पूर्वम्: ४।१।२१
अनन्तरम्: ४।१।२३
 
सूत्रम्
अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि॥ ४।१।२२
काशिका-वृत्तिः
अपरिमाणबिस्ताऽचितकम्बल्येभ्यो न तद्धितलुकि ४।१।२२

पूर्वेण ङीप् प्राप्तः प्रतिषिध्यते। अपरिमाणान्तात् द्विगोः बिस्ताऽचितकम्बल्यान्ताच् च तद्धितलुकि सति ङीप् प्रत्ययो न भवति। बस्तादीनां परिमाणार्थं ग्रहणम्। सर्वतो मानं परिमाणम्। अपरिमाणान्तात् तावत् पञ्चभिरश्वैः क्रीता पञ्चाश्वा। दशाश्वा। कालः च सङ्ख्या न परिमाणम्। द्विवर्षा त्रिवर्षा। द्वाभ्यां शताभ्यां क्रीता द्विशता। त्रिशता। बिस्तादिभ्यः द्विबस्ता। त्रिबस्ता। द्व्याचिता। त्र्याचिता। द्विकम्बल्या। त्रिकम्बल्या। अपरिमाण इति किम्? द्व्याढकी। त्र्याढकी। तद्धितलुकि इति किम्? समाहारे पञ्चाश्वी। दशाश्वी।
न्यासः
अपरिमाणविस्ताचितकम्बल्येभ्यो न तद्धितलुकि। , ४।१।२२

"तद्धितलुकि सति"इति। एतेन "तद्धितलुकि" इत्येषा विषयसप्तमीति दर्शयति। परसप्तमीत्येषानोपपद्यते;लुकोऽभावरूपत्वात्, अभावे च पौर्वापर्याभावात्। "सर्वतो मानं परिमाणम्" इति। परिशब्दः सर्वतो भावे। सर्वत आरोहतः परिणाहतश्च मीयते = परिच्छद्यते येन तत्परिमाणम्- प्रस्थादिः। "पञ्चा()आआ" इति। तद्धितार्थे द्विगुः, "तेन क्रीतम्" ५।१।३६ इत्यार्हीयष्ठक्, "अध्यर्थपूर्वाद्द्विगोर्लुक्"५।१।२८। "कालः संख्या च न परिमाणम्" इति। न हि ताभ्यामारोहतः परिणाहतश्च मीयते। ज्ञापकाच्च न तयोः परिमाणत्वमवसीयते। यदयं "परिमाणान्तस्यासंज्ञाशाणयोः" ७।३।१७ इति सिद्धायामुत्तरपदवृद्धौ "संख्यायाः संवत्सरसंख्यस्य च"७।३।१५ इति संख्यासंवत्सरग्रहणं करोति, तज्ज्ञापयति--कालः संख्या च न परिमाणं भवतीति। विस्तादि च परिमाणविशेष एव ग्रहीतव्यः। अतो वृत्तिग्रन्थः-- परिमाणार्थं ग्रहणमिति। काण्डस्य वा परिमाणत्वे तूत्तरसूत्रेण नियमार्थता न विरुध्यते। यद्येवं "कालाः परिमाणिना" (२।२।५) इत्यत्र सामथ्र्यात् परिमाणवचनाः कालशब्दाः समस्यन्त इति यदुक्तं तद्विरुध्यते? नास्ति विरोधः; उपचारेण तथान्यत्र परिमाणिवाचिना सुबन्तेनाभिधानात्। इह हि मुख्यं कालस्य परिमाणत्वे निषिध्यते। तत्र ह्रौपचारिकं कालस्य परिमाणत्वमाश्रित्य परिमाणवचनाः कालशब्दा इत्युक्तम्-- कालाः परिमाणनेति ब्राउवता। परिमाणवचनत्वं कालशब्दानामुपयुक्तं भवति,न हि