पूर्वम्: ३।३।९९
अनन्तरम्: ३।३।१०१
 
सूत्रम्
कृञः श च॥ ३।३।१००
काशिका-वृत्तिः
कृञः श च ३।३।१००

करोतेर् धातोः स्त्रियां शः प्रत्ययो भवति। चकारात् क्यप् च। योगविभागो ऽत्र कर्तव्यः, क्तिन्नपि यथा स्यात्। क्रिया, कृत्या, कृतिः।
न्यासः
कृञः श च। , ३।३।१००

"योगविभागोऽत्र कत्र्तव्यः" इति। कृञः क्यबिति भवति, ततः शश्च, यथाप्राप्तञ्चेति, तेन त्रीणि रूपाणि सिध्यन्ति। तत्र "कृञः"इति योगेन कृत्येत्येतद्रूपं सिध्यति, "श च" इत्यनेन क्रिया कृतिरिति चेत्येतद्रूपद्वयं क्रियत इति। यदा भावे शब्दस्तदा "सार्वधातुके यक्" ३।१।६७, "रिङ् शयग्लिङक्षु" ७।४।२४ इति रिङादेशः। यदा त्वकत्र्तरि कारके तदा यगभावाच्छ एव प्रत्यये परतो धातोरिङादेशे कृते "अचि श्नुधातु" ६।४।७७ इत्यादिना तस्येयङ्। शकारः सार्वधातुकार्थः॥
तत्त्व-बोधिनी
कृञः श च १५६१, ३।३।१००

क्रियेति। यदा भावकर्मणोः शस्तदा "सार्वधातुके यक्"। "रिह् शयग्लिङ्क्षु" इति रिङादेशः। अन्यत्र तु यगभावेऽपि शे परतो रिङादेशे कृते इयङि सति रूपं तुल्यम्।