पूर्वम्: ४।१।२
अनन्तरम्: ४।१।४
 
सूत्रम्
स्त्रियाम्॥ ४।१।३
काशिका-वृत्तिः
स्त्रियाम् ४।१।३

अधिकारो ऽयम्। यदिति ऊर्ध्वम् अनुक्रमिष्यामः स्त्रियाम् इत्येवं तद् वेदितव्यम्। ङ्याप्प्रातिपदिकात् ४।१।१ इति सर्वाधिकारे ऽपि प्रातिपदिकमात्रम् अत्र प्रकरणे सम्बध्यते, ण्यापोरनेन एव विधानात्। स्त्रियाम् इत्युच्यते। केयं स्त्री नाम? सामान्यविशेषाः स्त्रीत्वादयो गोत्वादय इव बहुप्रकारा व्यक्तयः। क्वचिदाश्रयविशेषाभावातुपदेशव्यङ्गया एव भवन्ति, यथा ब्राह्मणत्वादयः। स्त्रीत्वं च प्रत्ययार्थः। प्रकृत्यर्थविशेषणं च इत्युभयथा अपि प्रयुज्यते, स्त्रियाम् अभिधेयायां स्त्रियां वा यत् प्रातिपदिकं वर्तते इति। वक्ष्यति
लघु-सिद्धान्त-कौमुदी
स्त्रियाम् १२५१, ४।१।३

अधिकारोऽयम्। समर्थानामिति यावत्॥
न्यासः
स्त्रियाम्। , ४।१।३

"ङ्यापोरनेनैव विधानात्" इति। एतेन "स्त्रियाम्" इत्यधिकृत्य प्रत्ययविधौ ह्राबन्तायाः प्रकृतेरभावमाह। एष च "प्रातिपदिकमात्रमत्र प्रकरणे सम्बध्यते" इत्यत्र हेतुः। यदि हि ङ्याबन्ता प्रकृतिरिह प्रकरणे सम्भवेत् ततो ङ्यापावपि सम्बध्येयातानाम्, सा ङ्याब्राऊपा न सम्भवति, अतो न ताविह सम्बध्येते। इह च स्त्रीत्वं प्रत्याचार्याणां दर्शनभेदः, क्वचिच्च दर्शने दोषो दृश्यते। तत्र केषाञ्चिद्दर्शनम्-- "स्तनकशवती स्त्री स्याल्लोमशः पुरुषः स्मृतः। उभयोरन्तरं यच्च तदभावे नपुसंकम्॥ इति। "स्तनकेशवती" इति, भूम्न्यतिशायने वा मतुप्। "लोमशः" इत्यत्रापि लोमादिपामादिसूत्रेण ५।२।९९ शप्रत्ययः। "उभयोरन्तरम्" इति, उभयोः स्त्रीपुंसयोः सदृशमित्यर्थः। तत्पुनः सादृश्यं लिङ्गवत्वेन। एवं तर्हि तदुभयं समुदितं यत्र तन्नपुंसकं प्राप्नोति। भवति हि समुदायरूपं समुदायिरूपेण लिङिगत्वेन सदृशमित्यत आह-- "तदभावे" इति। एतदुभयं यत्र नास्ति तत् "नपुंसकम्" इति। तेन न सम्भवत्येष दोषः। यदि तदभावे नपुंसकमित्येतदुच्यते, ततोऽव्ययानां तिङन्तानाञ्चैव नपुंसकत्वं स्यात्। तथाप्युभयोरन्तरं यदित्येतावदुच्यते, एवमपि कुक्कुटमयूर्यौ इत्येवमादीनां लिङ्गसमुदायमतां समुदायानां नपुंसकत्वं प्रसज्येत। तस्मादुभयोरन्तरं यत् तदभाव इति च द्वयमप्युक्तम्। तदेवं यन्न स्त्री न पुमान् लिङ्गवच्च वस्तु