भावे, अकर्तरि च कारके इति प्रकृतम् अनुवर्तते यावत् कृत्यल्युटो बहुलम्
३।३।११३ इति। इवर्णान्ताद् धातोः भावे, अकर्तरि च कारके संज्ञायाम् अच् प्रत्ययो भवति। घञो ऽपवादः। चकारो विशेषणार्थः, अन्तः
६।२।१४२ था ऽथघञ्क्ताजबित्रकणाम्
६।२।१४३ इति। चयः। अयः। जयः। क्षयः। अज्विधौ भयादीनाम् उपसङ्ख्यानम्। नपुंसके क्तादिनिवृत्त्यर्थम्। भयम्। वर्षम्।
जवसवौ छन्दसि वक्तव्यौ। ऊर्वोरस्तुम् मे जवः। पञ्चौदनः सवः।
"चकारो विशेषणार्थः" इति। विनापि तेन थाथादिसूत्रे
६।२।१४३ अप्रत्ययादित्यप्रत्ययस्यापि ग्रहणं स्यात्।
"अज्विधौ" इत्यादि। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। प्रतिपादनं तु "कृत्यल्युटो बहुलम्"
३।३।११३ इत्येतदाश्रित्य कत्र्तव्यम्। अन्यस्तु "पञ्चमी भयेन"
२।१।३६ "वर्षप्रमाण ऊलोपश्चास्यान्तरस्याम्"
३।४।३२ इति निपातनाद्भयादीनां सिद्धिमिच्छति, न चासौ युक्ता;
किमिदं भयवर्षशब्दयोर्नपुंसकलिङ्गयोरुच्चारणम्? इत् पुंल्लिङ्गयोः? इति सन्देहात्। "वक्तयौ"इति। व्याख्येयावित्यर्थः। व्याख्यानं तु तदेव बहुलग्रहणमाश्रित्य कत्र्तव्यम्। "जवः, सवः" इति। "जु"
३।२।१५० इत्येस्मात् सौत्राद्धातोः, "षुञ् अभिषवे" (धा।पा।१२४७) इत्येस्माच्चोत्तरसूत्रेणापि प्राप्तेऽज्भवति। स्वरे विशेषः-- अपि हि स्तामाद्युदात्तं पदं स्यात्, अजन्ते सत्यन्तोदात्तत्वं भवति॥