पूर्वम्: ३।३।१६०
अनन्तरम्: ३।३।१६२
 
सूत्रम्
विधिनिमन्त्रणामन्त्रण अधीष्टसम्प्रश्नप्रार्थनेषु लिङ्॥ ३।३।१६१
काशिका-वृत्तिः
विधिनिमन्त्रणाऽमन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् ३।३।१६१

विधिः प्रेरणम्। निमन्त्रणम् नियोगकरणम्। आमन्त्रणम् कामचारकरणम्। अधीष्टः सत्कारपूर्वको व्यापारः। सम्प्रश्नः सम्प्रधारणम्। प्रार्थनम् याच्ञा। विध्यादिष्वर्थेषु धातोः लिङ् प्रत्ययो भवति। सर्वलकाराणाम् अपवादः। विध्यादयश्च प्रत्ययार्थविशेषणम्। विध्यादिविशिष्टेषु कर्त्रादिषु लिङ् प्रत्ययो भवति। विधौ तावत् कटम् कुर्यात्। ग्रामं भवानागच्छेत्। निमन्त्रणे इह भवान् भुञ्जीत। इह भवानासीत। आमन्त्रणे इह भवानासीत। इह भवान् भुञ्जीत। अधीष्टे अधीछामो भवन्तं माणवकं भवानुपनयेत्। सम्प्रश्ने किं नु खलु भो व्याकरनम् अधीयीय। प्रार्थने भवति मे प्रार्थना व्याकरनम् अधीयीय।
लघु-सिद्धान्त-कौमुदी
विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् ४२७, ३।३।१६१

एष्वर्थेषु धातोर्लिङ्॥
न्यासः
इच्छार्थेभ्यो विभाषा वत्र्तमाने। , ३।३।१६१

"प्रेरणम्" इति। नियोगः" "निमन्त्रणं नियोगकरणम्" इति। असत्यामपीच्छायामकरणे सत्यधर्मोत्पत्तेर्नियमेनावश्यम्भावेन यत् करणं तन्निमन्त्रणम्। "कामचारकरणम्िति। कामचार- = इच्छाप्रचारः। तेन यत्करणं तदामन्त्रणम्। एतदुक्तं भवति-- यदिच्छयैवकरणंनानिच्छया अकरणेऽपि दोषाभावात्,तदामन्त्रमणम्()। इहायं विध्यादिरर्थः प्रकृत्यर्थविशेषणं वा स्यात्? प्रत्ययार्थो वा? प्रत्ययार्थविशेषणं वा? तत्र यद्याद्यः पक्ष आश्रीयेत तदा यत्र प्रकृतिरेव विध्यादीनर्थानाचष्टे तत्र न सिध्येत्-- विदध्यान्निमन्त्रयेतामन्त्रयेताधीच्छेदिति, न ह्रत्र प्रकृत्यर्थादन्ये विशेषणभूता विध्यादयः सन्तीत्येष दोषः प्रतिविधेयः स्यात्। प्रतिविधीयमानेऽपि तस्मिन् प्रतिपत्तिगौरवं स्यात्। अथ द्वितीयः? भावकर्मकर्त्तृप्रत्ययार्थानां विध्यादयो वाचकाः स्युरित्येवमनयोर्दोषं दृष्ट्वा तृतीयं पक्षमाश्रित्याह-- "विध्यादयश्च" इत्यादि। प्रत्ययार्थास्त एव भावकर्मकत्र्तारः। तेषु "लः कर्मणि च" ३।४।६९ इत्यादिना प्रत्ययस्य विधानात् तेषामयं विध्यादिरर्थो विशेषणमिति मत्वाऽ‌ऽह-- "विध्यादिविशिष्टेषु" इत्यादि। एतेनादिशब्देन निमन्त्रणादीनां ग्रहणम्। द्वितीयेन भावकर्मणोः। "आसीत्" इति। अदादित्वाच्छपो २।४।७२ लुक्। "अध्यापयेत्" इति। पूर्ववदात्त्वपुकौ॥
बाल-मनोरमा
विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् ५७, ३।३।१६१