तन्नपुंसकमित्युच्यते, ततोऽव्ययानां तिङन्तानाचञ्च नपुंसकत्वं न भवतीत्युक्तं भवति। अत्र दर्शने भ्रृकुंसे च टाप् प्रसज्यते, तसय् हि स्तनकेशसम्बन्ध उपलभ्यते। भ्रृकुंसः स्त्रीवेशधारी नर्तकः, पुरुष उच्यते। खट्वादीनाञ्च स्तनकेशाभावात् स्त्रीत्वं न स्यात्, वृक्षादीनाञ्च लोमशत्वाभावात् कुंस्त्वाभावः प्राप्नोति, खरकुट()आदीनाञ्च लोमशत्वात् पुंस्त्वम्, ततश्च खरकुटीः पश्येति "तस्माच्छसो नः पुंसि" ६।१।९९ इति नत्वमापद्येत। अन्येषां तु दर्शनम्-- संस्त्यानम्, प्रसवः, स्थितिश्चेति। संस्त्यानम्-- अपचयस्वभावं स्त्रीत्वम्, तद्यत्रास्ति सोऽर्थः स्त्री। प्रसवः = उपचयात्मकः पुंस्त्वम्, तद्यत्रास्ति स पुमान्। उपचयापचयरहिता याऽवस्था तदात्मिका स्थितिर्नपुंसकत्वम्, तद्यत्रास्ति तन्नपुंसकमिति। अत्रापि दर्शने संस्त्यानादेस्त्रयस्य सर्वत्र भावादेकैकं वस्तु स्त्री, पुमान्, नपुंसकञ्च प्रसज्येत। संस्त्यानविवक्ष्यायामेव स्त्रीत्वं भवति, प्रसवविवक्षायामेव पुंस्त्वम्, स्थितिविवक्षायामेव नपुंसकत्वम्, अतोऽयमदोष इति चेत्? अयुक्तमेतत्; तथा हि-- उपचीयते कुमारीत्यपि कुमारी स्त्री भवति, न पुमान्। अपचीयते वृक्ष इति संस्त्यानविवक्षायामपि वृक्षः पुमानेव भवति, न स्त्री। #उपचीयते कुण्डमपचीयते वेत्युपचयापचययोरन्यतरविवक्षायामपि कुण्डं नपुंसकमेव भवति, न पुमान् नापि स्त्री। तदेवमाचार्याणां स्त्रीत्वं प्रति दर्शनभेदाद्दोषदर्शनाच्च पृच्छति-- "स्त्रियामित्युच्यते,केयं स्त्री" इत्यादि। वृत्तिकारस्तु विदिताभिप्रायो दर्शनान्तरमाश्रित्याह-- "सामान्यविशेषाः" इत्यादि। सामान्यानि विशेषाश्चेति। तथा सामान्यानि च तानि तुल्यजातीपदार्थसाधारणत्वाद्विशेषाश्च परस्परतो विजातीयेभ्यश्च विशिष्यन्ते = व्यावत्र्यन्त इति सामान्यविशेषाः। "स्त्रीत्वादयो गोत्वादय इव" इति। यथैव हि गोत्वादयः सामान्यविशेषा भिन्नेष्व पि स्वाश्रयेष्वभिन्नाकारबुद्ध्यभिधानहेतवस्तथा स्त्रीत्वादयोऽपि। यथैव हि गोत्वादयस्तुल्यजातीयेषु सर्वेषु वत्र्तन्ते, विजातीयेभ्यस्तु व्यावत्र्तन्ते, तथा स्त्रीत्वादयोऽपि। तस्मात् तद्वदेव तेऽपि सामान्यविशेषाः। ननु च सामान्यविशेषणां सर्वव्यक्त्यनुगतत्वादस्मिन्नपि दर्शने स एव सर्वत्र सर्वलिङ्गताप्रसङ्गः, तत्किमिति