पूर्वम्: ३।४।१
अनन्तरम्: ३।४।३
 
सूत्रम्
क्रियासमभिहारे लोट्, लोटो हिस्वौ, वा च तध्वमोः॥ ३।४।२
काशिका-वृत्तिः
क्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमोः ३।४।२

धातुसम्बधे इति वर्तते। पौनःपुन्यं भृशार्थो वा क्रियासमभिहारः। प्रकृत्यर्थविशेषणं च एतत्। समभिहारविशिष्टक्रियावचनाद् धातोः लोट् प्रत्ययो भवति सर्वेषु कालेषु। सर्वलकाराणाम् अपवादः तस्य च लोटो हि स्व इत्येतावादेशौ भवतः। तध्वंभाविनस्तु वा भवतः। योगविभागो ऽत्र कर्तव्यः। क्रियासमभिहारे लोड् भवति, ततो लोटो हिस्वौ। लोटित्येव, लोड्धर्माणौ हिस्वौ भवतः इत्यर्थः। तेन आत्मनेपदपरस्मैपदत्वं भेदेन अवतिष्ठते, तिङ्त्वं च द्वयोरपि भवति। लुनीहि लुनीहि इत्येव अयं लुनाति, इमौ लुनीतः, इमे लुनन्ति। लुनीहि लुनीहि इत्येव त्वं लुनासि, युवां लुनीथः, यूयं लुनीथ। अथ वा, लुनीत लुनीत इत्येव यूयं लुनीथ। लुनीहि लुनीहि इत्येव अहं लुनामि, आवां लुनीवः, वयं लुनीमः। भूते लुनीहि लुनीहि इत्येव अयम् अलावीत्, अलाविष्टाम्, अलाविषुः। एवं मध्यमौत्तमयोरुदाहार्यम्। भविष्यति लुनीहि लुनिहि इत्येव अयं लविष्यति, लविष्यतः, लविष्यन्ति। एवं मध्यमौत्तमयो रुदाहार्यम्। अधीष्वाधीष्वेत्येव अयम् अधीते, इमावधीयते, इमे ऽधीयते। अधीष्वाधीष्वेत्येव त्वम् अधीषे, युवाम् अधीयाथे, यूयम् अधीध्वे। अथ वा, अधीध्वम् अधीध्वम् इत्येव यूयम् अधीध्वे। अधीष्वाधीष्वेत्येव अहम् अधीये, आवाम् अधीवहे, वयम् अधीमहे। एवं सर्वेष्वेव लकारेषु उदाहार्यम्। क्रियासमभिहाराभिव्यक्तौ द्विर्वचनम् अयं लोडपेक्षते, क्रियासमभिहारे द्वे भवतः इति। यङ्प्रत्ययः पुनरस्मिन्नेव अर्थे विधीयमानः स्वयम् एव शक्तत्वान् न अपेक्षते द्विर्वचनम्।
न्यासः
क्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमोः। , ३।४।२

"प्रकृत्यर्थविशेषं चैतत्िति। एतेनोपपपदत्वं निरस्यति। उपपदत्वे हि केवलाद्धातोर्न स्यादित्यादित्यभिप्रायः। अत्र तिङादेशौ वा हिस्वौ स्याताम्, लोडादेशौ वेति द्वौ पक्षौ। ननु च प्रथमपक्षाशङ्कायाः प्रसङ्ग एव नास्ति; लोट इति वचनात्,तत् कथमसावाशङिकतः? लोट्स्थानिकत्वादादेशोऽपि लोड्()व्यपदेशमासादयीति युक्तमाशङ्कितुम्। तत्र हि यदि पूर्वकः पक्ष आश्रीयते तदा "भुङ्क्ष्व भुङ्क्ष्वेत्येवाहं भुञ्जै"इति "आडुत्तमस्य पिच्च" ३।४।