पूर्वम्: ४।१।१
अनन्तरम्: ४।१।३
 
प्रथमावृत्तिः

सूत्रम्॥ स्वौजसमौट्छस्टाभ्याम्भिस्-ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्॥ ४।१।२

पदच्छेदः॥ स्वौ॰सुप् १।१ ङ्याप्प्रातिपदिकात् १।१ प्रत्ययः १।१ ३।१।१ परश्च १।१ ३।१।२

समासः॥

सु च, औ च, जस् च, अम् च, औट् च, शस् च, टा च, भ्यां च, भिस् च, ङे च, भ्यां च, भ्यस् च, ङसि च, भ्यां च, भ्यस् च, ङस् च, ओस् च, आं च, ङि च, ओस् च, सुप् च, स्वौजस्॰सुप्, समाहारः द्वन्द्वः।

अर्थः॥

१। सु, औ, जस्, २। अम्, औट्, शस्, ३। टा, भ्याम्, भिस्, ४। ङे, भ्याम्, भ्यस्, ५। ङसि, भ्याम्, भ्यस्, ६। ङस्, ओस्, आम्, ७। ङि, ओस्, सुप्, इत्येते प्रत्ययाः ङ्याप्प्रातिपदिकात् भवन्ति॥

उदाहरणम्॥

ङीप् - कुमारी कुमार्यौ कुमार्यः। कुमारीम् कुमार्यौ कुमारीः। कुमार्या कुमारीभ्याम् कुमारीभिः। कुमार्यै कुमारीभ्याम् कुमारीभ्यः। कुमार्याः कुमारीभ्याम् कुमारीभ्यः। कुमार्याः कुमार्योः कुमारीणाम्। कुमार्याम् कुमार्योः कुमारीषु। हे कुमारि हे कुमार्यौ हे कुमार्यः॥
ङीप् - गौरी गौर्यौ गौर्यः। एवं सप्तविभक्तिषु रूपाणि कुमारीवत् ज्ञेयानि।
ङीन् - शार्ङ्गरवी, शिष्टं कुमारीवत्
टाप् - खट्वा खट्वे खट्वाः। खट्वाम् खट्वे खट्वाः। खट्वया खट्वाभ्याम् खट्वाभिः। खट्वायै खट्वाभ्याम् खट्वाभ्यः। खट्वायाः खट्वाभ्याम् खट्वाभ्यः। खट्वायाः खट्वयोः खट्वानाम्। खट्वायाम् खट्वयोः खट्वासु। हे खट्वे हे खट्वे हे खट्वाः॥
डाप् - बहुराजा बहुराजे, एवं पूर्ववत् सप्तविभक्तिषु ज्ञेयानि।
चाप् - कारीपगन्ध्या, शिष्टं खट्वावत् ज्ञेयम्।
प्रातिपदिकात् - दृषत्/दृषद् दृषदौ दृषदः। दृषदम् दृषदौ दृषदः। दृषदा दृषद्भ्याम् दृषद्भिः। दृषदे दृषद्भ्याम् दृषद्भ्यः। दृषदः दृषद्भ्याम् दृषद्भ्यः। दृषदः दृषदोः दृषदाम्। दृषदि दृषदोः दृषत्सु। हे दृषत् / हे दृषद् हे दृषदौ हे दृषदः॥
काशिका-वृत्तिः
स्वौजसमौट्छष्टाभ्यांभिस्ङेभ्याम्भ्यस्ङसिभ्यांभ्यस्ङसोसाम्ङ्योस्सुप् ४।१।२

ङ्याप्प्रातिपदिकात् ४।१।१ इत्यधिकृतम्। ङ्याप्प्रातिपदिकात् स्वादयः प्रत्यया भवन्ति। उकारादयो ऽनुबन्धा यथायोगम् उच्चारणविशेषणार्थाः। औटः टकारः सुटिति प्रत्याहारग्रहणार्थः। पकारः सुपिति प्रत्याहारार्थः। सङ्ख्याकर्मादयश्च स्वादीनाम् अर्थाः शास्त्रान्तरेण विहितास् तेन सह अस्य एकवाक्यता। ङ्यन्तात् तावत् कुमारी। गौरी। शार्ङ्गरवी। ङीब्ङीष्ङीनां क्रमेण उदाहरणम्। कुमारी, कुमार्यौ, कुमार्यः। कुमारीम्, कुमार्यौ, कुमारीः। कुमार्या, कुमारीभ्याम्, कुमारीभिः। कुमार्यै, कुमारीभ्याम्, कुमारीभ्यः। कुमार्याः, कुमारीभ्याम्, कुमारीभ्यः। कुमार्याः, कुमार्योः, कुमारीणाम्। कुमार्याम्, कुमार्योः, कुमारीषु। एवं गौरी, शार्ङ्गरवी चोदाहार्ये। आपः खल्वपि खट्वा। बहुराजा। कारीषगन्ध्या। टाब्डाप्चापां क्रमेण उदाहरणम्। खट्वा, खट्वे, खट्वाः। खट्वाम्, खट्वे, खट्वाः। खट्वया, खट्वाभ्याम्, खट्वाभिः। खट्वायै, खट्वाभ्याम्, खट्वाभ्यः। खट्वायाः, खट्वाभ्याम्, खट्वाभ्यः। खट्वायाः खट्वयोः, खट्वानाम्। खट्वायाम्, खट्वयोः, खट्वासु। एवं बहुराजाकारीषगन्ध्ये च उदाहार्ये। एवं प्रातिपदिकात् दृषद्, दृषदौ, दृषदः। दृषदम्, दृषदौ, दृषदः। दृषदा, दृषद्भ्याम्, दृषद्भिः। दृसदे, दृषद्भ्याम्, दृषद्भ्यः। दृषदः, दृषद्भ्याम्, दृषद्भ्यः। दृषदः, दृषदोः, दृषदाम्। दृषदि, दृषदोः, दृषत्सु।
लघु-सिद्धान्त-कौमुदी
स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् ११८, ४।१।२

सु औ जस् इति प्रथमा। अम् औट् शस् इति द्वितीया। टा भ्याम् भिस् इति तृतीया। ङे भ्याम् भ्यस् इति चतुर्थी। ङसि भ्याम् भ्यस् इति पञ्चमी। ङस् ओस् आम् इति षष्ठी। ङि ओस् सुप् इति सप्तमी॥
न्यासः
स्वौजसमौट्छष्टाभ्यांभिस्ङेभ्याम्भ्यस्ङसिभ्याम्ब्यस्ङसोम्ङ्योस्सुप्। , ४।१।२

