करणं पूर्वम् अस्मिन्निति करणपूर्वं प्रतिपदिकम्। क्रीतशब्दान्तात् प्रातिपदिकात् करणपूर्वात् स्त्रियां ङीप् प्रत्ययो भवति। वस्त्रेण क्रियते सा वस्त्रक्रीती। वसनक्रीती।
करणपूर्वातिति किम्? सुक्रीता। दुष्क्रीता। इह कस्मान् न भवति,
सा ही तस्य धनक्रीती प्राणेभ्यो ऽपि गरीयसी इति? टाबन्तेन समसः। अतः इति चातुवर्तते। गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः इति बहुलं तदुच्यते, कर्तृकरणे कृता बहुलम्
२।१।३१ इति।
क्रीतान्ताददन्तात् करणादेः स्त्रियां ङीष्स्यात्। वस्त्रक्रीती। क्वचिन्न। धनक्रीता॥
करणं पूर्वं यस्मिन्नित्यादिना करणपूर्वग्रहणं क्रीतग्रहणञ्च उभयमप्येतत्प्रातिपदिकस्य विशेषणमिति दर्शयति। पूर्वशब्दोऽयमवयववचनः। करणमवयवो यस्मिन्नित्यर्थः।
अथ क्रीतशब्दस्यैव करणपूर्वग्रहणं विशेषणं कस्मान्न विज्ञायते? अशक्यत्वात्।
क्रीतशब्दो ह्रवयववाचिनं वा पूर्वशब्दं गृहीत्वा विशेष्येत-- करणं पूर्वस्मिन्निति? व्यवस्थाशब्दं वा-- करणं पूर्वमस्मादिति? तत्र प्रथमः पक्षो न सम्भवति; न ह्रत्र क्रीतशब्दस्य करणवाचिशब्दान्तरमवयव उपपद्यते, द्वितीयस्तु सम्भवति, किन्तु वाक्येऽपि स्यात्-- अ()ओन क्रीतेति, अस्ति ह्रत्र क्रीतशब्दात् करणं पूर्वम्। प्रातिपदिके तु विशेष्यमाणे न भवत्येष दोषः। न ह्र()ओन क्रीतेत्येतत् करणावयवं क्रीतशब्दान्तं प्रातिपदिकम्।
किं तर्हि? वाक्यम्। तस्मात् प्रकृतं प्रातिपदिकं सामान्यमेवावयववाचिना पूर्वशब्देन विशेष्यते। क्रीतशब्देनापि तदेव करणपूर्वं प्रातिपदिकम्। तेन तस्मिन् विशेष्यमाणे सामथ्र्यात् तदन्तविधिः प्रसज्येतेत्याह-- "क्रीतशब्दात् प्रातिपदिकात्" इति। "वस्त्रक्रीती, वसनक्रीती" इति।
अत्र "गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्तेः" (व्या।प।वृ।१३८) इति वस्त्रवसनयोः करणयोः क्रीतशब्देन "कत्र्तकरणे कृता बहुलम्"
२।१।३१ इति प्रागेव सुबुत्पत्तेः समासः।
"सुक्रीता, दुष्क्रीता" इति। गत्युपपदत्वात् प्रागेव सुबुत्पत्तेः "कुगतिप्रादयःर"
२।२।१८ इति समासः। दुष्क्रीतेत्यत्र "इदुदुपधस्य चाप्रत्यय"
८।३।४१ इति षत्वम्।
"टाबन्तेन समासः" इति। सुबन्तयोरेवेति वेदितव्यम्। टापि विहिते कृदन्तताया विहितत्वात्।
अत्र किं टाप् क्रियताम्? उत विभक्तिरिति? अन्तरङ्गत्वाट्टाप्। पश्चाद्बहिरङ्गा विभक्तिरिति विभक्त्यन्तयोः समासः। अन्तरङ्गत्वं बहिरङ्गत्वं तु टाब्विभक्त्योः "ङ्याप्प्रातिपदिकात्"
४।१।१ इत्यत्र प्रतिपादितम्। कृते तर्हि टापि ङीष् कस्मान्न भवतीत्याह-- "अत इति च" इत्यादि। कथं पुनः टाबन्तेन समासः सिध्यति, यावता "गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः" (व्या।प।वृ।१३८) इति प्रागेव कृदन्ततायां समासेन भवितव्यमित्यत आह-- "गतिकारकोपपदानाम्" इत्यादि।
कथं पुनर्बहुलं तदुच्यते? इत्याह-- "कर्त्तृकरणे" इत्यादि। "कर्त्तृकरणे कृता बहुलम्"
२।१।३१ इत्यनेन हि गतिकारकोपपदानां कृद्भिः समासो विधीयते। स च बहुलग्रहणात् क्वचित् कृदन्तावस्थायां प्रागेव सुबुत्पत्तेः, क्वचिदन्यथा। तेन "गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः (व्या।प।वृ।१३८) इति बहुलं तदाचार्यैरुच्यते। ततश्च टाबन्तेनापि क्वचित्समासो लभ्यत इत्यभिप्रायः॥