पूर्वम्: ४।१।३
अनन्तरम्: ४।१।५
 
सूत्रम्
अजाद्यतष्टाप्॥ ४।१।४
काशिका-वृत्तिः
अजाद्यतष् टाप् ४।१।४

अजा। देवदत्ता। स्त्रियाम् इति किम्? अजः। देवदत्तः। अजाद्यतष् टाप् ४।१।४। अजादिभ्यः प्रातिपदिकेभ्यः अकारान्ताच् च प्रातिपदिकात् स्त्रियां टाप् प्रत्ययो भवति। पकारः सामान्यग्रहणार्थः। टकारः सामान्यग्रहणाविघातार्थः। अजा एडका। कोकिला। चटका। अश्वा। खट्वा। देवदत्ता। तपरकरणं तत्कालार्थम्। शुभंयाः। कीलालपाः ब्राह्मणी। हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् ६।१।६६ इति सुलोपः स्यात्। अजादिग्रहणं तु क्वचिज् जातिलक्षणे ङीषि प्राप्ते, क्वचित् तु पुंयोगलक्षणे, क्वचित् तु पुष्पफलौत्तरलक्षणे, क्वचित् तु वयोलक्षणे ङीपि, क्वचिट् टिल्लक्षणे। हलन्तानां तवप्राप्त एव कस्मिंश्चिदाब् विधीयते। शूद्रा च अमहत्पूर्वा जातिः इति पठ्यते। तस्य अयम् अर्थः। शूद्रशब्दष् टापम् उत्पादयति जातिश्चेद् भवति। शूद्रा। पुंयोगे ङीषैव भवितव्यम्। शूद्रस्य भार्या शूद्री। महत्पूर्वस्य प्रतिषेधः। महाशूद्री। महाशूद्रशब्दो ह्याभीरजातिवचनः, तत्र तदन्तविधिना टाप् प्राप्तः प्रतिषिध्यते। ग्रहणवता प्रातिपदिकेन तदन्तविधिर् न इति कथं तदन्तविधिः? एतदेव ज्ञापकं भवति अस्मिन् प्रकरणे तदन्तविधिः इति। तेन अतिधीवरी, अतिपीवरी, अतिभवती, अतिमहती इति भवति। अजा, एडका, चटका, अश्वा, मूसिका इति जातिः। बाला, होढा, पाका, वत्सा, मन्दा, विलाता इति वयः। पूर्वापहाणा, अपरापहाणा। टित्, निपतनाण् णत्वम्। संभस्त्राजीनशणपिण्डेभ्यः फलात्। सम्फला। भस्त्रफला। अजिनफला। शणफला। पिण्डफला। त्रिफला द्विगौ। बहुव्रीहौ त्रिफली संहतिः। सदच्प्राक्काण्डप्रान्तश्तैकेभ्यः पुष्पात्। सत्पुष्पा। प्राक्पुष्पा। कान्डपुष्पा। प्रान्तपुष्पा। शतपुष्पा। एकपुष्पा। पाककर्ण इति ङीषो ऽपवादः। शूद्रा च अमहत्पूर्वा जातिः। क्रुञ्चा, उष्णिहा, देवविशा हलन्ताः। ज्येष्टा, कनिष्ता, मध्यमा पुंयोगः। कोकिला जातिः। मूलान्नञः। अमूला।
लघु-सिद्धान्त-कौमुदी
अजाद्यतष्टाप् १२५२, ४।१।४

अजादीनामकारान्तस्य च वाच्यं यत् स्त्रीत्वं तत्र द्योत्ये टाप् स्यात्। अजा। एडका। अश्वा। चटका। मूषिका। बाला। वत्सा। होडा। मन्दा। विलाता। इत्यादि॥ मेधा। गङ्गा। सर्वा॥
न्यासः
अजाद्यतष्टाप्। , ४।१।४

"अजाद्यतदन्ताच्च"इति। अकारान्तादित्यर्थः। अथ स्वरूपग्रहणं कस्मान्न विज्ञायते? अच्छब्दान्ताच् शरद्दरदित्येवमादेरिति? लिङ्गात्। किं लिङ्गम्? "तदाद्याचिख्यासायाम्" २।४।२१ "यकपूर्वायाः" ७।३।४६ इत्येवमादिनिर्देशात्। स्वरूपग्रहणे हि ते नोपपद्येरन्। "पकारः सामान्यग्रहणार्थः" इति। "ङ्याप्प्रातिपदिकात्" ४।१।