तेन विना परिमाणापेक्षयोत्तरपदस्य परिमाणिव्यपदेश उपपद्यते। न च कालस्य मुख्यं परिमाणत्वमस्ति। अतः सामथ्र्यादौपचारिकं परिमाणत्वमाश्रितमिति गम्यते। उपचारस्य हेतुः परिच्छेदस्य हेतुत्वमात्रम्, परिमाणस्य साधम्र्यम्। कालो हि मासादिर्जातादिसमबन्धिनीमादित्यगतिं गमयतीति भवति परिच्छेदस्य हेतुः। अतः परिमाणसाधम्र्यादुपपद्यते, तत्र च परिमाणोपचारः। "द्विवर्षा, त्रिविर्षा" इति। द्वे वर्षे भूतेति "समधीष्टो भृतो भूतो भावी" ५।१।७९ इत्यनेन विहितस्य ठकः "वर्षाल्लुक्" ५।१।८७इति लुक् पाक्षिकः। चित्तवत्त्वे तु प्रत्ययार्थस्य विवक्षिते "चित्तवति नित्यम्" ५।१।८८ इति नित्यमेव लुक्। द्वे वर्षे प्रमाणमस्या इति "प्रमाणे लो द्विगोर्नित्यम्" (वा।५५८,५५९) इति नित्यमेव लुक्। "द्विशता, त्रिशता" इति। द्वाभ्यां शताभ्यां क्रीतेति "पणपादमाषसशताद्यत्" ५।१।३४) इति यति प्राप्ते "शाणाद्वा" (५।१।३५) इत्यत्रोपसंख्यानम्-- "शताच्चेति वक्तव्यम्"(वा। ५१०) इति। तेन शतसशब्दात् पक्षे "संख्याया अतिशदन्तायाः कन्" ५।१।२२ इति कन्,तस्य पूर्ववल्लुक्। "द्विविस्ता"इति। द्वौ बिस्तौ पचति। "सम्भवत्यवहरति पचति" ५।१।५१ इत्यनेनार्हीयष्ठक्, तस्य पूर्ववल्लुक्। द्वावाचितौ पचति "द्व्याचिता"। "आढकाचितपात्रात्सखोऽन्यतरस्याम्" ५।१।५२ इति वत्र्तमाने "द्विगोः ष्ठंश्च" ५।१।५३ इति ष्ठन्, तस्य पूर्वल्लुक्। द्वाभ्यां कम्बल्याभ्यां क्रीता "द्विकम्बल्या"। "तेन क्रीतम्" ५।१।३६ इति ठक्,तद्वदेव। लुक्। "द्व्याढकी" इति। द्वावाढकौ पचति। "आढकाचितपात्रात्खोऽन्यतरस्याम्" ५।१।५२ इति वत्र्तमाने "द्विगोः ष्ठंश्च" ५।१।५३ इतिपक्षे ष्ठन्, तस्या लुक्। "पञ्चा()आई" इति। पूर्ववत् समाहारे द्विगुः। इहेमौ द्वौप्रतिषेधावुच्येते, तत्रैकः शक्यमकर्त्तुम्। कथम्? एवं सूत्रन्यासः करिष्यते-- परिमाणान्तातद्धितलुकीति। पूर्वेणैव सिद्धे नियमार्थमेतत्-- परिमाणान्तादेव तद्धितलुकि ङीब्भवति, नान्यस्मात्। तेन द्व्याढकीत्यादावेव भवति, न पञ्चा()ओत्यादौ;ततो विस्ताचितकम्बल्येभ्यो न तद्धितलुकीत्यनुवत्र्तते,बिस्तादिभ्यः परिमाणेभ्योऽपि तद्धितलुकि ङीब्न भवतीति? नैवं शक्यम्; विपरीतोऽपि नियमः सम्भाव्येत--परिमाणान्तात् तद्धितलुक्येवन भवति, नान्यत्रेति। ततश्च द्वयोः कुडवयोः समाहारो द्विकुडवीत्त्र न स्यात्। तस्माद्यथान्यासमेवास्तु॥
