पूर्वम्: ४।१।६०
अनन्तरम्: ४।१।६२
 
सूत्रम्
वाहः॥ ४।१।६१
काशिका-वृत्तिः
वाहः ४।१।६१

ङीषेव स्वर्यते, न ङीप्। वहेरयं ण्विप्रत्ययान्तस्य निर्देशः। सामार्थ्यात् तदन्तनिधेर् विज्ञानम्। बहन्तात् प्रातिपदिकात् स्त्रियां ङीष् प्रत्ययो भवति। दित्यौही। प्रष्ठौही।
बाल-मनोरमा
वाहः ५०९, ४।१।६१

वाहः। "वाह" इति पञ्चम्यन्तं प्रातिपदिकादित्यनुवृत्तस्य विशेषणं, तदन्तविधिः। तदाह--वाहन्तादिति। ङीषेवानुवर्तत इति। "अन्यतो ङीष् इत्यत" इति शेषः। न ङीबिति। "दिक्पूर्वपदात्" इति पूर्वसूत्रे संनिहितमपि ङीब्ग्रहणमिह नानुवर्तते, अस्वरितत्वादित्यर्थः। स्वरे विशेषः। दित्यौहीति। गवां तावत् षण्मासात्मकमेकैकं वयः। "गर्भाश्च मे वत्साश्च मे" इत्यनुवाके अनुक्रान्तानि वयांसि। तत्र तृतीयं वयो दित्यशब्देनोच्यते, इति यजुर्वेदभाष्ये, भवस्वामिधूर्तस्वाम्यादिकृतकल्पभाष्येषु च स्पष्टम्। दित्यं वहतीति विग्रहे "च्छन्दसि सहः", "वहश्चे"ति ण्विः, उपधावृद्धिः, उपपदसमासः। दित्यवाह्शब्दात् ङीष्। "वाह ऊठ्"। "एत्येधत्यूठ्सु " इति वृद्धिः, दित्यौहीति रूपम्। ण्विप्रत्ययस्य छन्दोमात्रविषयत्वाद्वेदवाक्यमुदाह्मतम्। सोके तु वाहयतेः क्विपि, वाह्शब्दात् ङीषि, दित्यौहीति रूपमस्ति। वैदिकप्रक्रियायामुपन्यसनीयमेप्येतत्सूत्रमेतदर्थमिहोपन्यस्तम्।

तत्त्व-बोधिनी
वाहः ४५९, ४।१।६१

वाहः। ण्विप्रत्ययान्तस्य वहेरनुकरणमिदम्। "वहश्चे"त्यनेन कर्मण्युपपद एव वहेर्ण्विप्रत्ययविधानात्केवलस्य संभवो नास्तीति सामथ्र्यात्तदन्तविधिरित्यभिप्रेत्याह--वाहन्तादिति। न ङीबिति। अस्वरितत्वादिति भावः। दित्यौहीति। ङीषि भसंज्ञायां "वाह ऊठ्", "संप्रसारणाच्च"इति पूर्वरूपम्। "एत्येधत्यूठ्सु"इहि वृद्धिः।