पूर्वम्: ३।३।९४
अनन्तरम्: ३।३।९६
 
सूत्रम्
स्थागापापचां भावे॥ ३।३।९५
काशिका-वृत्तिः
स्थागापापचो भावे ३।३।९५

स्त्रियाम् इति वर्तते। स्थादिभ्यो धातुभ्यः स्त्रीलिङ्गे भावे क्तिन् प्रत्ययो भवति। अङो ऽपवादस्य बाधकः। प्रस्थितिः। उद्गीतिः। सङ्गीतिः। प्रपीतिः। इति ज्ञापकात् नात्यन्ताय बाधा भवति इति।
न्यासः
स्थागापापची भावे। , ३।३।९५

"अङोऽपवादस्य बाधकः" इति। स्थादिभ्यः "आतश्चोपसर्गे"३।३।१०६ इति प्राप्तस्याङोऽपवादस्य बाधक इत्यर्थः। "पक्तिः" इति। "षिद्भिदादिभ्योऽङ" ३।३।१०४ इत्यस्य। "प्रस्थितिः" इति। "द्यतिस्यति" ७।४।४० इत्यादिनेत्त्वम्। "सङ्गीतिः"इति। धुमास्यादि ६।४।६६ सूत्रेणेत्त्वम्। अत्र च "गामादाग्रहणेष्वविशेषः" (व्या।प।१२४) इति "गै शब्दे"(धा।पा।९१७) "गाङ गतौ" (धा।पा।९५०) इति द्वयोरपि ग्रहणम्। "पा"इति। पूर्ववत् पानार्थस्य ग्रहणम्, न रक्षणार्थस्य। "भावग्रहणम्" इत्यादि। अर्थान्तरम् = कर्त्तृवर्जितं कराकम्, तन्निवृत्यर्थं भावग्रहणम्। "कथम्" इत्यादि। यद्यङोऽपवादस्यापवादोऽयं क्तिन्प्रत्ययस्तत् कथं "अवस्था संस्था" इति सिध्यति? न कथञ्चिदित्यभिप्रायः। "व्यवस्थायाम्" इत्यादि। यदिदं व्यवस्थाशब्दस्याङन्तस्य सूत्र उच्चारणमेतदेव ज्ञापकम्, अतः क्तिनात्यन्तबाधा न भवतीति, तेनावस्थेत्याद्यपि सिध्यति। "अत्यन्ताय" इति। चतुभ्र्यन्तप्रतिरूपको निपातोऽयम् यथा- चिरायेति॥
तत्त्व-बोधिनी
स्थागापापचो भावे १५५७, ३।३।९५

अङोऽपवादः इति। पुरस्तादपवादन्यायेन स्थादिभ्यः "आतश्चोपसर्गे" इति, पचेस्तु "षिद्भिदादिभ्यः" इति प्राप्तस्याऽङोऽपावदो न तु ण्वुलिञोरिति भावः। ण्वुलिञौ तु परत्वाद्भवत एव। "कां त्वं स्थायिकां , कां त्वं स्थायि"मिति भाष्यकारप्रयोगात्। प्रस्थतिरिति। "द्यतिस्यतिमास्था" मित्यात इत्त्वम्। सङ्गीतिरिति। "घुमास्थे"त्यादिना ईत्त्वम्।