पूर्वम्: ४।१।१३५
अनन्तरम्: ४।१।१३७
 
सूत्रम्
गृष्ट्यादिभ्यश्च॥ ४।१।१३६
काशिका-वृत्तिः
गृष्ट्यादिभ्यश् च ४।१।१३६

गृष्ट्यादिभ्यः शब्देभ्यो ऽपत्ये ढञ् प्रत्ययो भवति। अणादीनाम् अपवादः। गार्ष्टेयः। हार्ष्टेयः। गृष्टिशब्दो यश्चतुष्पादवचनः, ततः पूर्वेण एव सिद्धः। अच्तुष्पादर्थं वचनम्। गृष्टि। हृष्टि। हलि। बलि। विश्रि। कुद्रि। अजबस्ति। मित्रयु।
बाल-मनोरमा
गृष्ट�आदिभ्यश्च ११२७, ४।१।१३६

गृष्ट()आदिभ्यश्च। अण्ढकोरिति। गृष्टि, हलि, बलि, कुठि, अगस्ति, मित्रयु एते गृष्ट()आदयः। अत्राऽन्त्ययोरृषित्वादण्प्राप्तः।अन्येभ्यस्तु "इतश्चाऽनिञः" इति ढक्प्राप्त इति विवेकः। सकृत्प्रसूता मानुष्यादिरपि गृष्टिः, नतु गोरेव। ततश्च "चतुष्पाद्भ्यः" इत्यनेन न प्राप्तिः।

तत्त्व-बोधिनी
गृष्ट�आदिभ्यश्च ९३८, ४।१।१३६

गृष्ट()आदिभ्यश्च। गृष्टि, ह्मषि, हलि, बलि, क्रुद्रि, अगस्ति, मित्रयु। अण्ढकोरपवाद इति। इहान्त्ययोद्र्वयोरृषित्वादण् प्राप्तः, अन्येभ्यस्तु "इतश्चानिञः"इति ढगिति विवेकः। गार्ष्टेय इति। सकृत्प्रसूता सर्वापि गृष्टिः, न तु गोरेव। अतोऽत्र न "चतुष्पाभ्द्यः"इत्यनेन ढञ्()सिद्धिः।