पूर्वम्: ४।१।१४५
अनन्तरम्: ४।१।१४७
 
सूत्रम्
रेवत्यादिभ्यष्ठक्॥ ४।१।१४६
काशिका-वृत्तिः
रेवत्यादिभ्यष् ठक् ४।१।१४६

रेवती इत्येवम् आदिभ्यो ऽपत्ये ठक् प्रत्ययो भवति। यथा योगं ढगादीनाम् अपवादः। रैवतिकः। आश्वपालिकः। रेवती। अश्वपाली। मणीपाली। द्वारपाली। वृकवञ्चिन्। वृकग्राह। कर्णग्राह। दण्डग्राह। कुक्कुटाक्ष।
लघु-सिद्धान्त-कौमुदी
रेवत्यादिभ्यष्ठक् १०२९, ४।१।१४६

न्यासः
रेवत्यादिभ्यष्टक्। , ४।१।१४६

"यथायोगम्" इत्यादि। तत्राद्यानां चतुर्णां स्त्रीप्रत्ययान्तत्वाद् ढकोऽपवादः; वृकञ्चिन्-- इत्यस्याणः, शेषाणामकरान्तत्वादिञः॥
बाल-मनोरमा
रेवत्यादिभ्यष्ठक् ११५३, ४।१।१४६

रेवत्यादिभ्यष्ठक्। "अपत्ये" इति शेषः। ढगाद्यपवादः।

तत्त्व-बोधिनी
रेवत्यादिभ्यष्ठक् ९५५, ४।१।१४६

रेवत्या।रेवती, अ()आपाली, मणिपाली, द्वारपाली---इत्यादि। ठस्येकः। "अङ्गस्ये"त्यनुवर्तनादाहर---अङ्गात्परस्येति। "अङ्गा"दिति ठकारविशेषणादठचष्ठकारस्य न भवति। कर्मठः।