दर्शनान्तरमुत्सृज्येदं दर्शनमाश्रितमित्याह--"बहुहप्रकारा व्यक्तयः"इति। व्यजन्त आभिरिति व्यक्तव्यः--- सामान्यविशेषाणामाश्रयाः। बहुप्रकारा व्यक्तयो येषां सामान्यविशेषाणां ते तथोक्ताः। अनेनैतत् सूचयति-- विचित्रत्वात् सामान्यविशेषाश्रयाणां व्यञ्जकानां कश्चिदेव सामान्यविशेषः केनचिदेवाश्रयेण व्यज्यते, न सर्वः सर्वेण। प्रतिनियतविषयत्वात् पदार्थशक्तीनाम्। तत्र येनार्थेन स्त्रीत्वमेव व्यज्यते न पुंस्त्वं नापि नपुंसकत्वम्, सा स्त्र्येव भवति, न पुमान्, नापि नपुंसकम्, येन पुंस्त्वमेव व्यज्यते स पुमानेव, येन नपुंसकत्वं तन्नपुंसकमेव। यस्तु द्वयोस्त्रयाणां वा व्यञ्जकः स द्विलिङ्गस्त्रिलिङ्गो वेष्यते-- अर्धर्चः, अर्धर्चम्; पद्मः, पद्मम्; तटः, कटी,तटमिति। तेन नास्मिन् दर्शने पूर्वदोषावसरः। यस्तर्हि सामान्यविशेषस्याश्रयो व्यञ्जको न भवति स कथं तद्योगात् स्त्री भवति? पुमान् नपुंसकञ्चेति?अत आह--क्वचित्" इत्यादि। आशात्माकाशादिषु हि सामान्यविशेषाः स्त्रीत्वादयः क्वचिदुपदेशमात्रव्यङ्ग्या एव, न त्वाश्रयव्यङ्ग्याः, तदाश्रयाणामतीन्द्रियत्वात्। तत्र यस्मिन्नुपदेशेन स्त्रीत्वं व्यज्यते सा स्त्री भवति, यथा -- इयमाशेति। यत्र पुंस्त्वं स पुमान्, यथा--अयमात्मेति। यत्र नपुंसकत्वं तन्नपुंसकमेव, यथा--- इदमाकाशमिति। कथं स्त्रीत्वादयः क्वचिदुपदेशमात्रव्यङ्ग्या भवन्तीत्याह-- "यथा" इत्यादि। ब्राआहृणत्वक्षत्रियत्वादीनां हि तथाविध आश्रयो नास्ति यस्तान्यभिव्यञ्जयेत्; सामान्यविशेषाश्रयाणामाशात्माकाशादीनमतीन्द्रियत्वात्। तदाश्रयणामन्यत्र सादृश्यादुपदेशमात्रादेव तु ब्राआहृणत्वादीनामभिव्यक्तिर्भवति। यथा च तेषां तथा च क्वचित् स्त्रीत्वादीनाम्। किं पुनरिदं स्त्रीत्वम्? प्रत्ययार्थः? उत प्रातिपदिकविशेषणम्? इत्याह-- "स्त्रीत्वञ्च" इत्यादि। यदा स्त्रीशब्दो विनाऽपि भावप्रत्ययेन स्त्रीत्वे वत्र्तते तदा स्त्रियामभिधेयायां टाबादयो भवन्तीति स्त्रीत्वं प्रत्ययार्थो भवति। यथैव हि गोशब्दो जातिपदार्थपक्षे भावप्रत्ययरहितोऽपि गोत्वे वत्र्तते तथा स्त्रीशब्दोऽपि स्त्रीत्वे। यदा तु स्त्रीत्वं विशेषणमुपादाय तद्वति द्रव्ये स्त्रीशब्दोऽपि वत्र्तते तदायं पक्षोऽपि भवति-- स्त्रियां