पूर्वम्: ४।१।१९
अनन्तरम्: ४।१।२१
 
सूत्रम्
वयसि प्रथमे॥ ४।१।२०
काशिका-वृत्तिः
वयसि प्रथमे ४।१।२०

कालकृतशसीरावस्था यौवनादिः वयः। प्रथमे वयसि यत् प्रातिपदिकं श्रुत्या वर्तते ततः स्त्रियां ङीप् प्रत्ययो भवति। कुमारी। किशोरी। बर्करी। प्रथमे इति किन्? स्थविरा। वृद्धा। अतः इत्येव, शिशुः। वयस्यचरम इति वक्तव्यम्। वधूटी। चिरण्टी। द्वितीयवयोवचनावेतौ। प्राप्तयौवना स्त्री अभिधीयते। कथं कन्या? कन्यायाः कनीन च ४।१।११६ इति ज्ञापकात्। उत्तानशया, लोहितपादिका इति? नैताः वयःश्रुतयः।
लघु-सिद्धान्त-कौमुदी
वयसि प्रथमे १२५९, ४।१।२०

प्रथमवयोवाचिनोऽदन्तात् स्त्रियां ङीप्स्यात्। कुमारी॥
न्यासः
वयसि प्रथमे। , ४।१।२०

"यौवनादिः" इति। आदिशब्दो वृद्धत्वाद्युपसंग्रहार्थं इति। "श्रुत्या वत्र्तते" इति। यत् प्रातिपदिकं श्रवणमात्रेणैव प्रकरणाद्यनपेक्षं प्रथमं वयः प्रत्याययति तदत्र श्रुत्या वत्र्तते। "कुमारी" इति। ननु च नायं कुमारीशब्दः प्रथमे वयसि वत्र्तते, क्व तर्हि? पुंयोगाभावे, तथा हि वृद्धायामपि हि प्रयुज्यते-- वृद्धा कुमारीति? नैतदस्ति;कुमारीशब्दो हि प्रथम एव वयसि रूढः। यस्तु वृद्धायामपि तस्य प्रयोगस्तत्र कुमारीसाधम्र्यात्, न तु पुंयोगाभावात्। भवति हि ताद्धम्र्यात् ताच्छब्द्यम्, यथा --#ऋ- गौर्वाहीक इति। "वयस्यचरमे" इति। अचरमे = अनन्त्ये ङीब्भवतीत्येतदर्थरूपमस्य सूत्रस्य व्याख्यानमित्यर्थः। तेत्रेदं व्याख्यानम्-- प्रथमवयोग्रहणमिहाचरमस्य वयस उपलक्षणम्, तेनान्यत्राप्यचरमे वयसि ङीब्भवतीति। किं पुनः कारणं प्रथम एव वयसि गृह्रमाणे न सिध्यति, येनैवं सूत्रार्थो व्याख्येयः? इत्याह-- "द्वितीयवयोवचनावेतौ" इत्यादि। इह केचिच्चत्वारि वयांसीच्छन्ति --कौमार यौवन मध्यत्व वृद्धत्वानि। तथा चाहुः-- "प्रथमे वयसि नाधीतं द्वितीये नार्जितं धनम्। तृतीये न तपस्तप्तं चतुर्थं किं करिष्यति॥ इति। अन्ये त्रीणीच्छन्ति--कौमारयौवनस्थाविराणि। तथा चाहुः-- पिता रक्षतिकौमारे भत्र्ता रक्षति यौवने, पुत्रस्तु स्थाविरे भावे न स्त्री स्वातन्त्र्यमर्हति॥इति। केचिद्बाल्यमध्यत्ववृद्धत्वानीति त्रीणीच्छन्ति।तथा चाहुः-- आषोडशाद्भवेद्बालो यावत् क्षीरान्नवत्र्तकः। मध्यमः सप्ततिर्यावत् परतो वृद्ध उच्यते॥ इति। एतेषु सर्वेषु यौवनं द्वितीयं वयो भवति। ननु प्रथमवयोवचनौ तु वधूटीचिरण्टीशब्दावित्यतो न प्राप्नोति, तस्मादचरमस्य वयस इहोपलक्षणं प्रथमं वय इति व्याख्येयमिति केचित्। यस्तु मन्यते "केचित्तु द्वे एव वयसी इच्छन्तीति, यावत्यो बुद्धिमत्योऽवस्थास्ताः सर्वा राशीकृत्य प्रथमं वयो व्यवस्थाप्यते, यास्त्वपचयवत्योऽवस्थास्ताः सर्वा राशीकृत्य द्वितीयं वयः। तथा चोक्तम्-- "वद्र्धते यावदन्नेन तावद्वर्धितव्यं पश्चदपायेन योक्ष्यते"इति,एतदेव दर्शनमाश्रित्यैतत् सूत्रं प्रणीतम्। इति। तेन वधूटी, चिरण्टीत्यत्रापि ङीब्भवतीति तेन द्वितीयवयोवचनावेतौ। प्राप्तयौवना स्त्र्यभिधीयत इत्यस्य ग्रन्थस्याविरोधाय यतितव्यम्। न ह्रस्मिन्दर्शने यौवनं द्वितीये वयस्यन्तर्भवति;यौवनावस्था वृद्धिमतीत्वात्। अथ कथमुत्तानशयालोहितपादिकेति, यावता बाल्यमत्र गम्यते, बालैव ह्रुत्तानशया लोहितपादिका भवति, तस्माद्भवितव्यमेव ङीपेत्यत आह-- "नैता वयः श्रुतयः" इति। नैते वयोवचनाः शब्दा इत्यर्थः। इह तावदुत्तानशयेति प्रातिपदिकश्रवणमात्रेण क्रियाकारकसम्बन्धमात्रं प्रतीयते-- उत्ताना शेत इत्युत्तानशया। "हरतेरनुद्यमनेऽच्" ३।२।९ इत्यतोऽज्ग्रहणेऽनुवत्र्तमाने "अधिकरणे शेतेः" ३।२।१५ इत्यत्रोत्तानादिषु कर्त्तुष्वित्युपसंख्यानादच्,"स्त्रियाः पुंवत्"६।३।३३ इति पुंवद्भावः। सर्वैवोत्ताना शेते, उच्यते चेदमुत्तानशयेति;तत्र नियमो गम्यते। अन्यथा शायितुमसामथ्र्यादुत्तानैव या सेते सोत्तानशयेति गम्येति। अवगतेऽप्यस्मिन्नियमे सन्देह एव-- किमसौ बाला? वृद्धा वा? इति। वृद्धाऽपि हि कदाचिदन्यथा शयितुमशक्ता स्यात्, उत्तानैव च शेते। तस्माद्यदोत्तानैव शेत इति नियमप्रतीतिर्भवति, वृद्धत्वाभावश्च कुतश्चितप्रकरणादेरवसितो भवति, तदा बाल्यं गम्यते। "लोहितपादिका"इति। अत्रापि लोहितौ पादावस्या इत्यन्यपदार्थमात्रं तावत् तच्छब्दात् प्रतीयते। यदा तु प्रकरणादिना स्वभावत एवास्या रक्तौ पादौ नालक्तकरसादिनेति प्रतीतिर्भवति तदा बालेति गम्यते। इतिशब्दः प्रकारार्थः। एवम्प्रकारा नैता वयः श्रुतय इत्यर्थः। कथं बाला, वत्सेति? अजादित्वाट्टाब्भविष्यति। ननु वचनसामथ्र्यादनेन ङीबपि प्राप्नोति? नैतदस्ति;तस्यान्यत्र कुमारी, किशोरीत्यादौ चरितार्थत्वात्॥
बाल-मनोरमा
वयसि प्रथमे ४७२, ४।१।२०