बाल-मनोरमा
अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि ४७४, ४।१।२२

तदाह-अपरिमाणान्तादित्यादिना। अपरिमाणान्तमुदाहरति-पञ्चभिरिति। तद्धितलुकं दर्शयति-आर्हीयष्ठक्, अध्यर्धेति लुगिति। पञ्चभिर()औः क्रीतेति विग्रहे "तद्धितार्थ" इति द्विगुः। "आर्हादगोपुच्छसङ्ख्यापरिमाणाट्ठ"गित्यधिकारे "तेन क्रीत"मिति ठक्, "अध्यर्धपूर्वाद्द्विगोर्लुगसंज्ञाया"मिति तस्य लुक्। अत्र "द्विगोः" इति ङीप् न भवति, अपरिमाणान्तद्विगुत्वात्। नन्वत्र "द्विगो"रिति प्राप्तङीब्निषेधेऽपि "टिड्ढाण"ञिति ठग्निमित्तको ङीब् दुर्वारः। द्वाभ्यां शताभ्यां क्रीता द्विशतेत्यत्र "सङ्ख्याया अतिशदन्तायाः" इति कनः "अध्यर्धे"ति लुकि "अपरिमाणे"ति निषेधस्य चरितार्थत्वादिति चेत्सत्यम्, "टिड्ढाण"ञित्यत्र प्रत्यासत्त्या टिड्ढाणञादीनां यो।ञकारस्तदन्तमिति विवक्षितम्। पञ्चा()आशब्दश्चायं ठगवयवाकारान्तो न भवतीति न दोषः। नच प्रत्ययलक्षणेन ठगवयवाकारान्तत्वं शङ्क्यं, वर्णाश्रये प्रत्ययलक्षणाऽभावात्। विस्तादिशब्दानां तु परिमाणविशेषवाचित्वात् "अपरिमाणे"त्यनेनाऽप्राप्तेः पृथगुपादानम्। द्वौ बिस्ताविति। "सुवर्णबिस्तौ हेम्नोऽक्षे" इत्यमरः। "गुञ्जाः पञ्च-आद्यमाषकः। ते षोडश अक्ष इति च। गुञ्जापञ्चकं माषपरिम#आणम्। माषषोडशकम् अक्षपरिमाणम्, तच्च अशीतिगुञ्जात्मकम् तस्मिन् हेमविषये अक्षपरिमाणे सुवर्णबिस्तशब्दावित्यर्थः। द्वौ बिस्तौ पचतीति विग्रहे "तद्धितार्थ" इति द्विगुः। "सम्भवत्यवहरतिपचती"ति ठक्, तस्य "अध्यर्धे" ति लुक्। "द्विगो"रिति ङीपि प्रितषिद्धे सति टापि-"द्विबिस्ता मूषा"। द्विबिस्त परिमाणकहिरण्यं द्वावयतीत्यर्थः। पचिरिह द्रावणे द्रष्टव्यः। द्व्याचितेति। "आचितो दश भाराः" इत्यमरः। "तुला स्त्रियां पलशतं भारः स्यादिं()वशतिः पुमा"निति च। द्वावाचितौ वहतीत्यर्थे "आढकाचिढपात्रात्खोऽन्यतरस्याम्"द्विगोष्ठं श्च" इति खठनोरभावे प्राग्वतीयष्ठञ्। "अध्यर्धे"ति तस्य लुक्। अनेन "द्विगोः" इति ङीपि निषिद्धे टापि-"द्व्याचिता शकटी"। द्विकम्बल्येति। कम्बलस्य प्रकृतिभूतं द्रव्यं कम्बल्यम् ऊर्णापलशतं। "तदर्थं विकृतेः प्रकृतौ" इत्यर्थे "कम्बलाच्च संज्ञाया"मिति यत्। द्वाभ्यां कम्बल्याब्यां क्रीतेति विग्रहे "तेन क्रीत"मिति ठञः "अध्यर्द्धे"ति