९२ इति, पित्त्वान्ङित्त्वं नास्ति, ततश्च "श्नषोरल्लोपः" ६।४।१११ इत्याकारलोपो न स्यात्। उभावपि च परस्मैपदानामात्मनेपदानामनियमेन स्याताम्;नियमहेतोरभावात्। सामान्येन तिङां स्थाने विधीयमानयोः कृत एतल्लभ्यते ! यतः परस्मैपदानां ह्रादेशेन भविव्यम्, इतरेषां स्वादेशेनेति। तस्माद्दुष्टोऽयं पक्ष इति मत्वा द्वितीयपक्षमाश्रित्याह-- "तस्य च लोटः" इत्यादि। यस्मिन् पक्षे दोषः प्रसजति तं प्रतिविधास्यति। "तध्वंभाविनस्तु वा भवतः" इति। लोट इत्यपेक्ष्यते। तश्च ध्वञ्च तध्वमौ, तौ भाविनौ यस्य लोटः स तष्वम्भावी। एतेन तादशार्थो लोडेव स्थानी; तादथ्र्यात्, सूत्रे तशब्देन व्यपदिष्टो ध्वमादेशार्थश्च ध्व#ंशब्देनेति दर्शयति। अथ तध्वमावेवस्थानिनौ कस्मान्न विज्ञायेते? अशक्यं हि तौ स्थानित्वेन विज्ञातुम्। तयोरपि स्थानित्वेऽलोडादेशयोरपि हिस्वौ स्याताम्। अथ तध्वमौ विशेषयिष्यामः-- लोटो यौ तध्वमाविति, ततोऽयमदोष इति चेत्; एवमपि प्रतिपत्तिगौरवं स्यात्। तध्वम्भाविनौ लोट एव स्थानित्वं युक्तम्, न तध्वमोः। यदितर्हि लोटो हिस्वावादेशौ, न तदादेशानां तिङामेव, एवञ्च "लः परस्मैपदम्" १।४।९८ इति तयोः परस्मैपदसंज्ञा स्यात्, ततश्च "शेषात्कत्र्तरि परस्मैपदम्"१।३।७८ इत्युभावपि परस्मैपदिभ्य एव स्याताम्; तिङक्ष्वसन्निवेशाच्च तदन्तस्य तिङन्तता न स्यात्, ततश्च "तिङ्ङतिङः" ८।१।२८ इति निघातो न स्यादित्यत आह-- "योगविभागश्च" इत्यादि। "लोडित्येव" इति। एतेन द्वितीये योगे लोडित्यस्यानुवृतिं()त दर्शयति। "लोड्धर्माणौ"इत्यादि। लोट इव धर्मस्तिङत्वादित्वार्ययोस्तौ लोड्()धर्माणौ। ननु च लोडादेशानां तिङत्वादि धर्मः, न लोटः? आदेशद्वारेण स्थानिनोऽपि लोटस्तिङत्वादिधर्मो भवतीत्यदोषः। कथं पुनर्योगविभागे सति लोड्()धर्माणौ तौ भवतः? योगविभागे सति द्वितीये योगे लोटशब्दो योऽनुवत्र्तते तेनार्थाद्विभक्तेर्विपरिणामो भवतीति षष्ठ()न्ततामापन्नेन हिस्वौ विशेष्येते-- लोटो यौ हिस्वाविति। ततश्च लोडादेशयोः सिप्थासोः स्थाने यौ हिस्वौ "सेह्र्रपिच्च" ३।२।