यत् प्रातिपदिकं वत्र्तते तस्माट्टाबादय इति स्त्रीत्वं प्रकृतेर्विशेषणं भवति। "उभयथाऽपि युज्यते" इति। कथं पुनरुभयथा युज्यते, यावता स्त्रीत्वस्य प्रत्ययार्थत्वे स्त्रीत्वं प्रधानमापद्यत इति तत्र व्यतिरेकलक्षणा षष्ठी प्राप्नोति, यथा--स्त्रीत्वं देवदत्ताया इति, ततश्च कुमारी देवदत्तेति सामानाधिकरण्यं न स्यात्? द्विवचने बहुवचने च कुमार्यौ कुमार्य इति न स्याताम्, एकत्वात् स्त्रीत्वस्य? अनेकश्च प्रत्ययो नोपपद्यते गार्गायणी, कारीषगन्ध्या,कालितरेति;एकत्वात् स्त्रीत्वस्य, तस्य च प्रथमोत्पन्नेनैव ष्फष्यङादिनाभिहितत्वात्? स्त्रीति च ईकारो न प्राप्नोति संस्त्याने "{स्त्री इत्येव मुद्रितदशपाद्युणादिसूत्रपाठे दृष्यते} स्त्यायतेर्ड्रट्" (पं।उ।४।१६५) इति ड्रट्प्रत्ययान्तेनाभिधीयते, यतो व्यतिरेकलक्षणा षष्ठी स्यात्। कस्मात् न हि सामान्यविशेषाणामाश्रयाद्भेदः स्त्रीप्रत्ययान्तेनाभिधीयते, यतो व्यतिरेकलक्षणा षष्ठी स्यात्। कस्मात् पुनर्नाभिधीयते? शब्दशक्तिस्वाभाव्यात्। द्विवचनबहुवचने अपि चोपपद्यते; यस्मात् सामान्यविशेषाणामेकत्वेऽपुनर्नाभिधीयते? शब्दशक्तिस्वाभाव्यात्। द्विवचनबहुवचने अपि चोपपद्येते; यस्मात् सामान्यविशेषणामेकत्वेऽप्याश्रयसंख्यास्तद्वाचिन उपाददते, शब्दशक्तिस्वाभाव्यादेव। तेनाश्रयस्यानेकत्वात् द्विवचनबहुवचने भविष्यतः। गाग्र्यायणीत्येवमादौ द्वाभ्यामेव स्त्रीप्रत्ययाभ्यां स्त्रीत्वं व्यज्यते। नैकेन ष्यङादिनेत्यनेकोऽपि प्रत्ययो युक्त एव। अथ वा-- गाग्र्यायणीत्यत्र "प्राचां ष्फ तद्धितः" ४।१।१७) इति विहितस्य ष्फस्य षित्करणसामथ्र्यात् ङीष् प्रत्ययो भविष्यति। "कारीषगन्ध्या" इति। ष्यङन्तात् "यङश्चाप्" ४।१।७४ इति वचनसमाथ्र्यादच्चाब्भविष्यति। "कालितरा" इति। जानपदादि ४।१।४२ सूत्रविहितेन ङीषा स्त्रीत्वमप्रकर्षविशिष्टमुक्तम्, न तु प्रकर्षविशिष्टम्, अतस्तस्यानभिहितत्वात् तरवन्तात् टाब्भविष्यति। स्त्रीति "स्त्रियाम्"४।१।३ इति निर्देशाल्लिङ्गाट्टित्करणसामथ्र्याद्वा ङीब्भविष्यति। प्रकृत्यर्थविशेषणपक्षे तु प्रातिपदिकेन स्त्रीत्वविशिष्टं द्रव्यमेवोच्यते, टाबादयस्तु द्योतका इति। तत्र व्यतिरेकाभावात् षष्ठ()आ अप्रसङ्गादेव द्विवचनबहुवचने अपि। अनेकत्वाद्द्रव्यस्य युक्तेऽनेकोऽपि प्रत्ययो युक्त एव। यथैव हि प्रातिपदिकेनोक्तेऽपि स्त्रीत्वे खट्वेत्यादौ टाबादयो भवन्ति, तथा गाग्र्यायणीत्यादावनेकेऽपि ष्फादयो भवन्ति। अनेनैव स्त्रीत्वस्य द्योतितत्वादिति युक्तमुक्तम्-- "उभयथापि युज्यते" इति॥
