पूर्वम्: ३।३।१६२
अनन्तरम्: ३।३।१६४
 
सूत्रम्
प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च॥ ३।३।१६३
काशिका-वृत्तिः
प्रैषातिसर्गप्राप्तकालेषु कऋत्याश् च ३।३।१६३

प्रेषणं प्रैषः। कामचाराभ्यनुज्ञानम् अतिसर्गः। निमित्तभूतस्य कालस्य अवसरः प्राप्तकालता। एतेष्वर्थेषु धातोः कृत्यसंज्ञकाः प्रत्ययाः भवन्ति, चकाराल् लोट् च। भवता कटः करणीयः, कर्तव्यः, कृत्यः, कार्यः। लोट् खल्वपि करोतु कटं भवानिह प्रेषितः, भवानतिसृष्टह्, भवतः प्राप्तकालः कटकरणे। किमर्थं प्रैषादिषु कृत्या विधीयन्ते न सामान्येन, भावकर्मणोर् विहिता एव ते प्रैषादिष्वन्यत्र च भविष्यन्ति? विशेषविहितेन अनेन लोटा बाद्यन्ते। वासरूपविधिना भविस्यन्ति? एवं तर्हि ज्ञापयति, स्त्र्यधिकारात् परेण वासरूपविधिर् नावष्यं भवति इति। विधिप्रैषयोः को विशेष? केचिदाहुः, अज्ञातज्ञापनं विधिः, प्रेषणं प्रैषः इति।
न्यासः
प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च। , ३।३।१६३

"कार्यः" इति। "ऋहलोण्र्यत्" ३।१।१२४ इति ण्यत्। "कृत्यः" इति। "विभाषा कृवृषोः" ३।१।१२० इति क्यप्। "किमर्थमिदम्" इत्यादि द्वेष्यम्। "विशेषविहित" इत्यादि परीहारः। कृत्या हि सामान्येन विहिताः। लोट् तु प्रैषादिनार्थविशेषेण। अतस्तेन विशेषविहितेन कृत्याः प्रैषादिविषये बाध्येरन्निति पुनर्विधीयते। "वासरूप"इत्यादीना परीहारं विघटयति। "एवं तर्हि" इत्यादिना प्रेषादिषु कृत्यविधानस्य ज्ञापकत्वं दर्शयति। ननु चाऽसति प्रयोजने ज्ञापकं भवति, इह चास्ति प्रयोजनम्, किं तत्? प्रैषादि येन नियमेन कृत्या भवन्ति, नान्यत्रेति? नैतत्; अनिष्टत्वात्। अन्यत्रापि हि कृत्या दृश्यन्ते-- तृणेन शोष्यम्, बुधेन बोध्यमिति। तच्च नियमे सति न सिध्येत्, न ह्रत्र प्रैषादयो गम्यन्ते। तस्मान्नेह नियमोऽभीष्टः, न चानिर्दिष्टार्था प्रक्लृप्तिः शास्त्रे युक्ता (भो।प।सू।१०७)। ततो युक्तं ज्ञापकमेव;कृत्यविधानस्यावश्यम्भावात्। अवश्यंग्रहणेन न क्वचिदपि भवतीति दर्शयति। एतच्च स्त्रधिकारात् परेणापि वासरूपविधिः क्वचित् स्वरितत्वप्रतिज्ञानाल्लभ्यते। तेन कालादिषूपपदेषु वासरूपविधिना ल्युडपि भवति-- कालो भोजनस्येति। यदि तु सर्वथा वासरूपविधिर्न स्यात् तदा "कालसमयवेलासु तुमुन्"३।३।१६७ इति तुमुन्नेव नित्यं स्यात्। "केचिदाहुःर"इति वचनादपरे त्वेतयोर्विशेषं नेच्छन्तीत्युक्तं भवति॥
बाल-मनोरमा
प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च ६३९, ३।३।१६३

प्रैषातिसर्ग।लोट् चेति। पूर्वसूत्रोपात्तो लोट् चकारात्समुच्चीयते। कृत्यसंज्ञकाः प्रत्यया वक्ष्यमाणा, लोट् च प्रैषादिषु भवन्तीत्यर्थः। प्रैषे अतिसर्गे च कृत्यप्रत्ययमुदाहरति-- भवता यष्टव्यमिति। भावे तव्यप्रत्ययः। लोटमुदाहरति-- भवान्यजतामिति। ननु चकारेण लोटोऽनुकर्षणं व्य्रथं, प्रैषस्य विधिरूपतया, अतिसर्गस्य आमन्त्रणरूपतया च "लोट् चे"त्यनेनैव सिद्धेरित्यत आह-- वकारेणेति। प्राप्तकाले यथा-- गुरुणा भोक्तव्यम्। गुरुर्भुञ्जीत। भोजनं प्राप्तावसरमित्यर्थः। "प्राप्तकाले च कृत्याश्चे"त्युक्तौ तु निमन्त्रणादिष्वपि कृत्याः स्युः। अतः प्रैषादिग्रहणम्।

तत्त्व-बोधिनी
प्रैषतिसर्गप्राप्तकालेषु कृत्याश्च ५३१, ३।३।१६३

प्रैषतिसर्ग। प्रैषो विधिरिति। विधिग्रहणे कर्तव्ये प्रैषग्रहणं शिष्यबुद्धिवैशद्यार्थमित्याहुः। लोटोऽनुकर्षणमिति। "लोट् चे"ति योगस्येदमेव प्रयोजनम्। एकयोगत्वे तु लिङोऽप्यनुकर्षणं स्यात्। प्राप्तकालार्थमिति। प्रैषतिसर्गयोः पूर्वेणैव सिद्धत्वादिति भावः।