१ इत्यत्रासति हि पकारेऽस्य ग्रहणं न स्यात्। "टकारः सामान्यग्रहणाविघातार्थः" (इति)। असति हि टकारे "एकानुबन्धकग्रहणे न द्वय्नुबन्धकस्य" (व्या।प।५२) इतिटापकस्यैव ग्रहणं स्यात्, न डाप्चापोः; द्वयनुबन्धकत्वात्। "शुभंयाः कीलालपाः" इति। "अन्येभ्योथऽपि दृश्यन्ते" ३।२।७५ इतिविच्। किं पुनः स्यात्, यद्यत्रापि टाप्स्यात्? इत्याह-- "हल्ङ्याभ्यः" इत्यादि। "जातिलक्षणे" इति। "जातेरस्त्रीविषयादयोपधात्" ४।१।६३ इति। "पुंयोगलक्षणे" इति। "पुंयोगादाख्यायाम्" ४।१।४८ इति। "पुष्पफलोत्तरपदलक्षणे" इति। "पाककर्णपर्णपुष्पफलमूलवालोत्तरपदाच्च" ४।१।६४ इति। "वयोलक्षणे" इति। "वयसि प्रथमे" ४।१।२० इति। "टिल्लक्षणे" इति। "टिड्ढाणञ्" ४।१।४२ इति। "शूद्रा चामहत्वपूर्वा" इत्यादि। ननु च "आमन्महतः" (६।३।४६) इत्यादिनात्त्वेनात्र भवितव्यम्, अत एवं वक्तव्यम्-- अमहापूर्वेति? नैतदस्ति; अर्थप्रधानस्य हि तदात्त्वमुच्यते, शब्दप्रधानश्चायम्। महच्छब्दः पूर्वो यस्याः सा महत्पूर्वेति। "महत्पूर्वस्य प्रतिषेधः" इति।अहमत्पूर्वेत्यस्यार्थमाचष्टे। अत्रापि जातिरिति सम्बध्यते, जातिवचनस्य प्रतिषेधो यथा स्यात्। इह मा भूत्-- महती शूद्रा महाशूद्रेति। अत् ह्रुत्तरपदं शूद्रशब्दो जातौ वत्र्तते, न समुदायो महतीशूद्रारूपः। कथं पुनर्जातिरित्युच्यमाने मह्त्पूर्वस्य प्राप्तिः,यतः प्रतिषेध उच्यत इत्याह-- "महाशूद्रशब्दो ह्राभीरजातिवचनः" इति। महाशूद्रशब्दल एव हि समुदायो जातौ वत्र्तते। अत एव महाशूद्रीति "जातेरस्त्री" ४।१।६३ इत्यादिना ङीब्भवति। नन्वेवमपि नास्त्येव टापः प्राप्तिः,शूद्रशब्दाद्धि प्रत्यय उत्पद्यमानः कथं महाशूद्रात् प्राप्नोतीत्यत आह--"तत्र तदन्तविधिर्न" इत्यादि। "कथं तदन्तविधिः" इति। न कथञ्चित्। ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधादिति (व्या।प।८९) मन्यते। "अतिधीवरी " इति। "अतिपीवरी" इति। दधातेः पिबतेश्च "आतो मनिन्ववनिष्वनिपश्च" ३।२।७४ इति क्वन#इप्, ईत्वं घुमास्थादिसूत्रेण ६।४।६६। धीवानमतिक्रान्ता, पीवानमतिक्रान्तेति "कुगतिप्रादयः" २।२।१८ इति समासः। अत्र तदन्तविधौ ज्ञापिते सति "वनोरच्" ४।१।७ इति ङीब्राऔ न भवतः। यदि पुनस्तदन्तविधिर्न ज्ञाप्येत तदा "वनः" इति प्रत्ययग्रहणमेतत्, ततश्च प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य च ग्रहणं भवति" (पु।प।वृ।४४) इति वचनादिहैव स्याताम्-- "धीवरी, पीवरीति; अतिधीवरी, अतिपीवरीत्यत्र तु न स्याताम्। "अतिभवती"। अतिमहती" इति। भवतुशब्दः केवल उगित् सर्वादिषु पठ()ते, महदिति गौरादौ, तत्रासत्यस्मिञ्ज्ञापके केवलाभ्यामेव भवन्महच्छब्दाभ्यामुगिद्गौरादिलक्षणौ ङीब्ङीषौ स्याताम्। अतिभवती, अतिमहतीत्यत्र तु न स्याताम्, ज्ञापके तु सति भवतः। यद्येवम्, पञ्चानामजानां समाहारः पञ्चाजीति द्विगोरपि तदन्तविधिना टाप् प्राप्नोति? नैष दोषः; अजादिभिः स्त्रियामिति विशेषयिष्यामः,"अजाद्यतः" ४।