विधिनिमन्त्रणाअ। ननु विध्यादयो हि न लिङो वाच्याः, लः, कर्मणि च भावे चेति सूत्रेण कर्तृकर्मभावानां लकारवाच्यत्वबोधनात्। नच लः कर्मणि चेति शास्त्रं लिङ्व्यतिरिक्तलकारविषयकमेवास्त्विति वाच्यं, तथा सति यजेतेत्यादौ कर्तृवाचकत्वाऽभावेन शबाद्यनापत्तेरित्यत आह-- द्योत्येष्विति। "लः कर्मणि चे"ति सूत्रं सामान्यविषयं चेदपि विधिनिमन्त्रणेति विशेषशास्त्रेण न बाध्यते, अविरोधात्। तथा च विध्यादिविशिष्टकत्र्रादिषु लिङिति फलतीति मत्वाह-- वाच्येषु वेति। पक्षद्वयमपीदं भाष्ये स्थितम्। "विधिः प्रेरण"मिति भाष्यमर्थतस्सङ्गृह्णाति---विधिः प्रेरणमिति। ननु निमन्त्रणादीनामपि प्रेरणान्तर्भावात्पौनक्त्यमित्यतो व्याचष्टे। भृत्यादेर्निकृष्टस्य प्रवर्तनमिति। तद्यथा भृत्यं स्वामी वदति-- "भवान् वस्त्रं क्षालये"दिति। आमन्त्रणाद्भेदं दर्शयितुं निमन्त्रणशब्दं व्याचष्टे--- निमन्त्रणं नियोगकरणमिति। नियोगशब्दस्य प्रेरणशब्दपर्यायत्वभ्रमं वारयति-- आवश्यके इति। "त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलः" इत्यादिवचनादिति भावः। तद्यथा दौहित्रादीन् प्रति "इह श्राद्धे भवान् भुञ्जीते"ति। आमन्त्रणं कामचारानुज्ञेति। "यथेच्छं क्र#इयता" मित्यभ्यनुज्ञानमित्यर्थः। अधीष्टं सत्कारपूर्वको व्यापार इति। भाष्यवाक्यमिदम्। सत्कृत्य प्रवर्तनमित्यर्थः। अधिपूर्वकस्येषधातोर्भावे क्तान्तस्योपसर्गवशादस्मिन्नर्थे वृत्तिः। अत एव भाष्यप्रयोगादधीष्टशब्दस्य पुंस्त्वम्। "अधीष्ट" मित्येव क्वचित्पाठः। "माणवकं भवानध्यापये" दित्युदाहरणम्। "इदं कार्यं न वे"ति विचार्य निर्धारणं संप्रश्नः। यथा-- "किं भोः व्याकरणं भवानधीयीते"ति। प्रार्थनं--याच्ञा। यथा "भवानन्नं मे दद्या" दिति। सुवचमिति। प्रवर्तनात्वस्य विध्यादिचतुर्षु अनुस्यूतत्वादिति भावः। प्रवृत्यनुकूलव्यापारः--प्रवर्तना। तत्र प्रवृत्तिः शिष्यादिनिष्ठा। तदनुकूलव्यापारस्तु प्रेरणात्मकः प्रवर्तयितृगुर्वादिनिष्ठः। विस्तरस्तु मञ्जूषायां द्रष्टव्यः। चतुर्णामिति। विधिनिमन्त्रणामन्त्रणाधीष्टानामित्यर्थः।

तत्त्व-बोधिनी
विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्राथनेषु लिङ् ४२, ३।३।१६१