लुक्, "द्विगो"रिति ङीपि अनेन प्रतिषिध्दे टाप्। नन्वत्र। "न तद्दितलुकी"त्येवास्तु। तावतैव पञ्चभिर()औः क्रीता पञ्चा()ओति सिद्धेः "अपरिमाणे"ति मास्तु। एवंच द्विबिस्ता द्व्याचिता द्विकम्बल्येत्यपि सिद्धे विस्तादिग्रहणमपि मास्त्वित्यत आह--परिमाणान्तात्त्विति। "गुञ्जाः पञ्च तु माषः स्यात्ते सुवर्णस्तु षोडश। पलं सुवर्णाश्चत्वारः पञ्च वापि प्रकीर्तितम्॥ पलद्वयं तु प्रसृतं द्विगुणं कुडवं मतम्। चतुर्भिः कुडवैः प्रस्थः प्रस्थाश्चत्वार आढकः॥" इति स्मृतिः। द्वावाढकौ पचतीति विग्रहे "आढकाचितपात्रात्खोऽन्यतरस्यां""द्विगोष्ठंश्चे"ति खठनोरभावे प्राग्वतीयष्ठञ्। "अध्यर्धे"ति लुक्। "द्विगोः" इति ङीप्। द्व्याढकीति रूपम्। "न तद्धितलुकी"त्येवावत्येवोक्तेऽत्रापि ङीपो निषेधः स्यात्। अतोऽपरिमाणान्न तद्धितलुकीति वक्तव्यम्। तावत्युक्ते द्विबिस्तेत्यादौ परिमाणत्वान्ङीब्निषेधो न स्यात्। अतो बिस्तादिग्रहणमपीति।

तत्त्व-बोधिनी
अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि ४२७, ४।१।२२

पञ्चा()ओति। नन्वत्र "द्विगो"रिति ङीब्माभूत्, ठगन्तत्वात्तु स्यादेव। न च "अपरिमाणे"ति निषेधस्यनिरवकाशतेति वाच्यम्, पञ्चानामजानां निमित्तं धनपतिसंयुक्तिः "पञ्चाजा" "पञ्चोष्ट्रे"त्यादौसावकाशत्वात्। तत्र हि "गोद्द्यचोऽसङ्ख्ये"ति यत्प्रत्ययस्य "अध्यर्धपूर्वे"त्यादिना लुगिति चेदत्राहुः--"ठको योऽकार" इति व्याख्यानाट्ठगन्तलक्षणो ङीब्नेति। द्विबिस्तेति। "सुवर्णबिस्तौ हेम्नोऽक्षे"इत्यमरः। "आचितो दश भाराः स्युः"। द्विकम्बल्येति। द्वाभ्यां कम्बल्याभ्यां क्रीता। कम्बल्यम्---ऊर्णापलशतम्। "कम्बलाच्च संज्ञाया"मिति यत्। ततः क्रीतार्थस्य ठञो लुक्। ह्रढकीति। द्वावाढकौ पचतीति विग्रहे "आढकाचितपात्रात्खोऽन्यतरस्याम्", "द्विगोष्ठंश्चे"ति खठनौ विहितौ, ताभ्यां मुक्ते प्राग्वतीयष्ठञ्। तस्य "अध्यर्द्धे"ति लुक्। एतेन "द्द्याचिता"व्याख्याता। स्यादेतत्---"काण्डान्ता"दित्युत्तरसूत्रे "परितः सर्वतो येन मीयते तत्--परिमाणमाढककुडवादि, न तु परिच्छेदकमात्र"मिति मनोरमायां स्थितम्। तथा चाऽपरिमाणत्वादेव सिद्धे बिस्तादिग्रहणमिह व्यर्थं स्यात्। अत्राहुः--"उन्मानस्य निषेदे बिस्तादीनामेवे"ति नियमार्तं तद्ग्रहणं, तेन "द्विकार्षापणी""द्द्यक्षी"त्यादी सिध्यतीति।