१।४ इति हि षष्ठी,तत्रैवमभिसम्बन्धः कत्र्तव्यः-- अजादीनां या स्त्री, अजादिशब्दानां वाच्येऽर्थे यत् स्त्रीत्वं समवायसम्बन्धेन वत्र्तमानम्, तत्र टाबिति। न च पञ्चाजीत्यत्राजाशब्दस्यार्थे वाच्ये स्त्रीत्वं समवेतम्, किं तर्हि? समाहारे वाच्ये। "पूर्वापहाणा। अपरापहाणा। टित्" इति। ल्युडन्तत्वात्।कक "प्राक्पुष्पा" इति। प्राञ्चन्तीति प्राञ्चि, "ऋत्विग्दधृक् ३।२।५९ इत्यादिना क्विन्। प्राञ्चि पुष्पानि यस्याः सा प्राक्पुष्पा॥
बाल-मनोरमा
अजाद्यतष्टाप् ४४८, ४।१।४

अजाद्यतष्टाप्। अजः=अजशब्दः-आदिर्येषां ते अजादयः, ते च अच्चेति समाहारद्वन्द्वात्षष्ठी। "ङ्यात्प्रातिपदिका"दित्यतः प्रातिपदिकादित्यनुवृत्तं षष्ठ()आ विपरिणतम् अजादिभिरता च विशेष्यते। तदन्तविधिः। तत्राऽद्विषये "समासप्रत्ययविधौ तदन्तविधे प्रतिषेधो वक्तव्यः" इति निषेधो न, "उगिद्वर्णग्रहणवर्ज"मित्युक्ते। ङ्याब्ग्रहणं तु नानुवर्तते, "स्त्रिया"मित्यधिकारे तयोर्विधेयत्वात्। नच अजादिभिः प्रातिपदिकस्य विशेषणेऽपि तदन्तविधिर्नास्ति, "समासप्रत्ययविधौ" इति निषेधात्, "ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ती"ति च निषेधादिति वाच्यं, "शूद्रा" चामहत्पूर्वा जाति"रित्यत्र अमहत्पूर्वेति वचनेना।ञत्र तदन्तविधिज्ञापनात्। किंच "स्त्रियां व्यक्तौ" गम्यमानाया"मिति नार्थः। तर्हि अजा खट्वेत्यादौ अजत्वाद्याकरेण वस्तुतः स्त्रीव्यक्तौ गम्यमानायां टाबादिप्रत्ययाः स्युः। ततश्च टाबादिप्रत्ययेषु प्रयुज्यमानेषु स्त्रीत्वस्य भानं न नियतं स्यात्। अतः स्त्रियामिति भावप्रधानो निर्देशः। स्त्रीत्वे इति यावत्। तदाह--अजादीनामित्यादिना। अजाद्यन्तानामित्यर्थः। द्योत्ये इति। उक्तरीत्या स्त्रीत्वस्य प्रातिपदिकार्थत्व#आदिति भावः। उक्तं च भाष्ये-"स्त्रियां यत्प्रातिपदिकं वत्र्तते, तस्माट्टाबादयो भवन्ति स्वार्थे" इति। टाप्स्यादिति। "प्रत्ययः", "परश्चे"त्यधिकृतम्। कस्मात्परो भवतीत्याकाङ्क्षायां संनिधानादजादिभ्योऽदन्ताच्चेति बोध्यम्। नन्वजादिगणे "अज", "अ()आ" इत्याद्यदन्तपाठो व्यर्थः, अदन्तत्वादेव सिद्धेरित्यत आह--अजाद्युक्तिरिति। "वयसि प्रथमे" "जातेरस्त्रीविषया"दित्यादिवक्ष्यमाणस्य ङीपो ङीषश्च अदन्तटाबपवादस्य बाधनार्थमजादिग्रहणमित्यर्थः। एवंच अदन्तटाबपवादौ ङीप्ङीषौ, तयोरप्यजादिटाबपवाद इति फलति। अजशब्दश्छागजातौ वर्तते। अजा छागी तुभच्छागबस्तच्छगलका अजे" इत्यमरः। अजशब्दाट्टाप्, टपावितौ। सवर्णदीर्घः। व्यपदेशिवत्त्वादजान्तत्वम्। अत इति। "उदाहरणं वक्षयते" इति शेषः। खट्वेति। खट