पूर्वम्: ३।४।५४
अनन्तरम्: ३।४।५६
 
सूत्रम्
परिक्लिश्यमाने च॥ ३।४।५५
काशिका-वृत्तिः
परिक्लश्यमाने च ३।४।५५

स्वाङ्गे, द्वितीयायाम् इत्येव। परिक्लिश्यमाने स्वाङ्गवाचिनि द्वितीयान्ते उपपदे धातोः णमुल् प्रत्ययो भवति। परिक्लेशः सर्वतो विबाधनम्, दुःखनम्। उरःपेषं युध्यन्ते, उरःप्रतिपेषं युध्यन्ते। शिरःपेषम्, शिरःप्रतिपेषम्। कृत्स्नमुरः पीडयन्तो युध्यन्ते। घ्रुवार्थो ऽयम् आरम्भः।
न्यासः
परिक्लिश्यमाने च। , ३।४।५५

"परिक्लेशः सर्वतो विबाधनम्" इति। सर्वतःशब्देन परिशब्दस्यार्थमाचष्टे। विबाधनशब्देनापि क्लिशेर्धातोः॥