"उकारादवोऽनुबन्धाः" इत्यादि। तत्र प्रथमैकवचनस्योकार उच्चारणार्थाः। "अनहसौ" (७।१।९३) इति विशेषणार्थः कस्मान्न विज्ञायते? व्यावत्र्याभावात्। जसो जकारोऽसन्दिग्धोच्चारणार्थः, असति हि तस्मिन्नौकारस्यावादेशे कृते सन्देहः स्यात्-- कीदृशस्य प्रत्ययस्योच्चारणमिति, तत्र व्याख्यानं कत्र्तव्यमापद्यते। अथ "जसः शी" (७।१।१७) इत्यत्र विशेषणार्थः कस्मान्न विज्ञायते? "असः शी" (इत्युच्यमानेऽप्यतिप्रसङ्गाभावात्। "औटष्टकारः सुडिति प्रत्याहारग्रहणार्थः" इति। वृत्तौ त्वेष ग्रन्थो नास्ति; भवितव्यं त्वनेन। लेखकप्रमाददोषादिदानीमन्तर्हितः। शसः शकार औटष्टकारस्य "खरि च" ८।४।५४ इति चर्त्वेनासन्दिग्धोच्चारणार्थः। शकारः सन्देहनिरासार्थः, इतरथा ह्रौडसित्युच्यमाने सन्देहः स्यात्-- किं टकारस्येदमुच्चारणम्, उत डकारस्येति?तत्र डकारोच्चारणाट्टिलोपः स्यात्। ननु च सत्यपि शकारे भवितव्यमेव सन्देहेन-- किमिदं कृतचत्र्वस्य डकारस्योच्चरणम्?टकारस्य वेति? नैतदस्ति; यदि हि डकारस्य स्यात्, शकारोच्चारणमनर्थकं स्यात्। अथ "तस्माच्छसो नः पुंसि" ६।१।९९ इति तत्र विशेषणार्थः "टाङसिङसामिनात्स्याः" ७।१।१२ इत्यत्र। "सुपां सुलुक्" ७।१।३९ इत्यादौ सुपां सुलुक् पूर्वसवर्ण आ आत् शे इत्याकारप्रश्लेषः, तत्रासति टकारे तस्यापि ग्रहणं स्यात्। "संख्याकर्मादयश्च" इत्यादि। संख्या स्वादीनामर्थे विहिता "बहुषु बहुवचनम्" १।४।२१ इत्यादिना शास्त्रान्तरेण। कर्मादयश्च "कर्मणि द्वितीया" २।३।२ इत्येवमादिना। "तेन सहास्यैकवाक्यता" इति। कर्मणि बहुत्वे बहुवचनं शस्। कर्मणि द्वित्वैकत्वयोद्विवचने औडमौ। एवमन्यत्राप्येकवाक्यता वेदितव्या। यदि तर्हि तेन सहास्यैकवाक्यता , तदा युक्तं "बहुषु बहुवचनम्" १।४।२१ इत्यत्र -- "यत्र च संख्या सम्भवति तत्रायमुपदेशः, अव्ययेभ्यस्तु निःसंख्येभ्यः सामान्यविहिताः स्वादयो विद्यन्त एव" इति, तद्विरुध्यते, एकवाक्यतायां हि विशिष्ट एवार्थे कर्मादिसम्बन्धिन्येकत्वादौ स्वादीनां विधानात् सामान्यविहितत्वं नोपपद्यते। यदपीदं तत्रोक्तम्- "ङ्याप्प्रातिपदिकात् स्वादयो लस्य तिबादय इति बहुवचनं विहितं तस्यानेन बहुत्वसंख्यावाच्यत्वेन विधीयते" इति, तदपि विरुध्यत एव; न ह्रेकवाक्यतायां विहितस्य बहुवचनस्य पश्चाद्बहुत्वसंख्याय वाच्यत्वेन विधानं युक्तम्। तेन शास्त्रान्तेणानेन च संहत्य बहुत्वसंख्यायामेव बहुवचनविधानात् पूर्वकस्तावन्नास्ति विरोधः। एकवाक्यतायामपि हि यथा स्वादीनां सामान्येन विधानमुपपद्यते तथा "बहुषु बहुवचनम्" १।४।२१ इत्त्रैव प्रतिपादितम्। योऽपि द्वितीयो विरोध उद्भावितः सोऽपि न भवत्येव; ह्राप्प्रातिपदिकात् स्वादयो लस्य तिबादय इति बहुवचनं विहितमिति "बहुषु बहुवचनम्" १।४।२१ इत्यनेन सैहकवाक्यतामापन्नेनेत्ययं तत्राभिप्रायो वेदितव्यः। तस्यानेन सूत्रेण बहुत्वसंख्या वाच्यत्वेन विधीयत इत्यत्रापि स्वादिसूत्रेण ४।१।२ "लस्य" ३।४।७७ इत्यादिना च शास्त्रेण सहैकवाक्यतां प्रतिपन्नेनेत्येषोऽभिप्रायो द्रष्टव्यः। एवञ्च संहत्यैव बहुवचनं विहितम्। संहत्यैव च तस्य बहुतवसंख्या वाच्यत्वेन विधीयत इति कुतो विरोधः; ननु च "बहुवचनम्" १।४।२१ इत्येकमिदं शास्त्रम्, तस्य दि स्वादिसूत्रेणै ४।१।२कवाक्यता, ततो "लस्य" (३।४।७७) इत्यादिना शास्त्रान्तरेण सा नोपपद्यते? अथ तेनैकवाक्यता, स्वादिसूत्रेण (४।१।२) सा नोपपद्यते? नैव दोषः; द्वे ह्रेते वचने तन्त्रोच्चारिते, तत्रैकस्य स्वादिसूत्रेणैकवाक्यता, अपरस्य "लस्य" १।४।२१ इत्यादिना शास्त्रान्तरेण। अथ वा-- अन्यथा विरोधाभावः प्रतिपाद्यते। इह हि स्वादयोऽनेन सूत्रेण "कर्मणि द्वितीया" (२।३।२) इत्येवमादिकं शास्त्रमनपेक्ष्य वा विधीयेरन्? तद्वापेक्ष्य तेन सहैकवाक्यतामापन्ने ते? इति द्वौ पक्षौ। तत्राद्ये पक्षेऽविशेषेणैव स्वादयो विधीयन्त इति, तथा विहितानां तु तेषां नियमः क्रियते-- यत्र संख्या सम्भवति तत्रासौ बहुषु बहुवचनम्" १।४।२१ इत्यादिना शास्त्रान्तरेण कर्मादिसम्बन्ध्येकत्वादिसंख्यावाच्यत्वेन विधीयते, यानि तु निःसख्यान्यव्ययानि तेब्यः सामान्यविहिताः स्वादय सन्तीत्येव। द्वितीये तु पक्षे विशिष्ट एवार्थे कर्मादिसम्बन्धिनि बहुत्वादौ स्वादयो विधीयन्ते। तत्र "बहुषु बहुवचनम्" १।४।२१ इत्याद्यः पक्ष आश्रितः, इह तु द्वितीय इति नास्ति विरोधः; पक्षान्तरमाश्रित्य तथाऽभिधानात्। अथ द्वितीये पक्षे कथमव्ययेभ्यः सुबुत्पत्तिः, न ह्रेकवाक्यतायां संक्याकर्माद्यर्थरहितेभ्यः स्वाद्युत्पत्तिरुपपद्यते? नैष दोषः; ज्ञापकाद्भविष्यति। यदयं "अव्ययादाप्सुपः" २।४।८२ इत्यव्ययादुत्पन्नस्य सुपो लुकं शास्ति, तज्ज्ञापयति-- भवत्यव्ययाद्विभक्त्युत्पत्तिरिति। "कुमारी" इति। "वयसि प्रथमे" ४।१।२० इति ङीप्। "गौरी" इति। "षिद्गौरादिभ्यश्च" ४।१।४१ इति ङीष्। "शाङ्र्गरवी" इति "शाङ्र्गरवाद्यञो ङीन्" ४।१।७३। "खट्वा" इति। "अजाद्यतष्टाप्" ४।१।४ इति टाप्। "बहूराजा" इति। "डाबुभाभ्यामन्यतरस्याम्" ४।१।१३ इति डाप्। "कारीवगन्ध्याः" इति। करीषस्य गन्ध इव गन्धो यस्येति। "गन्धस्येदुत्पूतिसुसुरभिभ्यः" ५।४।१३५ , "उपमानाच्च" ५।४।१३७ इतीत्त्वम्। करीषगन्धेरपत्यमिति "यस्येति च" ६।४।१४८ इत्यकारलोपः,"तद्धितेष्वचामादेः" ७।२।११७ इत्यादि वृद्धिः,"अणिञोरनार्षयोर्गुरुपोत्तमयोः" ४।१।७८ इत्यादिना ष्यङादेशः, "यङश्चाप्" ४।१।७४ इति चाप्॥
बाल-मनोरमा
स्वौजसमौट्?छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् १८२, ४।१।२