बाल-मनोरमा
स्त्रियाम् ४४७, ४।१।३

अथ स्त्रीप्रत्ययाः। तदेवं "ङ्याप्प्रातिपदिका"दित्यधिकृत्य "स्वौजसमौ"डिति सूत्रं सप्रपञ्चं निरूप्य तदुत्तरम-नुक्रान्तान्स्त्रीप्रत्ययान्निरूपयितुमाह-स्त्रियाम्। अधिकारोऽयमिति। "अजाद्यतष्टाबित्याद्युत्तरसूत्रेष्वनुवृत्त्यर्थमिदं सूत्रं, नतु स्वतन्त्रविधिरित्यर्थः। कियत्पर्यन्तमयमधिकार इत्यत आह--समर्थेति। "याव"दित्यवधौ। "समर्थानां प्रथमा"-दित्यतः प्रागित्यर्थः। अत्रेदमवधेयम्। "स्तनकेशवती स्त्री स्याल्लोमशः पुरुषः स्मृतः। उभयोरन्तरं यच्च तद भावे नपुंसकम्।" इति लक्षणलक्षितमवयवसंस्थानविशेषात्मकं लौकिकं स्त्रीपुंसयोर्लिङ्गम्। तदभावे=तयोरुभयोरभावे सति, यदुभयोरन्तरं=सदृशं तन्नपुंसकमित्यर्थः। तदिदं लौकिकं लिङ्गमस्मिन् शास्त्रे नोपयुज्यते, तस्याऽचेतने खट्वामालादौ बाधात्स्त्रीप्रत्ययानापत्तेः। दारानित्यादौ "तस्माच्छसो नः पुंसी"ति नत्वानापत्तेश्च। किंतु सत्त्वरजस्तमसां प्राकृतगुणानां वृद्धिः--पुंस्त्वम्, अपचयः--स्त्रीत्वम्, स्थितिमात्रं नपुंसकत्वम्। अत एव ऊत्कार्षापकर्षंसत्वेऽपि स्थितिमात्रमादाय "सामान्ये नपुंसक"मिति प्रवादः। उत्कर्षाऽपकर्षसाम्यात्मकावस्थात्रयसाधारणस्थितिमात्रविवक्षायां नपुंसकं भवतीति तदर्थः। ईदृशमवस्थात्रयं केवलान्वयि। "अयं पदार्थः," "इयं व्यक्तिः", "इदं वस्तु" इति व्यवहारस्य सार्वत्रिकत्वात्। तच्चेदं लिङ्गमर्थनिष्ठमेव। तदुक्तं भाष्ये--"एकार्थे शब्दान्यत्वाद्दृष्टं लिङ्गान्यत्वमवयवान्यत्वाच्चे"ति। एकस्मिन्नेवार्थे "पुष्यः" "तारका" "नक्षत्र"मिति शब्दनानात्वदर्शनात्, कुटीकुटीरादौ रेफाद्यवयवोपजनने लिङ्गभेददर्शनाच्च स्तनकेशाद्यतिरिक्तमेव लिङ्गमित्यर्थ इति कैयटः। "पुलिङ्गः शब्द" इत्यादिव्यवहारस्तु वाच्यवाचकयोरभेदोपचारद्बोध्यः। नच उपचयादिधर्माणां विरुद्धत्वादेकत्र समावेशाऽयोगादेकस्य द्वित्रिलिङ्गताऽनापत्तिरिति वाच्यम्, एकैकस्मिन्वस्तुनि क्षणभेदेन त्रयाणां