पूर्वम्: ४।१।१४३
अनन्तरम्: ४।१।१४५
 
सूत्रम्
भ्रातुर्व्यच्च॥ ४।१।१४४
काशिका-वृत्तिः
भ्रातुर् व्यच् च ४।१।१४४

भ्रातृशब्दादपत्ये व्यत् प्रत्ययो भवति। चकाराच् छश्च। अणो ऽपवादः। भ्रातृव्यः, भ्रात्रीयः। तकारः स्वरार्थः।
न्यासः
भ्रातृव्र्यच्च। , ४।१।१४४

"तकारः स्वरार्थः" इति। "तिस्त्वरितम्" ६।१।१७९ इति स्वरितत्वं यथा स्यात्।
बाल-मनोरमा
भ्रातुव्र्यच्च ११५१, ४।१।१४४

भ्रातुव्र्यच्च। तकारः "तित्स्वरित"मिति स्वरार्थ इति बोध्यम्।