स्वैजसमौट्। सु-औ-जस्, अम्-औट्-शस्, टा-भ्यां-भिस्", ङे-भ्यां-भ्यस्, ङसि-भ्यां-भ्यस्, ङस्-ओस्-आम्, ङि-ओस्-सुप्--इत्येकविंशतिः स्वादयः। समाहाद्वन्द्वः, इतरेतरयोगद्वन्द्वो वा। तथा सति सौत्रमेकवचनम्। ङ्याप्प्रातिपदिकादित्यदिकृतं, "प्रत्ययः", "परश्चे"ति च यथायथं च विपरिणम्यते। तदाह--ङ्यन्तादित्यादिना। सुङस्योरिति। सु-ङसि-इत्यनयोरुकारेकारौ, जस्-शस्-इत्यनयोर्जकारशकारौ, औट्-टा--इत्यनयोष्टकारः, ङे-ङसि-ङस्-ङि-इत्येतेषां ङकारः, "सुप्" इत्यस्य पकार इत्येते इत्संज्ञकाः प्रत्येतव्या इत्यर्थः। "उपदेशेऽजनुनासिक इत्, "चुटू", लशक्वतद्धिते", "हलन्त्यम्" इति सूत्रै"रिति शेषः। इत्संज्ञायां च लोपः। तदुच्चारणफलं तु तत्र तत्र वक्ष्यते।