काङ्क्षायाम्" "अशू प्रुषिलटिकणिखटिविशिब्यः क्वन्"। खट्वशब्दोऽदन्तः। तस्माट्टापि सवर्णदीर्घः। "शयनं मञ्चपर्यङ्कपल्यङ्काः खट्वया समाः" इत्यमरः। ननु "प्रत्ययः", "परश्चे"त्यनुवृत्तौ दिग्योगपञ्चम्या युक्तत्वादजादिभ्योऽतश्च टाप्स्यात्स्त्रीत्वे द्योत्ये इत्यर्थ एव युक्तः, तथाच "अजाद्यतः" इति षष्ठ()आश्रयणमयुक्तमित्यत आह--अजादिभिरिति। "अजाद्यत" इति षष्ठीमाश्रित्य अजादीनामदन्तस्य च वाच्ये स्त्रीत्वे टाबित्येवमजादिभिः स्त्रीत्वस्य विशेषणादित्यर्थः। पञ्चाजीति। पञ्चानामजानां समाहार इति विग्रहे "तद्धितार्थ" इत्यादिना द्विगुः। " अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः" इति स्त्रीत्वम्। "द्विगोः" इति ङीप्। "यस्येति चे"त्यकारलोपः। नन्वत्र समासेऽजशब्दसत्त्वात्तद्वाच्यमेव स्त्रीत्वमित्यत आह-अत्रेति। हि=यतोऽच्र =पञ्चाजशब्दे समासार्थभूतो यः समाहारस्तन्निष्ठं स्त्रीत्वं पञ्चाजेति समुदायस्य वाच्यं नत्वजशब्दस्य, अतोऽत्र न टाबित्यर्थः। नचोक्तरीत्या तदन्तविधिसत्त्वादजशब्दान्तस्य पञ्चाजेति समासस्य ग्रहणात्तद्वाच्यत्वं स्त्रीत्वस्येति वाच्यं, सत्यपि तदन्तविधावजादीनां श्रुतत्वेन स्त्रीत्वस्य तद्विशेषणताया एव न्याय्यत्वात्। "अजादिभ्यष्टापस्त्रीत्वेद्योत्ये" इति व्याख्याने तु स्त्रीत्वस्य अजादिशब्दवाच्यत्वाऽलाभात्समाहारनिष्ठमपि स्त्रीत्वमादाय टाप्स्यादिति भावः। अथाजादीनुदाहरति--अजेत्यादिना। एडकेति। "मेढ्रोरभ्रोरणोर्णायुमेषवृष्णाय एडके" इत्यमरः। अस्य स्त्रीत्वे कोसान्तरं मृग्यम्। अ()ओति। "वाम्य()आआ वडव#आ" इत्यमरः। चटकेति। चटकः पक्षिजातिविशेषः। अस्य जातिशब्दस्य स्त्रीत्वं मृग्यम्। अमरस्तु "चटकः कलविङ्कः स्यात्तस्य स्त्री चटका" इत्याह। मूषिकेति। "चुचुन्दरी गन्धमूषी दीर्घेदेही तु मूषिका" इत्यमरः। एषु जातीति। अजादिपञ्चसु "जातेरस्त्री"ति ङीष् प्राप्तः स अजादिटापा बाध्यत इत्यर्थः। बालादयः प्रथमवयोवचनाः, तत्र होढादित्रयस्य प्रथमवयोवाचित्वे कोशो मृग्यः। एष्विति। बादिपञ्चसु "वयसि प्रथमे" इति ङीप् प्राप्तः सोऽजादिटापा बाध्यत इत्यर्थः।

सम्भस्त्रेति। "पाककर्णे"ति सूत्रभाष्ये पठितमिदं वार्तिकमर्थतः संगृहीतम्। "सम्" "भस्त्र" "अजिन" "शण" "पिण्ड" एतेभ्य परो यः फलशब्दस्तस्मादपि "पाककर्णे"ति ङीष् न भवति, किंतु टाबेवेत्यर्थः। सम्फलेति। समृद्धानि फलानि यस्या इति विग्रहः। भस्त्रफलेति। भस्त्रेव फलानि यस्या इति विग्रहः। "भस्त्रा चर्मप्रसेविका" इत्यमरः। ननु भस्त्राशब्दस्य नित्यस्त्रीत्वाद्भाषितपुंस्कत्वाऽभावात् "स्त्रियाः पुंव"दिति पुंवत्त्वस्याऽप्रसक्तेः कथं ह्यस्व इत्यत आह--ङ्यापोरिति। "ङ्यापोः संज्ञाच्छन्दसोर्बहुल"मिति ह्यस्व इत्यर्थः। अजिनफला, शणफसा, पिण्डफला-ओषधिविशेषसंज्ञाः।