वयसि प्रथमे। प्राणिनां कालकृतावस्ताविशेषो वयः। तच्च कौमारं यौवनं वार्धकं चेति त्रिधा। "पिता रक्षति कौमारे भर्ता रक्षति यौवने। पुत्रस्तु स्थाविरे भावे न स्त्री स्वातन्त्रयमर्हति॥" इति दर्शनात्। चतुर्विधं वय इत्यन्ये। "आद्ये वयसि नाधीतं द्वितीये नार्जितं धनम्। तृतीये न तपस्तप्तं चतुर्थे किं करिष्यति॥" इति दर्शनात्। "प्रथमे वयसी"त्यनन्तरं "विद्यमाना"दिति शेषः। "अजाद्यतष्टाप्" इत्यतोऽत इत्यनुवृत्तेन प्रातिपदिकादित्यधिकृतं विसेष्यते। तदन्तविधिः। स्त्रियामित्यधिकृतम्। "ऋन्नेभ्यः" इत्यतो ङीबित्यनुवर्तते। तदाह--प्रथमवयोवाचिन इत्यादिना। कुमारीति। अप्रादुर्भूतयौवनेत्यर्थः। वृद्धकुमारीति तु वृद्धायामेव कुमारीत्वारोपाद्बोध्यः।

वयस्यचरम इति। चरमम्न्त्यं वयः, तद्भिन्नम् अचरमं। प्रथमे इत्यपनीय अचरमे इति वक्तव्यमित्यर्थः। किमर्थमित्यत आह--वधूटी चिरण्टीति। अनयोर्द्वितीयवयोवाचित्वादप्राप्तिरिति भावः। अनयोर्द्वितीयवयसि अप्रसिद्धत्वादाह--यावनवाचिनाविति। भाष्यप्रामाण्यादिति भावः। शिशुरिति। शिशुशब्दस्य प्रथमवयोवाचित्वेऽपि अदन्तत्वाऽभावान्न ङीबिति भावः। कन्याया नेति। "ङी"बिति शेषः। कुत इत्यत आह--कन्यायाः कनीन चेति। नच "द्विवर्षा स्त्री"त्यादावपि ङीप् शङ्क्यः, शालादावपि प्रयोगसत्त्वेन द्विवर्षेत्यादेः प्रथमयोवाचित्वाऽभावात्, पदान्तरसमभिव्याहारप्रकरणादि अनपेक्ष्या यो वयोवाची तस्यैव विवक्षितत्वात्।

तत्त्व-बोधिनी
वयसि प्रथमे ४२५, ४।१।२०

वयसि। कालकृता शरीरावस्था वयः। यस्त्वर्थपर्करणादिकमनपेक्ष्य श्रवणमात्रेण वयः पर्तिपादयति स वयोवाचीत्युच्यते, अन्तरङ्गत्वात्। तेनेह न,--उत्तानशया। लोहितपादा। इह प्रकरणादिना वयसः प्रतीतावपि शब्दादप्रतीतेः। अवलाऽपि हि व्याध्यादिवशादुताना शेते, अलक्तकेन च रक्तचरणा भवति। प्रथमेति किम्()। वृद्धा। कुमारीति। पर्थमवयोवचन एवाऽयं शब्दो न त्वनूढत्वप्रयुक्तः। पुंस्यपि "कुमार"इति प्रयोगात्। "वृद्धकुमारी"ति तु गौणः प्रयोगः।

वयस्यचरम इति वाच्यम्। वयस्यचरम इति। यौवनं न प्रथमवयः, किंतु द्वितीयमिति वार्तिकारम्भः। "उपचयापचयलक्षणे द्वे एव वयसी" इति पक्षे यौवनस्यापि प्राथम्यात्सूत्रेणैव सिध्यतीत बोध्यम्। वयांसि चत्वारीत्येके। यदाहुः--"अद्ये वयसि नाधीतं द्वितीये नार्जितं धनम्। तृतीये न तपस्तप्तं चतुर्थे किं करिष्यसि"()॥ इति। त्रीणीत्यन्ये। यदाहुः--"पिता रक्षति कौमारे भर्ता रक्षति यौवने। पुत्रस्तु स्थावीरे भावे न स्त्री स्वातन्त्र्यमर्हति॥"इति।