पूर्वम्: २।२।२०
अनन्तरम्: २।२।२२
 
प्रथमावृत्तिः

सूत्रम्॥ तृतीयाप्रभृतीन्यन्यतरस्याम्॥ २।२।२१

पदच्छेदः॥ तृतीयाप्रभृतीनि १।३ २२ अन्यतरस्याम् २२ अमा ३।१ २० एव २० अव्ययेन ३।१ २० उपपदम् १।१ १९ तत्पुरुषः १।१ २।१।२१ सह २।१।४ सुपा ३।१ २।१।४ समासः १।१ २।१।३ सुप् १।१ २।१।२

काशिका-वृत्तिः
तृतीयाप्रभृतीन्यतरस्यम् २।२।२१

अमा एव इत्यनुवर्तते। उपदंशस् तृतीयायाम् ३।४।४७ इत्यतः प्रभृति यान्युपपदानि तानि अमा एव अव्ययेन सहान्यतरस्यां समस्यन्ते, तत्पुरुषश्च समासो भवति। उभयत्रविभाशेयम्। यदमा एव तुल्यविधानम् उपपदं तस्य प्राप्ते, यथा उपदंशस् तृतीयायाम् ३।४।४७ इति। यत् पुनरमा च अन्येन च तुल्यविधानं तस्य प्राप्ते, यथा अव्यये ऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ (*३,४॥५९) इति। मूलकोपदंशं भुङ्क्ते, मूलकेन उपदंशं भुङ्क्ते। उच्चैःकारम् आचष्टे, उच्चैः कारम्। अमा एव इत्येव, पर्यप्तिवचनेष्वलमर्थेषु ३।४।६६, पर्याप्तो भोक्तुम्। प्रभुर्भोक्तुम्।
न्यासः
तृतीयराप्रभृतीन्यन्यतरस्याम्। , २।२।२१

"पर्याप्तो भोक्तुम्" इति। "पर्याप्तवचनष्वलमर्थेषु" ३।४।६६ इत्यत्र "शकधृषज्ञाग्लाघटरभ" ३।४।६५ इत्यादेः सूत्रात् तुमुन्ग्रहणानुवृत्तेस्तुमुन्प्रत्ययः॥
बाल-मनोरमा
तृतीयाप्रभृतीन्यन्यतरस्याम् ७७४, २।२।२१

तृतीयाप्रभृतीनि। तृतीयाशब्देन "उपदंशस्तृतीयाया"मित्यारभ्य"अन्वच्यानुलोम्ये" इत्यन्तसूत्रोपात्तान्युपपदानि विवक्षितानि। अमेति, अव्ययेनेति चानुवर्तते। एवकारस्तु नानुवर्तते, अस्वरितत्वात्। अमेत्येतदव्ययविशेषणम्। तदाह--उपदंशस्तृतीयायामित्यादिना। मूलकोपदंशमिति। "उपदंशस्तृतीयाया"मिति णमुल्। अमैव तुल्यविधानत्वात्पूर्वसूत्रेण नित्ये प्राप्ते विकल्पोऽयम्। ननु "मूलकेने"त्यस्य "भुङ्क्ते" इत्यत्रैवान्वयादुपदंश इत्यत्रानन्वयादसामथ्र्यात्कथमिह समास इति चेत्, मैवम्--उपदंशनक्रियां प्रति हि मूलकस्य आर्थकं कर्मत्वमादाय सामथ्र्यमुपपाद्यम्। तृतीया तु प्रधानक्रियानुरोधात्परत्वाच्चोपपाद्येत्यन्यत्र विस्तरः। उच्चैःकारमिति। उच्चेःकृत्वेत्यत्र तु "अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ"। "तत्र "उच्चैःकार"मित्यत्र उपपदत्वस्य अमैव तुल्यविधानत्वाऽभावात् "अमैवाव्ययेने"त्यप्राप्तेऽनेन विकल्पः। समासपक्षे "आदिर्णमुल्यन्यतरस्या"मिति कृदुक्तरपदप्रकृतिस्वर आद्युदात्तत्वम्। असमासपक्षे तु उच्चैरिति फिट्सूत्रेणाऽन्तोदात्तत्वमिति फले भेदः। अमन्तेनेति किम्?। पर्याप्तो भोक्तुम्। "पर्याप्तिवचनेषु" इति तुमुन्।

तत्त्व-बोधिनी
तृतीयाप्रभृतीन्यन्यतरस्याम् ६८३, २।२।२१

तृतीयाप्रभृतीन्यन्यतरस्याम्। उभयत्रविभाषेयम्। अमैव तुल्यविधानस्य प्राप्तेऽमा चान्येन च तुल्यविधानस्याऽप्राप्ते चारम्भात्। प्राप्ते यथा---"उपदशस्तृतीयायाम्"। मूलककेनोपदंशं। मूलकोपदंशम्। अप्राप्ते यथा--"अव्ययेऽयथाभिप्रेताख्याने"ति क्त्वाणमुलौ। उच्चैःकारम्। इह समासपक्षे कृदृत्तरपदप्रकृतिस्वरः--"आदिर्ण मुल्यन्यतरस्या"मित्याद्युदात्तत्वम्। असमासे तु उच्चैरित्यन्तोदात्तत्वम्। "उदि चेर्डै सिः"इति व्युत्पत्तिपक्षे प्रत्ययस्वरस्य, अव्युत्पत्तिपक्षे तु "फिषः"इत्यस्य च प्रवृत्तेरित्याहुः। मनोरमायां तूच्चैरित्यन्तोदात्तः, स्वरादिषु तथा पाठादिति स्थितम्। "अमे"त्यनुवर्तत इत्याह--अमन्तेनेति। तेनेह न--पर्याप्तो भोक्तुम्। "पर्याप्तिवचनेष्वि"ति तुमुन्।