द्योत्येषु वाच्येषु वेति। पक्षद्व्यस्याप्याकरे स्थितत्वादिति भावः। अत्राद्ये त्वित्थमुपपत्तिः-- विध्यादीनां प्रत्ययार्थत्वमनुचितम्। तथाहि सति कत्र्रादीनामर्थानां लकारान्तरे चरितार्थानां विद्यादयोऽर्थ बाधकाः स्युः, तथा च लिङः कत्र्राद्यबिधायकत्वं न स्यात्, ततश्च द्विवचनबहुवचने न स्यातां, शबादयश्च न स्युः, पुरुषव्यवस्था च न स्यात्, अभिहितत्वप्रयुक्तस्तृतीयादिविरहश्च न सिध्येदिति॥ द्वितीये त्वित्थमुपपत्तिः-- विध्यादिभिः कत्र्रादयो न बाध्यन्ते, परस्परविरोधाऽभावात्। तथा च "लः कर्मणी"त्यत्र "ल" इति बहुवचननिर्देशेन सर्वलकाराणां सङ्ग्रहाल्लिङादीनामपि कत्र्रादयोऽर्था भवेयुः। किं च कत्र्रादयोऽपि निरवकाशाः। न च लडादयोऽवकाशाः। न्यायसाम्येन विध्यादिवद्वर्तमानत्वभूतत्वादेरपि तत्तल्लकारवाच्यत्वात्। न चैवं पचतीत्यादौ धात्वर्थं रप्रति वर्तमानत्वादेः प्रत्ययार्थतया विशेष्यत्वं स्यात्, तथा चैककर्तृका वर्तमाना पचिक्रियेत्यादिशाब्दबोधवर्णनमयुक्तं स्यादिति वाच्यम्। प्रत्ययार्थतया विशेष्यत्वापादनस्य कत्र्रादावपि तुल्यत्वात्। ननु प्रत्ययार्थः प्रधानं, प्रकृत्यर्थो विशेषणमित्यौत्सर्गिकमाख्याते त्यज्यत#ए "भावप्रधानमाख्यात"मिति सिद्धान्तानुरोधादिति चेत्तर्हि तत एव नोक्तदोष इति दिक्॥ प्रवर्तनायामिति। प्रवर्तनात्वस्य विध्यादिषु चतुष्र्वनुस्यूतत्वादिति भावः। अत्र वदन्ति-- प्रवृत्तिः प्रवर्तना चोभयमपि व्यापारः, स च धात्वर्थः। फलव्यापारयोर्धातुवाच्यत्वस्वीकारात्। तदाश्रयस्तु लकारार्थः, व्यापारत्वेन प्रवर्तनाया धात्वर्थत्वेऽपि प्रवर्तनात्वेन प्रवर्तना तु लिङ्त्वादिरूपेण लकारवाच्या द्योत्या वेति पक्षद्वयम्। प्रवृत्तिः पुरुषनिष्ठा "आर्थी भावने"त्युच्यते। प्रवर्तना तु विधिः, मां प्रेरयतीत्यनुभवात् लिङादिनिष्ठा "शाब्दी भावने"त्युच्यते। वेद एव लिङादिनिष्ठा, वक्तुरभावात्, लोके तु पुरुषनिष्ठेति केचिदभ्युपगच्छन्ति। प्रवर्तनाया अस्याः पुरुषप्रवृत्तिरेव भाव्या। पुरुषप्रवृत्तेस्तु यजनदानादि ज्यायान्। लिङ्त्वादिरूपेण लकारस्य प्रवर्तनायां शक्त्यन्तरकल्पने गौरवात्। एवं णिच्यपि। इयांस्तु विशेषः-- णिच्प्रत्ययद्योत्या प्रेरणा सर्वस्मिन्नपि मते पुरुषादिनिष्ठैव न तु णिज्निष्ठा, लिङादिद्योत्या तु मतभेदेन लिङ्निष्ठा वा पुरुष निष्टा वेति॥ स्यादेतत्-- "लिङादिद्योत्या प्रवर्तना लोके पुरुषनिष्ठे"ति मते "पाचयत्य#ओदनं देवदत्तेन यज्ञदत्त" इतिवत् "पचेदोदनं देवदत्तेन यज्ञदत्त" इति प्रयोगः स्यात्। अत्राहुः-- पुरुषनिष्ठेति मते प्रवर्तना लिङादिवाच्यैव, न तु धातुवाच्या। तथा च लिङुपात्तव्यापाराश्रयस्य पुरुषस्य कर्तृत्वाऽभावान्नोक्तदोषः। "देवदत्तेन पाचयति यज्ञदत्तर" इत्यादौ तु णिजन्तस्य धातुत्वाद्धातूपात्तव्यापाराश्रयत्वेन प्रयोज्यप्रयोजकयोरुभयोरपि कर्तृत्वाल्लकारेणाऽनुक्ते प्रयोज्ये कर्तरि तृतीयेति वैषम्यमिति। कौस्तुभादौ तु-- "हेतुमति चे"ति सूत्रे प्रयोजकव्यापारस्य णिज्वाच्यत्वपक्ष एव मुख्यत्वेन स्थापितः। व्यापारद्वयस्यापि णिच्प्रकृत्यर्थत्वे तु--अभीत्यस्य णिजर्थविशेष्यकत्वे अभिसावयति, प्रकृत्यर्थविशेष्यकत्वे तु "उपसर्गात्सुनोती"ति षत्वमभिषावयतीति सिद्धान्तस्य स्वारस्यभङ्गापत्तेरिति। तथा "गतिबुद्धी"ति सूत्रे अणिकर्तेति विशेषणमव्यावर्तकं स्यात्। त्वन्मते प्रयोजकव्यापारस्यापि णिच्प्रकृत्यर्थत्वेन प्रयोजकस्याप्यणौ कर्तृत्वादिति दिक्। प्रार्थनं-- याच्ञा॥