तिर्यक्शब्दे उपपदे कृञः क्त्वाणमुलौ प्रत्ययौ भवतः, अपवर्गे गम्यमाने। अपवर्गः समाप्तिः। तिर्यक्कृत्य गतः, तिर्यक्कृत्वा गतः, तिर्यक्कारं गतः। समाप्य गतः इत्यर्थः।
अपवर्गे इति किम्? तिर्यक्कृत्वा काष्ठं गतः। तिर्यचि इति शब्दानुकरणम्। न च प्रकृतिवदनुकरणेन भवितव्यम्, अनुक्रियमाणरूपविनाशप्रसङ्गात्, एतदो ऽश्, अदसो मात्
१।१।१२ इति।
"तिर्यक्कृत्वा" इति। तिरोऽञ्चतीति ऋत्विगादिना
३।२।५९ क्विन्। "झलां जशोऽन्ते"
८।२।३९ इति चकारस्य जकारे कृते "क्विन्प्रत्ययस्य कुः"
८।२।६२ इति कुत्वम्--गकारः, तस्यापि चत्र्वम्-- ककारः, "तिरसस्तिर्यलोपे"
६।३।९३ इति तिर्यादेशः। "तिर्यक्कृत्वा "{काष्ठं इति मूलपाठः} काण्डं गतः"इति। अनृजृ कृत्वा। पार्(ातः कृत्वेत्यर्थः।
अथ "तिर्यचि" कोऽयं निर्देशः, यावता भसंज्ञायां सत्यां "अचः"
६।४।३८ इत्यकारलोपे कृते तिरश्चीति भवितव्यमित्यत आह-- "तिर्यचि" इत्यादि। सर्वत्र ह्रनुकरणभूतशब्दः शब्दस्वरूपस्यैवानुकरणम्। एतावांस्तु विशेषः-- क्वचिच्चब्दपदार्थस्यानुकरणम्, क्वचिदर्थस्येति।
तत्रानुकरणमित्येतावपि वक्तव्ये शब्दरूपग्रहणं शब्दरूपमात्रस्यार्थरहितस्यैतदनुकरणमिति ज्ञापनार्थम्। तदेतदुक्तं भवति-- शब्दपदार्थको यस्तिर्यक्छब्दस्तस्येदमनुकरणम्, न तु स एव। तेन शब्दान्तरत्वादकारलोपो न भवतीति भावः। नन्वेवमपि "प्रकृतिवदनुकरणं भवति"(व्या।प।
११३) इति भवितव्यमेवात्र प्रकृतिकार्येणाकारलोपेन? इत्यत आह-- "न च" इत्यादि। अत्रैवोपपत्तिमाह--"अनुक्रियमाणरूपविनाशप्रसङ्गात्" इति। यद्यत्र प्रकृतिकार्यं स्यात् ततो यादृशमनुकरणं तिर्यगिति शब्दरूपं तस्य विनाशोऽनुपलब्धिः स्यात्। यादृशमनुकर्त्तुमिष्टमकृताकारलोपं तादृशं न प्रतीयेतेत्यर्थः। यतएवं प्रकृतिवदनुकरणभावे सत्येष दोष आपतति, ततोनेह प्रकृतिवदनुकरणेन भवितव्यम्। "प्रकृतिवदनुकरणं भवति" (व्या।प।११३) इत्यस्य तु यत्रार्थपदार्थस्यानुकरणं सोऽवकाशो वेदितव्यः। क्व च यथा प्रकृतिवदनुकरणं भवतीत्याह-- "एतदोऽश्" इत्यादि। एतदोऽदस इत्युभयमप्येतच्छब्दरूपपदार्थकस्यानुकरणम्। यदि च शब्दपदार्थकस्य यदनुकरणं तस्यापि प्रकृतिभावः स्यात्, तदा त्यदाद्यत्वादिके प्रकृतिकार्ये कृते-- एतस्य, अमुष्येति रूपं स्यात्। तस्याद्यथेह प्रकृतिभावो न भवति,तथातिर्यचीत्यत्रापि॥