८७ इत्यादिना शास्त्रेण विधास्येते, तावेव यथास्वमुपात्तविशेषाविह लोटः स्थाने विधीयेते, नापूर्वाविति। तेन लोड्()धर्माणौ तौ इत्येषोऽर्थो लभ्यत एव। "तेन"इत्यादि। अत एव= यथोक्तेन प्रक#आरेण, लोड्()धर्माणौ हिस्वौ लोटः स्थाने भवतः। तेन परस्मैपदत्वनमात्मनेपदत्वञ्च भेदेन विषयविभागेन व्यवतिष्ठते। तत्र हिशब्दे परस्मैपदत्वं व्यतिष्ठते; लोट्()सम्बन्धिनो हेः परस्मैपदसंज्ञकत्वात्। स्वशब्दे चात्मनेपदत्वं व्यवतिष्ठते;स्वशब्दस्य लोट्()सम्बन्धिन आत्मनेपदसंज्ञकत्वात्। "तिङत्वञ्च द्वयोरपि भवति" इति। लोट्()सम्बन्धिनोस्तयोद्र्वयोरपि तिङन्तत्वात्। ननु च सिप्थासोर्लोडादेशयोस्तौ सम्बन्धिनौ, तदादेशत्वात्, न लोटः, तत्कथं लोट्सम्बन्धित्वेन व्यदिश्येते? आदेशद्वारेण लोट्()सम्बन्धित्वं तयोरप्यस्तीत्यदोषः। यदि तर्हि लोड्धर्माणौ भवतः, एवमेकवचनसंज्ञा स्यात्, मध्यमपुरुषसंज्ञा च, तयोरपि लोड्()धर्मत्वात्, ततश्च वचनान्तरभाविनः पुरुषान्तरभाविनश्च लोटो न स्याताम्? नैष दोषः;यदि ह्रेकवचनमध्यमपुरुषसंज्ञे अपि स्यातां वचनमिदमनर्थकं स्यात्, विनाप्यनेन वचनेन मध्यमपुरुषैकवचनयोर्हिस्वयोः सिद्धत्वात्। "लुनीहि लुनीहि"इति। "क्रियासमभिहारे द्वौ भवतः" (वा।८८६) इति द्विर्वचनम्।"ई हल्यघोः" ६।४।११३ इतीत्त्वम्। "लुनन्ति"इति। "श्नाभ्यस्तयोरातः"६।४।११२ इत्याकारलोपः। "अथ वा" इत्यादिना "वा च तध्वमोः" इति वाग्रहमस्य फलं दर्शयति। "अलावीत्" इति। "सिचि वृद्धिः परस्मैपदेषु"७।२।१ इति वृद्धि, "आर्धधातुकस्येड्()वलादेः" ७।२।३५ इतीट्,स्तिसिचोऽपृक्ते" ७।३।९६ इतीट्, "इट ईटि" ८।२।२८ इति सिचो लोपः। "अलाविष्टाम्" इति। "तस्थस्थ" ३।४।१०१ इत्यादिना तसस्ताम्। "अलाविषुः" इति। सिजभ्यस्तविदिभ्यश्च" ३।४।१०९ इति झेर्जुसादेशः। "एवं मध्यमोत्ततयो{अपि नास्ति-काशिका,पदमञ्जरी च}रप्युदाहार्यम्" इति। लुनीहि लुनीहीत्येव त्वमलावीर्युवामलाविष्टं यूयमलाविष्ट। अथ वा-- लुनीत लुनीतेत्येव यूयमलाविष्ट। लुनीहि नीहीत्येवाहमलाविषम्, आवामलाविष्वि, वयमलाविष्म। "एवं मध्यमोत्तमयो{अपि नास्ति-काशिका}रप्युदाहार्यम्" इति। लुनीहि लुनीहीत्येवं त्वं लविष्यसि, युवां लविष्यथः, यूयं लविप्यथ। अथ वा-- लुनीत लुनीतेत्येव यूयं लविष्यथ। लुनीहि लुनीहीत्येवाहं लविष्यामि, आवां लविष्यावः, वयं लविष्यामः। "अधीयात्" इति। इयङ। "अधीयते" इति। "आत्मनेपदेष्वनतः" ७।१।