तत्त्व-बोधिनी
स्वौजसमौट्छष्टाभ्याम्भिस्ङेम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् १५१, ४।१।२

स्वौजसमौट्। समाहारे द्वन्द्वः। सुङस्यौरिति। सोरुकारः "अर्वणस्त्रसा"वित्यत्र विशेषणार्थः। "असी"त्युक्ते हि असकारादाक्()त्यिर्थः स्यात्। तथा च "वाजमर्वत्सु" इति न सिध्येत्। ङसेरिकारः "टाङसिङसां"--"ङसिङयोः स्मात्स्मिनौ" इत्येतदर्थः। जश्शसोर्जकारशकारौ "जसः शी" तस्माच्छसौ नः" इत्यनयोर्विषयविभागार्थौ। [ननु] अन्यतरस्य निरनुबन्धकत्वमेवास्त्विति चेत्[न], जाकाराऽभावे "औ"इत्यस्य आव् स्यात्, ततश्च प्रत्ययस्य वकारान्तता संभाव्येत। एवं शसः शकाराऽभावे औटो ङित्त्वं संभाव्येत, तथाच "तेजसी" इत्यादौ टिलोपः स्यात्। अथवा "लिहा"वित्यादौ ङित्त्वसामथ्र्यादभस्यापि टेर्लोपः संभाव्येत। औटष्टकारः "सु"डिति प्रत्याहारार्थः। टाटकारस्तु "टाङसिङसां"--"द्वितीयाटौस्वेनः" इति विशेषणार्थः। एतेन "आदिरन्त्येने"ति सूत्रे काशिकाकारेण यदुक्तम्-"अन्त्येनेति किम्?, "सु"डिति तृतीयैकवचनावयवेन मा भूत्"-इति तत्परास्तम्। औटष्टकारस्यान्यार्थतया तेनैव संभवात्, प्रत्यासत्तेश्च। अतेव शब्दकौस्तुभे तत्रान्यदेव प्रयोजनमुक्तम्--"मध्यमेनेता सहित आदिस्तदुत्तरेषामपि ग्राहको मा भूदित्यन्त्येनेति ग्रहणम्। अन्त्येनेता सहितो मध्यमः पूर्वेषामपि मा भूदित्यादिग्रहणम्"-इति। अमुमेवार्थं मनसि निधाय--"आद्यन्ताभ्यामवयवाभ्यामवयवी समुदाय आक्षिप्यते"--इति निष्कृष्टमुक्तं प्राक्। प्रकृतमनुसरामः--ङेप्रभृतीनां ङकारो "घेर्ङिति" "ङेराम्--" इति विशेषणार्थः। सुपः पकारस्तु प्रत्याहारार्थः।