सदच्काण्ड। अयमपि पाककर्णे"ति सूत्रपठितवार्तिकार्थसङ्ग्रहः। "सत्" "अच्""काण्ड""प्रान्त""शत""एक"--एतेभ्यः परो यः पुष्पशब्दस्तस्तमादपि "पाककर्णे"ति ङीष् न भवति, किन्तु टाबेवेत्यर्थः। सत्पुष्पेति। सन्ति पुष्पाणि यस्या इति विग्रहः। अच इति लुप्तनकारोऽञ्चुधातुर्गृह्रत इत्यभिप्रेत्य उदाहरति--प्रक्पुष्पेति। प्राञ्चिपुष्पाणि यस्या इति विग्रहः। प्रत्यक्पुष्पेति। प्रत्यञ्चि पुष्पाणि यस्या इति विग्रहः। काण्डपुष्पा। प्रान्तपुष्पा। शतपुष्पा। एक पुष्पा।

शूद्रा च। "अजाद्यतः" इति प्रकृतसूत्रे पठितं वार्तिकमेतत्। शूद्रजातिर्वाच्या चेदमहत्पूर्वाः शूद्रशब्दः स्त्रियां टापं लभते। जातिलक्षणङीषोऽपवादः। शूद्रात् स्वभार्यायां विधिनोढायामुत्पन्ना स्त्री शूद्रा। "जाति"रित्यस्य प्रयोजनमाह-पुंयोगे त्विति। शूद्रस्य स्त्रीत्येव पुंयोगात्स्त्रियां वृत्तौ जातिवाचित्वाऽभावान्न टाप् किन्तु "पुंयोगादास्त्र्याया ङीषेवेत्यर्थः। महाशूद्रीति। महती च सा शूद्रा चेति विग्रहः। कर्मधारयः "पुंवत् कर्मधारये"ति पुंवत्त्वम्। अत्र महत्पूर्वत्वान्न टाप्। किन्तु जातिलक्षणङीषेव। "आभीरी तु महाशूद्री जातिपुंयोगयोः समा"इत्यमरः। नृपाच्छूद्रायामुत्पन्ना उग्रा, तस्या ब्राआहृणादुत्पन्नः आभीरः। स्त्री चेदाबीरी। अत्र जातीग्रहणस्य, अमहत्पूर्वग्रहणस्य च प्रयोजनविचारः शब्देन्दुशेखरे भाष्यप्रदीपोद्द्योते च स्फुटः। क्रुञ्चेति। क्रुञ्चशब्दः चकारान्ताः "ऋत्विक"इत्यादिना क्विबन्तः पक्षिजातिविशेषे वर्तते। "यत्क्रोञ्चमिथुनादेकमवधीः काकममोहित"मिति रामायणे। उष्णिह्शब्दो हकारान्तश्छन्दोविशेषे "ऋत्विक्ित्यादिना क्विन्नन्त एव। देवविश्शब्दः शकारान्तः गणविशेषात्मकमरुत्सु वर्तते "मरुतो वै देवानां विशः"इति श्रुतेः। एतेषामदन्तत्वाऽभावादप्राप्ते टापि तद्विधानार्थमजादिषु पाठः।"ङ्याप्प्रातिपदिकात्" इति सूत्रभाष्ये त्वेषां त्रयाणामदन्तत्वमास्थितमिति ""वष्टि भागुरिरल्लोप"मिति श्लोकव्याख्यावसरे प्रपञ्चितमनुपदमेव। ज्येष्ठेति। यदा ज्येष्टादिशब्दाः प्रथमोत्पन्नादौ वर्तन्ते तदाऽदन्तत्वादेव टाप् सिद्धः। यदा तु ज्येष्ठस्य स्त्रीत्यादिविवक्षा तदापि पुंयोगलक्षणं ङीषं बाधित्वा टाबर्थमिह पाठ इत्यर्थः। कोकिलेति। कोकिलशब्दस्य जातावपि जातिलक्षणङीषं बादित्वा टाबर्थमिह पाठ इत्यर्थः। मूलान्नञ इति। "पाककर्णे"ति सूत्रे पठितं वार्तिकमेतत्। नञः परो यो मूलशब्दस्तस्मात् "पाककर्णेति"ङीष् न भवति, किन्तु टाबेवेत्यर्थः। अमूलेति। अविद्यमानं मूलं यस्या इति विग्रहे "नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः"इति बहुव्रीहिः। अत्र "सम्भस्त्रेति,सदच्काण्डेति, मूलान्नञ इति च वार्तिकत्रयं""पाककर्णे"ति सूत्रभाष्यपठितमपि फले विशेषाऽभावादजादिगणे मूवे प्रपञ्चितम्। न चैतान्यजाद्यन्तर्गणसूत्राणीति भ्रमितव्यम्। अजादिराकृतिगणः। तेन "न मु ने" इति सूत्रभाष्ये "टायामादेश" इति भाष्यप्रयोगः सिद्धः। अत एव च पूर्वमीमांसायां द्वितीयस्य प्रथमपादे "स्तुतशस्त्रयोस्तु संस्कारो याज्यावद्देवताभिधानत्वा"दिति स्तुतशस्त्रीधिकरणे "वशावद्वा गुणार्थं स्या"दिति गुणसूत्रव्याख्यावसरे शाबरभाष्यभट्टवार्तिकयोः "छागाय वपाया"इत्यूहानुक्रमणं सङ्गच्छते। अत एव च ब्राहृमीमासायां प्रथमस्य चतुर्थपादे "चमसवदविशेषा"दित्यधिकरणे शाङ्करभाष्यवाचस्पत्ययोरजायां छागेति टाबन्तः प्रयोग उपपन्नः। अन्यथा जातिलक्षणङीष्प्रसङ्गादित्यास्तां तावत्। "ऋन्नेभ्यः" इति सूत्रमजन्तस्त्रीलिङ्गाधिकारे प्रसङ्गाद्व्याख्यातम्, इह तु सूत्रक्रमात्पुनस्तदुपन्यासः।

तत्त्व-बोधिनी
अजाद्यतष्टाप् ४०४, ४।१।४

अजाद्यतः। अजशब्द आदिर्यस्येति बहुव्रीहिः। अच् आदिर्यस्येति तु नाऽर्थः, "ऋची"ति निर्देशात् गणपाठसामथ्र्याच्च। "अ"दिति न स्वरूपग्रहणम्, "सङ्ख्यायं"इति लिङ्गात्, अजादिभ्यः पृथक्पाठसामथ्र्याच्च। इह "ङ्याप्प्रातिपदिका"दित्यधिकारेऽपि ङ्यापौ न संबध्येते, इहैव तयोर्विधेयत्वात्, अपि तु प्रातिपदिकमेव। तच्चाऽकारणे विशेष्यते॥ विशेषेण च तदन्तत्वालाक्भः, तदाह---अजादीनामकारान्तस्य चेति। सूत्रे "अतः"इति षष्ठी। तदर्थश्च वाच्यवाचकभावः। "स्त्रिया"मिति तु धरमप्रधाने निर्देश इत्याशयेनाह---वाच्यं यत्स्त्रीत्वमिति। एतच्च "लिङ्गं प्रातिपदिकार्थ"इति पक्षाभिप्रायेणोक्तम्। "कस्यमाद्भवती"त्याकाङ्क्षायां संनिधानादजादिभ्योऽकारान्ताच्चेति बोध्यम्। "इको यणची"त्यत्र कस्मादचि पर इत्याकाङ्क्षायामिक इति यथा। टापः पकारः स्वरार्थः, "औङ आपः", "आङि चापः", "याडापः", इत्यादौ सामान्यग्रहणार्थश्च। तदविधातार्थष्टकारः। "आ"बित्युक्ते हि तदनुबन्धपरिभाषया "औङ् आपः"इत्यादावयमेव गृह्रते, डाप्चापोस्तु ग्रहणं न स्यात्। नन्वत इत्येव सिद्धे अजादिग्रहणं व्यर्थम्, नच "क्रुञ्चा""उष्णिहा" "देवविशे"त्यादिषु हलन्तत्वादप्राप्ते विध्यर्थं तदिति वाच्यं, तथा सति "क्रुञ्चे"त्यादिरेव गृह्रत, न त्वजादिः। अतो व्याचष्टे--अजाद्युक्तिर्ङीशषो ङीपश्चेति। खट्वेति। "खट काङ्क्षायाम्" "अशूप्रुषिलटिखटिकणिविशिभ्यः क्वन्"। नन्वचेतनानां खट्वादिशब्दानां कथं लिङ्गव्यवस्थेति चेत्। उच्यते--लोकप्रसिद्धं स्तनाद्यवयवसंस्थानविशेषात्मकं लिङ्गं न व्याकरणे आश्रीयते, दारा" नित्यादौ नत्वाऽभावपर्सङ्गाक्, तटस्तटी तटमित्यादौ यथायथं लिङ्गत्रितयनिबन्धनकार्यांणामसिद्धिप्रसङ्गाच्च, किन्तु पारिभाषिकमेव लिङ्गत्रयम्। तच्च केवलान्वयि। "अयमर्थः""इयं व्यक्तिः""इदं वस्त्वि"ति शब्दानां सर्वत्राऽप्रतिबग्धप्रसरत्वात्।