५ इत्यदादेशः। "एवं {सर्वेषु लकारेषूदाहार्यम्-काशिका, पदमञ्जरी च}सर्वलकारेषूदाहार्यम्" इति। लङ-लुनीहि लुनीहीत्येवायमलुनात्, इमावलुनीताम्, इमेऽलुनन्। लुनीहि लुनीहीत्येव त्वमलुनः, युवामलुनीतम्(), यूयमलुनीत। अथ वा-- लुलीत लुनीतेत्येव यूयमलुनीत। लुनीहि लनीहीत्येवाहमलुनाम्, आवामलुनीव, वममलुनीम। अधीष्वाधीष्वेत्येवायमध्यैत, इमावध्यैयाताम्िमेऽध्यैयत। अधीष्वाधीष्वेसत्येव त्वमध्यैथाः, युवामध्यैयाथाम्, यूयमध्यैध्वम्। अथ वा-- अधीध्वमधीध्वमित्येव यूयमध्यैध्वम्। अधीष्वाधीष्वत्यवाहमध्यैषि, आवामध्यैवहि, वयमध्यैमहि। अन्येषु लकारेष्वतिग्रन्थविस्तरभयान्नोदाह्यियते।अनया दिशा स्वयमेवाभ्युपगम्योदाहार्यम्। अथ लुनीहि लुनोहीति कथमत्र द्विर्वचनम्, यावता धातुनैव क्रियासमभिहारोऽवगमितः; तद्विशिष्टक्रियावचनाद्धातोर्लोड्विधानात्? अथ वा-- अवगमिते सति तस्मिन् द्विर्वचनं भवतीति चेदेवं यङन्तस्यापि द्विर्वचनं स्यात्? इत्यत आह-- "क्रियासमभिहाराभिव्यक्तौ" इत्यादि। यद्यपि क्रियासमभिहारविशिष्टक्रियाभिधायिनो धातोर्लोड् भवति, तथापि या तस्य क्रियासमभिहारभिव्यक्तिः सा धातुना न क्रियते, किं तर्हि? लोडैव। स चतां कर्त्तुं द्विर्वचनसहित एव समर्थो भवति, न केवलः; तत्र तस्याविधानात्। स हि लोट "लः कर्मणि च भावे चाकर्मकेभ्यः" ३।४।६९ इति कर्मादिषु विधीयते, न क्रियासमभिहारे। तस्मात् तदभिव्यक्तौ कत्र्तव्यायां लोट् स्वयमसमर्थ इति द्विर्वचनमपेक्षते, तेन तदन्तस्य द्विर्वचनं भवतीति भावः। केन पुनर्विधीयमानं द्विर्वचनमपेक्षत इत्याह-- "क्रियासमभिहारे" इत्यादि। "यङप्रत्ययः पुनः" इत्यादि। यङप्रत्ययो हि क्रियासमभिहार एव विधीयते। तेनासौ तत्र विधीयमानस्तदभिव्यक्तौ स्वयमेव समर्थ इति नापेक्षते द्विर्वचनम्। तेन तदन्तस्य द्विर्वचनं न भवतीति भावः॥
बाल-मनोरमा
क्रियासमभिहारे लोट्, लोटो हिस्वौ, वा च तध्वमोः ६४७, ३।४।२

क्रियासमभि। अत्र चत्वारि वाक्यानि। तत्र "क्रियासमभिहारे लो"डिति प्रथमं वाक्यम्। पौनः पुन्यं भृशार्थश्च क्रियासमभिहार इत्युक्तम्। क्रियासमभिहारे इति धात्वर्थविशेषणम्। क्रियासमभिहारविसिष्टक्रियावृत्तेर्धातोरिति लभ्यते। लोट् तु द्योतकः। तदाह--पौनः पुन्ये भृशार्थे च द्योत्ये इति। क्रियासमभिहारविशिष्टक्रियावृत्तेर्धातोर्लोडिति यावत्। सर्वलकारापवादः। "लोटो हिस्वा"विति द्वितीयं वाक्यं व्याचष्टे-- तस्येति। पूर्ववाक्यविहितस्य लोटो हिस्वावादेशौ स्त इत्यर्थः। तिङामपवाद इति। अपवादावित्यर्थः। प्रत्येकाभिप्रायमेकवचनम्। ननु हिस्वयोरुभयोरपि लादेशत्वात्परस्मैपदत्वं स्यात्। तथा सति हेः