पूर्वम्: ४।१।१४४
अनन्तरम्: ४।१।१४६
 
सूत्रम्
व्यन् सपत्ने॥ ४।१।१४५
काशिका-वृत्तिः
व्यन् सपत्ने ४।१।१४५

सपत्नशब्दः शत्रुपर्यायः शब्दान्तरव्युत्पन्नम् एव। सप्त्नीशब्दादपरे ऽकारम् इव अर्थे निपातयन्ति। सप्त्नीव सपत्नः। भ्रातृशब्दाद् व्यन् प्रत्ययो भवति समुदायेन च इदम् इत्रः सपत्न उच्यते। अपत्यार्थो ऽत्र न अस्त्येव। पाप्मना भ्रातृव्येण। भ्रातृव्यः कण्टकः।
न्यासः
व्यन्सपत्ने। , ४।१।१४५

ननु "नित्यं सपत्न्यादिषु" ४।१।३५ इति सपत्नीशब्द एव स्त्रीलिङ्गो व्युत्पादितः, तत्कथं सपत्न इति प्रयोगः पुंलिङ्गस्य युज्यत इत्याह-- "सपत्नशब्दः शत्त्रुपर्यायः" इत्यादि। "इवार्थे" इति। इवार्थः = सादृश्यम्। यथैव हि सपत्नी दुःखहेतुः, तथा शत्त्रुरपीति। यः सपत्नीव सपत्नः स उच्यते॥
बाल-मनोरमा
व्यन्त्सपत्ने ११५२, ४।१।१४५

व्यन्सपत्ने। अपत्ये इति। प्रत्ययेनाऽपत्यमुच्यते। भ्रातृशब्दार्थस्तु न विवक्षितः। तथाच भ्रातृशब्दोत्तरत्वे व्यन्प्रत्ययार्थः शत्रुरिति भाष्ये स्पष्टम्। ननु "पाप्मना भ्रातृव्येणे"ति कथं, पाप्मनोऽपत्यत्वाऽभावादित्यत आह--उपचारादिति। हिंसकत्वगुणयोगाल्लाक्षणिक इत्यर्थः।

तत्त्व-बोधिनी
व्यन्त्सपत्ने ९५४, ४।१।१४५

व्यन्स्यादिति। भ्रातुरपत्यं यदि शत्रुदस्तदा भ्रातृशब्दाव्द्यन्नेव स्यान्न तु व्याच्छौ इत्यर्थः। समुदायेनेति। तद्धटितप्रत्यये शत्रुरूपेऽपत्ये वाच्य इत्यर्थः। यत्तु वृत्तिकृतोक्तम्--"अपत्यार्थोऽत्र नास्त्येवे"ति, तदुपेक्ष्यं, भाष्यविरोधादिति मनसि निधायाह--पाप्मनेति। श्रुतिहतभ्रातृव्यशब्दस्य गतिं वदति--उपचारादिति। "अस्त्रि पङ्कं पुमान्पाप्मा पापं किल्विषकल्मष "मित्यमरः। न हि पापं भ्रातुरपत्यं भवतीतत्यतो भाक्त एवायं प्रयोग इति भावः।