पूर्वम्: ३।४।३७
अनन्तरम्: ३।४।३९
 
सूत्रम्
स्नेहने पिषः॥ ३।४।३८
काशिका-वृत्तिः
स्नेहने पिषः ३।४।३८

करने इत्येव। स्निह्यते येन तत् स्नेहनम्। स्नेहनवाचिनि करणे उपपदे पिषेर् धातोः णमुल् प्रत्ययो भवति। उदपेषं पिनष्टि। तैलपेषं पिनष्टि। तैलेन पितष्टि इत्यर्थः।
न्यासः
स्नेहने पिपः। , ३।४।३८

"स्नेहनवाचिनि" इत्यनेन "स्नेहने" इत्यस्यार्थमाचष्टे॥
तत्त्व-बोधिनी
स्नेहने पिषः १६१९, ३।४।३८

स्नेहने। "शुष्कचूर्णे"ति सूत्रे एव स्नेहनग्रहणं न कृतम्। तत्र हि "कर्मणि दृशिविदो"रिति सूत्रात्कर्मणीत्यनुवर्तते, इह तु पूर्वसूत्रात्करण इत्यनुवर्तनीयमिति।