परस्मपैदत्वं, स्वादेशस्य त्वात्मनेपदत्वमितीष्टा व्यवस्था न सिध्येत्। अस्य स्वादेशस्य तङ्()प्रत्याहारप्रविष्टत्वाऽभावेन "तङानावात्मनेपदटमित्स्याऽप्रवृत्तेः। "तिप्रतस्झी"त्यादिसूत्रोपात्तेषु ताऽ‌ऽतामादिष्वेव तङ्संज्ञाप्रवृत्तेः। किंच अनयोर्हिस्वयोः "तिप्तस्झी"ति सूत्रानन्तर्भूतत्वात्तिङ्त्वं च दुर्लभमित्यत आह-- तौ चेति। "लोटो हिस्वा"विति द्वितीयवक्ये तावत्क्रियासमभिहारे लोडिति प्रतमवाक्याल्लोडित्यनुवृत्तं स्थानषष्ठ()आ विपरिणतं तृतीयं वाक्यं संपद्यते। तत्र हि "लोटो हिस्वौ" इति द्वितीयवाक्याद्धिस्वावित्यनुवृत्तं धर्मपरमाश्रीयते। तथा च लोडादेशौ हिस्ववद्भवत इत लभ्यते। कौ भवत इत्याकाङ्क्षायां पूर्ववाक्योपस्थितौ हिस्वाविति गम्यते। ततश्च याविमौ तिङनन्तर्भूतौ हिस्वावुक्तौ तौ प्रसिद्धलोडादेशतिङन्तर्बूतहिस्ववद्भवत इति तृतीयं वाक्यं पर्यवस्यति। तिङन्तर्भूतहिस्वयोस्तावत्क्रमात्परस्मैपदत्वमात्मनेपदत्वं तिङ्त्वं च प्रसिद्धम्। अतः प्रकृतौ हिस्वौ कर्मात्परस्मैपदात्मनेपदसंज्ञौ तिङ्()संज्ञौ चेत्यर्थः। तिङ्()त्वात्पदत्वसिद्धिः। ननु "वा च तध्वमो रिति तध्वमोर्हिस्वादेशविकल्पविदिरनुपपन्नः, लोडादेशभूतहिस्वयोस्तिङपवादतया लोटस्तध्वमोरप्रसक्तेरित्यत आह-- तध्वमोर्विषयेत्विति। स्थानषष्ठीमाश्रित्य "लोडादेशतध्वमोः स्थाने हिस्वा"वित्यर्थ इति न भ्रमितव्यम्(), येनोक्तदोषः स्यात्, किंतुं विषयविषयिभावः षष्ठ()र्थः। तथा च तध्वमोर्विषये लोटो हिस्वौ, पक्षे तध्वमाविति फलतीत्यर्थः।अत्र मध्यमपुरुषबहुवचनमेव तशब्दो गृह्रते, व्याख्यानात्, ध्वंसाहचर्याच्च। ननु हिस्वयोरनयोर्मध्यमपुरुषैकवचनत्वस्याप्यतिदेशाद्युष्मत्सामानाधिकरण्ये एकत्वे च सत्येव हिस्व#औ स्याताम्। तथा च "इणौ हिस्वौ सर्वेषां पुरुषाणां, सर्वेषां च वचनानामिष्येते" इति भाष्यमनुपपन्नमित्यत आह-- हिस्वविधानेति। यदि हिस्वयोर्मध्यमपुरुषैकवचनसंज्ञे स्यातां तर्हि युष्मत्सामानाधिकरण्ये एकत्वे च सत्येवलोटो हिस्वौ स्याताम्, अन्यत्र तु यथायथं तिबाद्यादेशाः स्युः। तथा सति लोटो हिस्वविधानमनर्थकं स्यादतो न पुरुषवचनातिदेश इत्यर्थः। तेनेति। हिस्वयोः पुरुषवचनातिदेशाऽभावेन क्रमात् परस्मैपदात्मनेपदसंज्ञालाभेन चेत्यर्थः। सकलेति। सकलपुरुषवचनविषये हिर्भवति, स च भवन् परस्मैपदिभ्य एव कर्तर्येव भवति, न