तत्र कश्चिच्छब्द एक()स्मल्लिङ्गे शक्तः कश्चिद्द्वयोः वकश्चिश्रिष्विति लिङ्गानुशासनादिभ्यो निर्णेयम्। कुमारब्राआहृणादिशब्दास्तु लौकिकपुंस्त्वविशिष्टे शास्त्रीये पुंस्त्वे शक्ताः, लौकिकस्त्रीत्वविशिष्टे च शास्त्रीयस्त्रीत्वे। कथमन्यथा कुमी कुमार इत्यादयः प्रयोगा व्यवतिष्ठेरन्। "करेणुरिभ्यां स्त्री नेभे"इत्यमरस्याप्।यमेवार्थः। नन्वेवं "पशुने"ति पुंस्त्वं विवक्षितमिति मीमांसकोद्धोषः कथं योज्यः()। पारिभाषिकस्याऽव्यावर्तकतया तद्विवक्षाया अकिञ्चित्करत्वात्। ल#औकिकस्य तु लिङ्गस्य पशिशब्दादप्रतीतेरिति चेत्। अत्राहुः--"छागो वा मन्त्रवर्णा"दिति षष्ठान्त्याधिकरणन्यायेन पुंस्त्वस्य नियमो बोध्यः, छागशब्दस्य लौकिकपुंस्त्वविंशिष्टपारिभाषिके शक्तत्वादिति। तच्च जातित्रयमित्येक। उक्तं च हरिणा---"तिरुआओ जातय एवाताः केषांचित्समवस्थिताः।अविरुद्धा विरुद्धाभिर्गोमनुष्यादिजातिभिः"। भाष्ये तु प्राकारान्तरमुक्तम्---"संस्त्यानप्रसवौ लिङ्गमास्थेयौ स्वकृतान्ततः। संस्त्याने स्त्यायतेर्ड्रट् स्त्री, सूतेः सप् प्रसवे पुमान्॥ उभयोरन्तरं यच्च तदङावे नपुंसकम्॥"इति। अस्यायमर्थः--संस्त्यानं स्त्री, सत्त्वरजस्तमोलक्षणानां गुणानामपचयः। प्रसवो गुणानामुपचयः। स च पुमान्। सूतेर्धातोः सप्--सकारस्य पकारादेश इत्यर्थः। औणादिकोम्सुन्प्रत्ययो ह्यस्वश्च बाहुलकादिति तैयटः। "पूञो डुम्सुन्िति माधवः। तयोरुपचयापचययोरभावे सति यदुभयोरन्तरं=सदृशं तन्नपुंसकं। "नम्राण्नपा"दिति निपातनादिति भावः। तथाऽवस्थितिमात्रं नपुंसकसम्। अत एवाविशब्दाश्च शुक्लादिशब्दवद्धर्मे धर्मिण च वर्तन्ते। स्वकृतान्तत इति। वैयाकरणसिद्धान्तत इत्यर्थः। "कृतान्तौ यमसिद्धान्तौ"इत्यमरः। पञ्चाजीति। पञ्चानामजानां समाहार इत#इ "तद्धितार्थे"त्यादिना द्विगुः। "अकारान्तोत्तरपद"इति स्त्रीत्वे "द्विगो"रिति ङीप्। न चात्र प्रत्ययविधौ तदन्तविधिविरहादेव टापोऽप्रवृत्तौ ङीबेव स्यादिति वाच्यम्, अमहत्पूर्वग्रहणेनानुपसर्जनाधिकरेण च स्त्रीप्रत्ययेषु तदन्तविधिज्ञापनाट्टाप्प्राप्तेः सत्त्वात्। समासार्थसमहारनिष्ठमिति। नन्वजहत्स्वार्थायां वृत्तौ समाहारोऽप्यजाद्यर्थ एवेति चेन्मैवम्। तथापि तस्य पदान्तर समाभिव्याहारपेक्षया बहिरङ्गत्वात्। टाब्विधेस्त्वन्तरङ्गे चरितार्थत्वात्। कथं तर्हि परमाजेति चेत्, प्रागुत्पन्नस्यैव टापस्तत्र श्रवणात्। "अत्यजा"निरजे त्यत्र त्वदन्तत्वप्रयुक्तष्टाबित्यवेहि। नच "पञ्चाजी"त्यत्रापि तथास्त्विति वाच्यं, "द्विगो"रिति ङीपै बाधितत्वात्ष। चटकेति। न चाऽत्र "प्रत्ययस्था"दितीकारः शङ्क्यः, "चटकाया ऐर"गिति लिङ्गादिहैव