पूर्वम्: ४।१।१३४
अनन्तरम्: ४।१।१३६
 
सूत्रम्
चतुष्पाद्भ्यो ढञ्॥ ४।१।१३५
काशिका-वृत्तिः
चतुष्पाद्भ्यो ढञ् ४।१।१३५

चतुष्पादभिधायिनीभ्यः प्रकृतिभ्यो ऽपत्ये ढञ्प्रत्ययो भवति। अणादीनाम् अपवादः। कामण्डलेयः। शौन्तिबाहेयः। जाम्बेयः।
न्यासः
चतुष्पाद्भयो ढञ्। , ४।१।१३५

"चतुष्पाद्भ्यः" इति। चत्वारः पाद आसामिति तास्तथोक्ताः। "पादस्य लोपऽहस्त्यादिभ्यः" ५।४।१३८ इति लोपः। इहाप्यर्थधर्मेण तदभिधायिन्यः प्रकृतयो निर्दिश्यन्ते। अत एवाह-- "चतुष्पादभिधायिनीभ्यः प्रकृतिभ्यः" इति। बहुवचननिर्देशः स्वरूपविधिनिरासाय। "अणादीनाम्" इति। आदिशब्देन ढगादीनां ग्रहणम्। "कामण्डलेयः" इत्यादि। कमण्डलूशुन्तिबाहुजम्बुशब्दाश्चतुष्पाज्जातिवाचिनः,तेषां "ढे लोपोऽकद्रवाः" ६।४।१४७ इत्युवर्णलोपः॥ अणादीनामपवादः। आदिशब्देन ढकः। बहुवचननिर्देशस्तु प्रकृतिभेदेन तयोर्भेदस्य विवक्षितत्वात्। तत्राजवस्तिमित्रयुशब्दयोरणोऽपवादः, शेषाणां "इतश्चानिञः" ४।१।१२२ इति ढकः॥
बाल-मनोरमा
चतुष्पाद्भ्यो ढञ् ११२५, ४।१।१३५

चतुष्पाद्भ्यो। चतुष्पादः-पशवः। तद्विशेषवाचिभ्योऽपत्ये ढञित्यर्थः।