त्वात्मनेपदिभ्यो भावकर्मकर्तृष्वित्यर्थः, "शेषात्कर्तरि परस्मैपदमित्युक्तेरिति भावः। आत्मनेपदिभ्यः स्व इति। "अनुदात्तङित आत्मनेपदम्","भावकर्मणो()रित्यादिसूत्रविषयेभ्यो धातुभ्यो भावकर्मकर्तुषु लोटः स्व एव भवतीत्यर्थः। अनयोरत्र क्रमात् परस्मैपदात्मनेपदसंज्ञाविध्यभावे तु लादेशत्वेन उभयोः परस्मैपदत्वात् कर्तर्येव परस्मैपदमात्मनेपदिभ्योऽपि स्यादिति भावः।

तत्त्व-बोधिनी
क्रियासमभिहारे लोट्, लोटो हिस्वौ, वा च तध्वमोः ५३८, ३।४।२

क्रियासमभिहारे। द्योत्य इति। क्रियासमभिहारो धातोरेवार्थः। लोट् तु द्योतक इति भावः। तस्यच हिस्वौ स्त इति। ननु "लो"डित्यनेन तिङो लक्षयित्वा तिङामेव हिस्वौ विधीयेताम्।था सति तिङन्तत्वात्पदत्वं लभ्यत इति गुणोऽप्यस्ति, "वा च तध्वमो"रिति वाक्यशेषोऽपि स्वरसतः सङ्गच्छते। अनय्था येन नाप्राप्तिन्यायेन हिस्वयोस्तिङतिङलक्षणा न न्याय्या, असंजातविरोधित्वेनोपक्रमस्य प्राबल्यात्, वि,यसप्तम्याश्रणेन वाक्यसेषस्योपपन्नत्वाच्च। किंच तिङामादेशत्वे तिप्सिप्मिपां स्थाने विहितस्यहेः स्थानिवद्भावेन पित्त्वान्ङित्त्वाऽभावेन "लुनीही"त्यत्र "ई हल्यघो"रितीत्वं न स्ात्। "ब्राऊही"त्यत्र "ब्राऊव ई"डितीडागमे "ब्रावीही"ति स्यात्। "तृण्ढी"त्यत्र तु "तृणह इ"मितीमागमे तृणेढीति स्यात्। किंच लादेशानामेव परस्मैपदात्मनेपदसंज्ञे न तु लादेशतिङादेशानामिति सर्वेषां तिङां द्वावपि हिस्वौ पर्यायेण स्यातां न तु तिबादीनां हिः, तिङां स्व इति पदव्यवस्थया। ततश्च लकारस्यैवादेशौ हिस्वौ स्यातामत आह---तौ चेति। अयं भावः- "लोटो हिस्वौ" इति वाक्ये "क्रियासमभिहारे लो"डिति वाक्याल्लोडित्यनुवर्तते, तच्च हिस्वावित्यस्य विशेषणम्। न च हिस्वौ लोटौ भवत इतिसामथ्र्याल्लोटधर्मकावित्र्थः संपद्यते। तत्रापि मुख्यलोट्संबन्धिनो धर्मस्य प्रत्ययत्वस्यातिदेशोव्यर्थः, स्थानिवत्त्वेनैव तत्सिद्धेः। किंतु स्थानवद्भावलब्धलोड्व्यपदेशकौ तिङ्भूतौ यौ हिस्वौ तयोरेव धर्म इहातिदिश्यते। केचित्तु-- "क्रियासमभिहारे लो" डित्यनन्तरं लाघवात्तस्य हिस्वाविति वक्तव्ये लोड्ग्रहणसामथ्र्याल्लोड्धर्मकावेव हिस्वौ लोटः स्थाने भवत इत्यर्थः संपद्यते। तथा च पूर्वोक्तरीत्या तिङ्भूतौ यौ हिस्वौ तयोरेव धर्म इहातिदिश्यत इति सिद्धमिष्टम्। एवं च "लोटो हिस्वा"विति वाक्ये पूर्ववाक्याल्लोड्ग्रहणं