पूर्वम्: ३।३।९५
अनन्तरम्: ३।३।९७
 
सूत्रम्
मन्त्रे वृषेषपचमनविदभूवीरा उदात्तः॥ ३।३।९६
काशिका-वृत्तिः
मन्त्रे वृषैषपचमनविदभूवीरा उदात्तः ३।३।९६

भावे स्त्रियाम् इति वर्तते। मन्त्रे विषये वृषादिभ्यः धातुभ्यः क्तिन् प्रत्ययो भवति उदात्तः। प्रकृतिप्रत्यययोः विभक्तिविपरिणामेन सम्बन्धः। कस्मादेवं कृतम्? वैचित्र्यार्थम्। वृष्टिः। इष्टिः। पक्तिः। मतिः। वित्तिः। भूतिः। वीतिः। रातिः। सर्वत्र सर्वधातुभ्यः सामान्येन विहित एव क्तिन्। उदात्तार्थं वचनम्। इषेस्तु इच्छा ३।३।१०१ इति निपातनं वक्ष्यति, ततः क्तिन्नपि विधीयते। मन्त्रादन्यत्र आदिरुदात्तः।
न्यासः
मन्त्रे वृषेषपचमनविदभूवीरा उदात्तः। , ३।३।९६

"वृषु मृषु सेचने" (धा।पा।७०६,७०७), "{इष--धा।पा।} इषु इच्छायाम्"} (धा।पा।१३५१), "डुपचष् पाके" (धा।पा।९९६), "मन ज्ञाने" (धा।पा।११७६), "विद ज्ञाने" (धा।पा।१०६४),"भू सत्तायाम्" (धा।पा।१), "वी गतिव्याप्तिप्रजनादिषु" (धा।पा।१०४८), "रा {दाने -धा।पा।} आदाने" (धा।पा।१०५७)। "प्रकृतिप्रत्ययोः" इति। प्रकृतिसामान्यविवक्षायां द्विवचनम्, अन्यथा हि बहुत्वात् प्रकृतीनां बहुवचनं स्यात्। "विभक्तिविपरिणामेन सम्बन्धः" इति। वृषादिभ्यो या प्रथमा तस्या अर्थात् पञ्चमीपरिणामः। तेन प्रकृतिप्रत्ययोः सम्बन्धः; अन्यथा सम्बन्धानुपपत्तेः। "मतिः" इति। "अनुदात्तोपदेश" ६।४।३७ इत्यादिनाऽनुनासिकलोपः। "सर्वत्र" इत्यादि। मन्त्रे च, अमन्त्रे च -- सर्वत्र वृषादिभ्यः किन्विहितः। पचेरपि स्थागादि ३।३।९५ सूत्रेण। यद्येवम् किमर्थमिदमित्याह-- "उदात्तार्थम्" इति। "इषेस्तु" इत्यादि। इषेरिच्छेति निपातनं वक्ष्यति; तस्मात् क्तिन्विधीयते, अन्यथा निपातनेनैवास्य स्यात्। वृषादिभ्यः क्तिन्प्रत्यय एव विधातव्यः। उदात्तवचनमुत्तरार्थम्। "व्रजयजोर्भावे क्यप्" ३।३।९८ इति क्यबुदात्तो यथा स्यात्॥