व्रते इति किम्? स्थाण्डिले शेते देवदत्तः। अतच्छील्यार्थ आरम्भः, जात्यर्थो वा।
न्यासः
व्रते। , ३।२।८०

"समुदायोपाधिश्चायम्" इति। प्रत्ययार्थविशेषणशङ्कां निराकरोति। प्रत्ययार्थविशेषणे हि तस्मिन् व्रत एव कत्र्तरि प्रत्ययः प्रसज्येत,न तद्वति देवदत्ते। "धातूपपद" इत्यादिना समुदायोपाधित्वं व्रतस्य दर्शयति। "कामचारप्राप्तौ नियमः"इति। कामचारः = इच्छाप्रवृत्तिः, तत्प्राप्तौ सत्यां नियमः। अनियमत्वाद्यथेष्टं सामान्येन शयने भोजने च प्रवृत्तौ प्राप्तायामयमर्थान्तराद्वयावर्त्त्यविशेषे स्थण्डिलादौ न प्राप्नोति, तस्माद्वयवस्थाप्यते। नियमश्चात्र द्विविधः सम्भवति-- स्थण्डिले शेत एवाश्राद्धं भुङक्तं एवेत्येयंरूपो वा स्यात्, स्थण्डिल एव शेतेऽश्राद्धमेव भुङ्क्ते इत्येवंरूपो वा,तत्र पूर्वके नियमे यदैव स्थण्डिले न शेतेऽश्राद्धञ्च न भुङ्क्ते तदैव व्रतलोपः प्राप्नोति। तस्माद् द्वितीयो नियमो युक्त इति मन्यमान आह-- "सति शयने"इत्यादि॥
बाल-मनोरमा
व्रते ८००, ३।२।८०

व्रते। णिनिः स्यादिति। सुप्युपपदे णिनिः स्याद्द्व्रते गम्ये इति यावत्। स्थण्डिलेशायीति। "तत्पुरुषे कृती"ति [सप्तम्या] अलुक्।