नानुवर्तनीयमित्याहुः। तिङ्संज्ञौ चेति। तेन पदत्वं, "तिङ्ङतिङः" इति च भवति। हिस्वविधान इति। यदि हि पुरुषवचनसंज्ञे अपि स्यातां तर्हि युष्मत्सामानाधिकरणये एकत्वे च सत्येव हिस्वाभ्यां भाव्यं, तत्रच व्यर्थो हिस्वविधिरिति भावः। हिः कर्तरि। स्वो भावकर्मकर्तृष्विति। उक्तं च कैयटेनापि-- "हिशब्दस्य कर्ता वाचयः, स्वशब्दस्य तु भावकर्मकर्तार इति। अत्र नव्याः-- "अल्पे" "ह्यस्वे" इत्यादौ कप्रत्ययवत्क्रियासमभिहारे लोडयं स्वर्थिक एव। न त्व()स्मल्लोटि "लः कर्मणि चे" त्याद्यर्थोऽभ्युपेयः, प्रयोजनाऽभावात्। यदि तु हिशब्दस्य कर्ता अर्थः स्यात्, पुनः पुनरतिशयेन वा यानं ह्रन्तस्यार्थ इति वक्षमाणग्रन्थः स्वरसतो न सङ्गच्छेत। याहियाहीत्यादौ तु कत्र्रादिप्र्तीतिर्यातीत्यादिसमभिव्याहारेण सुलभैव। यथा एधांचक्रे इत्यत्र तङादेशात्प्रागेव आमः परस्य लेर्लुक्यामन्ते सह्ख्याप्तीत्भावेऽपि चक्रे इत्यनुप्रयोगवशेन एकर्तृका वृद्धिरूपा क्रियेत्यविद्यमानाऽपि सङ्ख्या प्रतीयते, तथैव हिस्वान्तेष्पि कालकारकसङ्ख्याप्रतीतिर्यातीत्याद्यनुप्रयोगबलेन भवतीत्याहुः। स्यादेतत्--"क्रियासमभिहारे हिस्वौ लोड्वा च तध्वमो"रिति सूत्रमस्तु। तथा च हिस्वौ लोटौ न भवत इत लोड्धर्मकावित्यर्थः पूर्वोक्तरीत्या स्यादिति सर्वेष्टसिद्धौ किमनेन लोट इति षष्ठ()न्तकरणेनेतिचेत्। अत्राहुः--- हिस्वयोर्यदि लोट्स्थानिकत्वं न स्वीक्रियते तर्हि तयोर्लोडादेशवद्भावेन "ईहल्यघो"रित्यादिप्रवृत्त्या लुनीहीत्यादिसिद्धावपि हिस्वान्तस्य लोडन्तत्वं न सिध्येत्। तथा च "हन्त चे"त्यनुदात्तविकल्पो न स्यात्, "हन्त! प्रलुनीहिप्रलुनीहीत्ययं लुनाति"। एवंच लोडन्तत्वलाभार्थं "लोटो हिस्वा"विति विधीयते। यदि तु "हिस्वौ लो"डित्युक्तेऽपि लोड्वद्भावाश्रयेण लोडन्तकार्यं "हन्त चे"ति स्वरविकल्पः सिध्यतीति ब्राऊषे तर्हि स्थानिवद्भावलब्धलोड्()धर्मकौ हिस्वावित्यर्थस्याऽनाश्रयणाल्लोडादेशकार्याणि परस्मैपदात्मनेपदतिङ्संज्ञास्तु न सिध्यन्ति। तथा च पूर्वोक्तदोषस्तदवस्थः स्यात्। "लोट् लोटो हिस्वौ"इत्युक्ते तु स्थानिवद्भावेन हिस्वयोर्लोट्()त्वाल्लोडन्तकार्यं स्वरविकल्प सिध्यति, "क्रियासमभिहारे लोडि"ति वाक्याल्लोडित्यरनुवर्त्त्य हिस्वौ लोडिति प्रागेव व्याख्यातत्वाल्लोपडादेशवद्भावेन परस्मैपदात्मनेपदसंज्ञादीन्यपि सिध्यन्तीति।