पूर्वम्: ३।४।४६
अनन्तरम्: ३।४।४८
 
सूत्रम्
उपदंशस्तृतीयायाम्॥ ३।४।४७
काशिका-वृत्तिः
उपदंशस् तृतीयायाम् ३।४।४७

दंश दशने, अस्माद् धतोरुपपूर्वात् तृतीयान्ते उपपदे णमुल् प्रत्ययो भवति। मूलकोपदंशं भुङ्क्ते, मूलकेनोपदंशम्। आऋद्रकोपदंशम्, आर्द्रकेणोपदंशम्। अत्र विकल्पेन उपपदसमासः तृतीयाप्रभृतीन्यन्तरस्याम् २।२।२१। मूलकादि चोपदंशेः कर्म। भुजेः करणम्। सर्वस्मिन्नेव अत्र णमुल्प्रकरणे क्रियाभेदे सति वासरूपविधिना क्त्वापि भवति। मूलकेनोपदश्य भुङ्क्ते।
न्यासः
उपदंस्तृतीयायाम्। , ३।४।४७

इह "मूलकेनोपदंशं भुङ्क्ते" इत्यादौ करणे तृतीया, तदन्तं मूलकाद्युपपदम्। तच्च करणमुदंशेर्वा स्यात्, भुजेर्वा? तत्रोपदंशेस्तावन्नोपपद्यते; अन्यस्मिन् {ह्रुपदिश्यमाने-मुद्रितः पाठः} ह्रुपदंश्यमानेऽन्यत् करणं भवति, इह च तदेव मूलकाद्युपदश्यते, नापरं किञ्चित्। भुजिं तु प्रत्युपपद्यत एव करणभावः, किन्तूपपदसंज्ञा न स्यात्, तदभावदुपपदसमासश्च; यस्मादुपपदमिति महत्याः संज्ञायाः करणं समर्थपरिभाषाया व्यापार्थम्, तेनेह तस्यामुपस्थितायां यमेव प्रति यस्य सामथ्र्य तमेव प्रति तस्योपपदसंज्ञाया भवितव्यम्। भुजिं तु प्रति तस्योपपदसंज्ञया भवितव्यम्। भुजिं तु प्रति मूलकादेः सामथ्र्यम्, नोपदंशि प्रतीति चोद्यमाशङ्क्याह-- "मूलकादि चोपदंशे" इत्यादि। यद्यपि भुजिं प्रति मूलकादेः करणभावः तथाप्युपदंशिना सह सामथ्र्यमुपपद्यत एव; यतस्तस्य कर्म। न च भुजिना सरह सम्बन्धे सत्युपदंशिना सह सम्बन्धो निवत्र्तते; विरोधाभावात्। तस्मादुपपद्यत एवोपपदत्वम्, त()स्मश्च सत्युपपदसमासः। "क्रियाभेदे सति"इति। क्रियाभेदग्रहणेन क्त्वाप्रत्ययविषयमुपलक्षयति। यत्र क्रियाणां पौर्वापर्यं समानकर्त्तृकत्वञ्च स क्त्वाप्रत्ययस्य विषयः। एतच्चोभयं क्रियाभेदे सति भवतीति क्त्वाप्रत्ययस्य विषय उपलक्ष्यते। "मूलकेनोपदश्य भुङ्क्ते" इति। "अनिदिताम्" ६।४।२४ इत्यनुनासिकलोपः॥
तत्त्व-बोधिनी
उपदंशस्तृतीयायाम् १६२३, ३।४।४७

मूलकोपदंशमिति। अयमर्थः-- मूलकेन भुङ्क्ते। किं कृत्वा?। उपदस्य। किमुपदश्य?। अर्थान्मूलकमिति संबध्यते। एतावतैवेति। शाब्दान्वयाऽभावेऽपि आर्थिकान्वयमात्रेणेत्यर्थः। वचनसामथ्र्यादिति। यदि हि तृतीयान्तेव शाब्दान्वये सत्येव प्रत्ययो भवेत्तर्हि "करणे हनः"इति वत् "उपदंशः करणे" इत्येव ब्राऊयात्। ततश्च क्रियान्तरं प्रति करणत्वं मूलकेनेत्यस्येष्टमिति भावः। एतच्च मनोरमाग्रन्थानुसारेणोक्तम्।अत्र केचित्त--नन्वेवम् "उपदंशः कर्मणी"त्येव सूत्रमस्तु। अथवोपदंश इत्येवाऽस्तु। "उपमाने कर्मणी"त्यतः कर्मणीत्यनुवर्त्त्य कर्मण्युपपदे उपपूर्वकाद्दशेर्णमुलिति व्याख्यायतां, किमनया कुसृष्ट()एति। न चैवं कर्मण्युपपदे नित्यसमासः स्यादिति वाच्यं, करणे इत्युक्तेऽप्युक्तदोषस्य तुल्यत्वात्। न च "तृतीयाप्रभृतीनी"ति सूत्रे "करणप्रभृतीनी"त्युक्ते नास्त्येव दोषः, "करणे हनःर" इत्यारभ्य विकल्प इति सन्देहवारणाय "व्याख्यानतो विशेषप्रतिपत्तिर्न हि संदेहादलक्षण"मिति परिभाषास्वीकारादिति वाच्यं, "तृतीयाप्रभृतीनी"ति सूत्रे "कर्मणिप्रभृतीनी"ति सूत्रे "कर्मणिप्रभृतीनी"त्युक्तेऽपि दोषाऽभावात्। "कर्मण्याक्रोशे कृञः खमुञ्" "कर्मण#इ दृशिविदो" रित्यारभ्य वा विकल्प इति सन्देहस्य "व्याख्यानतो विशेषप्रतिपत्तिः" रिति परिभाषया वारयितुं शक्यत्वात्। तस्मात् "उपदंशः करणे" इत्येव ब्राऊया"दिति मनोरमा चिन्त्येत्याहुः। वस्तुतस्तु "कर्मणिप्रभृतीन्यन्यतरस्या"मित्युक्ते "उपमाने कर्मणि चे"त्यतः कर्मणीत्यनुवर्त्त्य "उपदंश" इत्येव सूत्रमिति स्वीकारपक्षे कषादिषु यथाविध्यनुप्रयोगोऽपि विकल्पेन स्यात्। मण्डूकप्लुत्याश्रयणं त्वगतिकगतिः। "उपदंशः कर्मणी"ति सूत्रस्वीकारपक्षेऽपि "मूलकोपदंश"मिति। "करणे प्रभृतीनी"ति मनरमोक्तौ तु समासाऽभावपक्षे "मूलकेनोपदंश"मिति सिध्यत्येव, करणतृतीयायाः प्रवृत्तेरिति दिक्।