पूर्वम्: ३।३।१६१
अनन्तरम्: ३।३।१६३
 
सूत्रम्
लोट् च॥ ३।३।१६२
काशिका-वृत्तिः
लोट् च ३।३।१६२

लोट् प्रत्ययो भवति धातोः विध्यादिषु अर्थेषु। योगविभाग उत्तरार्थः। विधौ तावत् कटं तावत् भवान् करोतु। ग्रामं भवानागच्छतु। निमन्त्रणे अमुत्र भवानास्ताम्। अमुत्र भवान् भुङ्क्ताम्। आमन्त्रने इह भवान् भुङ्क्ताम्। अधीष्टे अधीच्छामो भवन्तं माणवकं भवानध्यापयतु, माणावकं भवानुपनयताम्। सम्प्रश्ने किं नु खलु भो व्याक्रनम् अध्ययै। प्रार्थने भवति मे प्रार्थना व्याकरणम् अध्ययै, छन्दो ऽध्ययै।
लघु-सिद्धान्त-कौमुदी
ऌट् शेषे च ४११, ३।३।१६२

भविष्यदर्थाद्धातोरॢट् क्रियार्थायां क्रियायां सत्यामसत्यां वा। स् य इट्। भविष्यति। भविष्यतः। भविष्यन्ति। भविष्यसि। भविष्यथः। भविष्यथ। भविष्यामि। भविष्यावः। भविष्यामः।लोट् च॥ विध्याद्यर्थेषु धातोर्लोट्॥
न्यासः
लोट् च। , ३।३।१६२

यदि विध्यादिष्वेव लोड्भवत्येवं योगविभागः किमर्थं क्रियते? इत्याह-- "योगविभाग उत्तरार्थः" इति। उत्तरसूत्रे लोट एवानुवृत्तिर्यथा स्यात्, लिङो मा भूदिति। "करोतु" इति। "एरुः" ३।४।८६ इत्युक्तम्। "अध्ययै" इति। "आडुत्तमस्य पिच्च" ३।४।९२ इत्याट्, टेरेत्वे कृते "एत ऐ" ३।४।९३, "आटश्च" ६।१।८७ इति वृद्धिः, प्रकृतेर्गुणायादेशौ॥
बाल-मनोरमा
लोट् च ४३, ३।३।१६२

लोट् च। "विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु" इत्यनुवर्तते।तदाह--विध्यादिष्विति। विध्यादिशब्दा अनुपदमेव लिङ्विधौ व्याख्यास्यन्ते।

तत्त्व-बोधिनी
लोट् च ३४, ३।३।१६२

"विधिनिमन्त्रणे"त्याद्यनुवर्तते। तदाह-- विध्यादिष्विति॥