धर्माणामपि समावेशोपपत्तेः। उक्तंच भाष्ये-"कश्चिदपि सत्त्वादिधर्म क्वचिन्मुहुर्तमपि नावतिष्ठते, यावदनेन वर्द्धितव्यमपायेन वा युज्यते" इति नचैवं सति युगपद्द्वित्रिलिङ्गत्वानापत्तिरिति वाच्यम्, नहि व्यवहारे स्वसमकालिकपदार्थसत्ता प्रयोजिका। तथा सति भूतभविष्यद्व्यवहारोच्छेदापातात्। तत्र कश्चिच्छब्द एकलिङ्गविशिष्ट एवार्थे प्रयोज्यः, कश्चित्तु द्विलिङ्गे, कश्चित्तु त्रिलिङ्गे इत्येतत्तु लिङ्गानुशासनशास्त्रादवगन्तव्यम्। एषां पुंस्त्रीनपुंसकशब्दानां वृद्ध्यादिशब्दवदस्मिन् शास्त्रे संकेतश्च लिङ्गानुशासनत एव ज्ञेयः। उक्तं च भाष्ये-अवश्यं तावत्कश्चित्स्वकृतान्त आस्थेयः" इति वैयकरणसिद्धान्त इत्यर्थः। "कृतान्तौ यमसिद्धान्तौ" इत्यमरः। तत्र टिघुभादिसंज्ञावल्लघुसंज्ञामकृत्वा महासंज्ञाकरणसामथ्र्यात्सति संभवे "स्तनकेशवती"त्यादिलौकिकं लिङ्गमप्यत्राश्रीयते। अन्यथा "पशुना यजेते "त्यत्र स्त्रीव्यक्तावपि सत्त्वाद्युपचयात्मकपुंस्त्वाद्यनपायादाङोनाऽस्त्रियामिति नाभावस्याऽविरोधात्स्त्रीपशुरप्यालभ्येत। तदेतच्चतुर्थस्य प्रथमपादे "तथालिङ्ग"मित्यधिकरणे अद्वरमीमांसाकुतूहरवृत्ताववोचाम। त्रिविधमपि एतल्लिङ्गं जातिव्यक्तिवत्प्रातिपदिकार्थ एव। प्रत्ययार्थत्वे प्राधान्यापत्तौ अजा, खट्वा इत्यादौ स्त्रीत्वविशिष्टतादात्म्यावच्छिन्नाऽजादिबोधोऽनुभवसिद्धो विरुध्येत। किंच मातृदुहितृस्वसृगवादिशब्देषु विनापि टाबादिप्रत्ययं स्त्रीत्वविशिष्टार्थस्य बोधात्प्रातिपदिकस्य तत्र शक्त्यावश्यकत्वे टाबादीनामपि शक्तिकल्पने गौरवम्। "ऋकारान्तामातृदुहितृस्वसृयातृननान्दरः, प्रावृड्()विप्रुड()क्तिविषः" इत्याद#इलिङ्गानुशासनसूत्राण्यपि प्रकृतिविषयाण्येव दृश्यन्ते। अत एव च "कृदिकारादक्तिनः" इत्यत्र "अक्तिन" इत्यतदर्थवत्। अन्यथा क्तिनैव स्त्रीत्वस्योक्तत्वान्ङीपोऽप्राप्तेस्तद्वैयथ्र्यं स्पष्टमेव। न चैवमपि प्रकृत्यैव स्त्रीत्वस्योक्तत्वात्कथं टाबादय #इति वाच्यं, द्वावित्यादिवत्प्रकृत्युक्तस्याऽव्यावर्तकत्वात्। अन्यथा टाबादिविधिवैयथ्र्यात्। तथा च स्त्रीत्वमिह प्रातिपदिकस्यैव वाच्यं। टाबादयस्तु तद्द्योतकाः। तथाच टाबादिषु सत्सु अवश्यं स्त्रीत्वबोध इति नियमः, नतु टाबादिषु सत्स्वेवेति नियम इति।