पूर्वम्: ४।१।१४२
अनन्तरम्: ४।१।१४४
 
सूत्रम्
स्वसुश्छः॥ ४।१।१४३
काशिका-वृत्तिः
स्वसुश् छः ४।१।१४३

स्वसृशब्दादपत्ये छन्H प्रत्ययो भवति। अणो ऽपवादः। स्वसुरपत्यं स्वस्रीयः।
न्यासः
स्वसुश्छः। , ४।१।१४३

बाल-मनोरमा
स्वसुश्छः ११५०, ४।१।१४३

स्वसुश्छः। "अपत्ये" इति शेषः। स्वस्त्रीय इति। छस्य ईयादेशः, ऋकारस्य यण्।