निपातनाद्वा तदपर्वृत्तेः। एवं च क्षिपकादिषु "चटके"ति पठनं नाऽतीवावश्यकमिति नव्याः। मूषिकेति। "वृश्चिकृषोः किकन्नि"त्यधिकारे "मुषेर्दीर्घश्चे"ति किकनि इकारमध्यो मूषिकाशब्दः। यस्तु "मूष स्तेये"इति दीर्घोपधात्संज्ञायां क्वुनि मूषकशब्दो माधवेनोक्तस्ततोऽप्ययं टाप्। प्रत्ययस्थादितीत्वं तु विशेषः। केचित्तु क्वुन्नन्तोऽसावजादिगणे पाठं न प्रयुङ्केः,गणे तत्पाठस्य जातिलक्षणङीष्वाधनार्थत्वात्संज्ञायाश्चषऽजादिकत्वात्। तथा चादन्तत्वादेव क्वुन्नन्ताट्टप्सिध्यतीत्याहुः। तच्चिन्त्यम्। "व्याघ्री"त्यादिवत्संज्ञातवेऽपि जातित्वानपायात्।

सम्भस्त्राजिनशणपिण्डभ्यः फलात्। भस्त्रेव फलानि यस्या इति विग्रहः। ङ्यापोरिति। एतच्च "फल निष्पत्ता"विती धातौ माधवग्रन्थे स्थितम्। "पाककर्णे"त्यत्र भाष्ये तु दीर्घ एव दृश्यते।

सगच्काण्डप्रान्तशतैकेभ्यः पुष्पात्। सदच्काण्डेति। "सत्प्राक्काण्डे"ति पाठो नादर्तव्य इति ध्वनयुन्नदाहरति---प्रत्यक्पुष्पेति। अत्र नव्याः--"संभस्त्रे"त्यादि वचनद्वयं, "मूलान्नञः"इति वक्ष्यमाणं च "पाककर्णे"त्यनेनपब्राआप्तस्य ङीपो निषेधार्थ तत्रैव सूत्रे भाष्ये पठितमपि फले विशेषाऽभावादिहैव ग्रन्थकारैः पठितम्।न चैतावताऽजाद्यन्तर्गणसूत्राणीति भ्रमः कार्यः, तथात्वे मानाऽभावात्। किन्तु वार्तिकान्येवेमानीत्याहुः।

शूद्रा चाऽमहत्पूर्वा जातिः॥ शूद्रा चेति। शूद्रशब्दष्टापमुपादयति जातिश्चेत्। महत्पूर्वस्तु न। जातिश्चेदितीहपि संबध्यते। तेन महती शूद्रा "महाशूद्रे"ति भवत्येव। पुंयोगेत्विति। पुंयोगश्च दाम्पत्यरूप एवेति न नियमः, किन्तु जन्यजनकभावोऽपि गृह्रते। तथा च स्मृतिः--"वैश्याशूद्योस्तु राजन्यान्माहिष्योग्रौ सुतौ"इति। महीशूद्रीति। "आभीरी तु महाशूद्री जातिपुंयोगयोः सने"त्यमरः। इह "अमहत्पूर्वे"ति व्यर्थं, महाशूद्रशब्दो हि समुदित एवाऽ‌ऽभीरत्वजातौ वर्तते। तत्राऽवयवस्यानर्थकतया शूद्रशब्दार्थसमवेतस्त्रीत्वाऽभावने टापः पर्सक्त्यभावात्। न, तदन्तविधिज्ञापनाय तदिति वाच्यम्, अनुपसर्जनाधिकारेणैव तदन्तविधिज्ञापनादिति दिक्। अत्र नव्याः--"शूद्रा चे"त्यादिवचनम् "अजाद्यत"इसि सूत्रस्थं वार्तिकमेव, नत्विदं गणसूत्रमित्याहुः। क्रुञ्चेत्यादि। त्रयोऽमी हलन्ता इत्येके। भाष्ये तु "क्रुञ्चानालभेत""उष्णिहककुभौ"इत्यादिप्रयोगमुदाह्मत्याऽन्ता अपि स्वीकृताः। पचाद्यचा इगुपधलक्षणेन कप्रत्ययेन च यथासंभमदन्तत्वात्। पुंयोगेऽपीति। यदा ज्येष्ठादयः पर्थमजातादौ वर्तन्ते तदाऽदन्तत्वादेव टाप्सिद्धः। यदा तु ज्येष्ठस्य स्त्रीत्वादिविवक्षा तदा पुंयोगलक्षणो ङीष्प्राप्तः--सोऽप्यनेन बाध्यते इति सूचयितुमपिशब्दः।

मूलान्नञः।मूलान्नञः। नञः किम्(), शतमूली। अमूलेति। ओषधिजातिरियम्।