पूर्वम्: ३।४।५५
अनन्तरम्: ३।४।५७
 
सूत्रम्
विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः॥ ३।४।५६
काशिका-वृत्तिः
विशिपतिपदिस्कन्दाम् व्याप्यमानाऽसेव्यमानयोः ३।४।५६

द्वितीयायाम् इत्येव। द्वितीयान्ते उपपदे विश्यादिभ्यो धातुभ्यो णमुल् प्रत्ययो भवति, व्याप्यमाने आसेव्यमाने च अर्थे गम्यमाने। विश्यादिभिः क्रियाभिरनवयवेन पदार्थानां सम्बन्धो व्याप्तिः। तात्पर्यम् आसेवा। द्रव्ये व्याप्तिः, क्रियायामासेवा। गेहानुप्रविशम् आस्ते। समासेन व्याप्त्यासेवयोरुक्तत्वात् नित्यवीप्सयोः ८।१।४ इति द्विर्वचनं न भवति। असमासपक्षे तु व्याप्यमानतायां द्रव्यवचनस्य द्विर्वचनम्, आसेव्यमानतायां तु क्रियावचनस्य। तथा च वक्ष्यति सुप्सु वीप्स, तिङ्क्षु नित्यता इति। गेहं गेहम् अनुप्रवेशम् आस्ते। आसेवायाम् गेहम् अनुप्रवेशम् अनुप्रवेशम् आस्ते। पति गेहानुप्रपातम् आस्ते गेहं गेहम् अनुप्रपातम् आस्ते, गेहम् अनुप्रपातम् अनुप्रपातम् आस्ते। पदि गेहानुप्रपादम् आस्ते, गेहं गेहम् अनुप्रपादम्, गेहम् अनुप्रपादम् अनुप्रपादम्। स्कन्दि गेहावस्कन्दम् आस्ते, गेहं गेहम् अवस्कन्दम्, गेहम् अवस्कन्दम् अवस्कन्दम्। व्याप्यम् आनासेव्यमानयोः इति किम्? गेहम् अनुप्रविश्य भुङ्क्ते। ननु आभीक्ष्ण्ये णमुल् विहित एव, आसेवा आभीक्ष्ण्यम् एव, किम् अर्थं पुनरासेवायां णमुलुच्यते? क्त्वानिवृत्त्यर्थम् इति चेत्, न, इष्टत्वात् तस्य। द्वितीयोपपदार्थं तर्हि वचनम्, उपपदसमासः पक्षे यथा स्यात्। तेन हि सति उपपदाभावः।
न्यासः
विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः। , ३।४।५६

"विश्यादिभिः क्रियादिभिः" इति। आदिशब्देन पत्यादित्रयाणां ग्रहणम्। "अनवयवेन" इति। साकल्येन। "पदार्थानाम्" इति। गेहादीनाम्।"तात्पर्यम्" इति। क्रियाणां पौनःपुन्यमाभीक्ष्ण्यमित्यर्थः। "द्रव्ये व्याप्तिः" इत्यादिना व्याप्यमानासेव्यमानयोर्विषयविभागं दर्शयति। यदि व्याप्यमान आसेव्यमाने चार्थे प्रत्ययो भवति, एवञ्च सति तयोरर्थयोर्नित्यता वीप्सा च विद्यत इति "नित्यवीप्सयोः"८।१।४ इति द्विवचनेन भवितव्यम्, तत् कस्मान्न भवति? इत्याह-- "समानेन"इत्यादि। यद्यपि समासस्तयोरर्थयोर्न विधीयते, पुरस्तादेव प्रतिपादितम्। "तथा च वक्ष्यति"इति।भाष्यकारः। "सुप्सु वीप्सा "इति वचनात् "व्याप्तमानतायां द्रव्यवचनस्य द्विर्वचनं भवति"इत्युक्तं भवति। "तिङ्क्षु नित्यता"इति वचनात् "आसेध्यमानतायां क्रियावचनस्य द्विर्वचनं भवति" इत्युक्तं भवति। "गेहंगेहम्िति। द्रव्यमवचनस्य द्विर्वचमनम्। "गेहमनुप्रवेशमनुप्रवेशम्िति। क्रियावचनस्य।"ननु च"इत्यादि देश्यं "क्त्वानिवृत्त्यर्थम्ित्यादिना परमतमाशङ्क्य निराकरोति। स्यादेतत्, "आभीक्ष्ण्ये णमुल् च" ३।४।२२ इत्यनेन क्त्वाणमुलौ द्वावपि विहितौ, तत्र यदि विश्यादिभ्यः पुनरासेवायां णमुल् विधीयेत तदा क्त्वाप्रत्ययोऽपि स्यात्। अतस्तन्निवृत्त्यर्थं पुनर्णमुलुच्यत इति? एतच्च नास्ति; इष्टत्वात्। इष्यते ह्रासेवायां विशिप्रभृतिभ्यः क्त्वा-- गेहमनुप्रविश्यानुप्रविश्यास्त इति। तस्मादयुक्तं तन्निवृत्त्यर्थं पुनर्णमुल्ग्रहणम्। "द्वितीयान्तोपपदार्थम्" इत्यादि। यदि क्त्वानिवृत्त्यर्थं न प्रयुज्यते तदा द्वितीयान्तस्योपपदसंज्ञार्थं पुनर्वचनम्। अनेन "द्वितीयायाञ्च" ३।४।५३ इत्यधिकाराद्द्वितीयान्त उपपदे प्रत्ययविधानम्। अतो द्वितीयान्तस्योपपदसंज्ञा लभ्यते। किमर्थं पुनर्द्वितीयान्तस्योपपदत्वमिष्यते? इत्याह-- "उपपदसमासः" इत्यादि। पक्षग्रहणं "तृतीयाप्रभृतीन्यन्यतरस्याम्" २।२।२१ इति विकल्पेन समासविधानात्। स्यादेतत्--तेनापि णमुल्विधान उपपदसंज्ञा भविष्यतीत्यत आह--"तेन हि"इत्यादि। न हि तेनोपपदसम्बन्धे णमुल् विधीयते; सप्तमीस्थस्य कस्यचिच्छब्दस्याभावात्। तस्मात् तेन णमुल्विधाने सत्युपपदत्वाभाव एव स्यात्॥
तत्त्व-बोधिनी
विशिपतिपदिस्कन्दां व्याप्यमानाऽ‌ऽसेव्यमानयोः १६३०, ३।४।५६

उपपदसंज्ञार्थमिति। "विशिपती"ति सूत्रे द्वितीयायामित्यनुवर्तनात्तदन्तस्योपपदसंज्ञार्थमित्यर्थः।