पूर्वम्: ४।१।१८
अनन्तरम्: ४।१।२०
 
सूत्रम्
कौरव्यमाण्डूकाभ्यां च॥ ४।१।१९
काशिका-वृत्तिः
कौरव्यमाण्डूकाभ्यां च ४।१।१९

कौरव्य माण्डूक इत्येताभ्यां स्त्रियां ष्फः प्रत्ययो भवति। कुर्वादिभ्यो ण्ये कृते, ढक् च म्ण्डूकात् ४।१।११९ इत्यणि च। यथाक्रमं टाब्ङीपोरपवादः। कौरव्यायणी। माण्डूकायनी। कथं कौरवी सेना? तस्य इदं विवक्षायाम् अणि कृते भविष्यति। कौरव्यमाण्डूकयोरासुरेरुपसङ्ख्यानम्। आसुरायणी। शैषिकेष्वर्थेषु इञ्श्च ४।२।१११ इत्यणि प्राप्ते छप्रत्यय इष्यते। आसुरीयः कल्पः।
न्यासः
कौरव्यमाण्डूकाभ्याञ्च। , ४।१।१९

"कथं कौरवी"इति। कौरव्यशब्दादेवात्र हीब्विहित इति मन्यमानस्य प्रश्नः। कुरुशब्दादेवात्राणन्तान्ङीब्विहित इति दर्शयन्नाह--"तस्येदम्" इत्यादि। "कौरव्यमाण्डूकयोः" इत्यादि। कौरव्यमाण्डूकयोरनेन सूत्रेण यत्कार्यं विधीयते तस्यासुरेरप्युपसंख्यानम् = प्रतिपादनं कत्र्तव्यम्। आसुरेरपि ष्फः प्रतिपादयितव्य इति यावत्। तत्रेदं प्रतिपादनम्-- चकारोऽत्र क्रियते,स चानुक्तसमुच्चयार्थः तेनासुरिशब्दादपि ष्फो भविष्यतीति। "आसुरायणी"इति। असुरस्यापत्यमिति "अत इञ्" ४।१।९५ , तदन्तात् ष्फः। "इञश्चेत्यणि प्राप्ते" इति। तत्र "प्रस्थोत्तरपदपलद्यादिकोपदादण्" ४।२।१०९ नेति योगविभागः कत्र्तव्यः, तेनासुरिशब्दादपि प्रतिषिद्धे "वृद्धाच्छः" ४।२।११३ इति छ एव भविष्यति-- आसुरिणा प्रोक्त आसुरीयः कल्प इति॥
बाल-मनोरमा
कौरव्यमाण्डूकाभ्यां च ४७०, ४।१।१९

कौरव्यमाण्डूकाभ्यां च। आभ्यामिति। कौरव्यमाण्डूकाभ्यामित्यर्थः। क्रमेणेति। कौरव्यशब्दाट्टापो माण्डूकशब्दान्ङीषस्चापवाद इत्यर्थः।छ कौरव्यशब्दस्य यञन्तत्वान्माण्डूकशब्दस्य अणन्तत्वाच्च "ङीपोऽपवाद" इत्युचितमिति भ्रमं वारयितुमाह--कुर्वादिभ्य इत्यादिना। कौरव्यायणीति। कुरोरपत्यं स्त्रीति विग्रहः। "कुर्वादिभ्यो ण्यः" इति ण्यः। णकार इत्, "ओर्गुणः," "आदिवृद्धिः, "गोत्रं च चरणैः सहे"ति जातित्वेऽपि योपधत्वात् "जातेरस्त्रीविषया"दिति ङीषभावे टाप् प्राप्तः। तं बाधित्वा ष्फः, ष इत्, आयन्, "यस्येति चे"त्यकारलोपः। षित्त्वान्ङीष्। "यस्येति चे"ति भावः। माण्डूकायनीति। मण्डूको नाम ऋषिः, तस्यापत्यं स्त्रीति विग्रहः। "ढक् च मण्डूका"दित्यण्, आदिवृद्धिः, "यस्येति च," "गोत्रं च चरणैः सहे"ति जातित्वान्ङीष् प्राप्तः, तं बाधित्वा ष्फः, ष इत्, आयन्, "यस्येति च," षित्त्वान्ङीष्, "यस्येति चे"ति भावः। "टाब्ङीपोरपवाद" इति पाठस्तु प्रामादिकः।

आसुरेरुपसङ्ख्यानमिति। "ष्फस्ये"ति शेषः। आसुरायणीति। असुरस्यापत्यं स्त्रीति विग्रहः। "अत इञ्", आदिवृद्धिः, ष्फः, ष इत्ायन्। "यस्येति च"। "षित्त्वान्ङीष्, "यस्येति च"। णत्वमिति भावः।

तत्त्व-बोधिनी
कौरव्यमाण्डूकाभ्यां च ४२४, ४।१।१९

कौरव्य। टाम्ङीषोरिति योपधत्वेन "जाति"रिति तथापि तत्र "ङी"बिति लेखकपर्माद एव। पारिभाषिकस्य पौत्रपर्भृतिगोत्रस्यैव जातित्वान्ङीषः प्राप्तिर्नेति मतान्तराभि प्रायेण वा तथोक्तमिति बोध्यम्। कौरव्यसाहचर्यान्माण्डूकशब्दोऽप्यपत्यपत्र्ययान्त एवेह गृह्रते न तु "तस्येद"मित्यणन्तः, तेन "यद्यसौ कूपमाण्डूकि। तवैकावतिकः स्मय"इति भट्टिप्रयोगः सिद्धः। तत्र हि मण्डूकस्येयं भार्येति विवक्षया "तस्येद"मित्यण्।