पूर्वम्: ४।१।५९
अनन्तरम्: ४।१।६१
 
सूत्रम्
दिक्पूर्वपदान्ङीप्॥ ४।१।६०
काशिका-वृत्तिः
दिक्पूर्वपदान् ङीप् ४।१।६०

स्वाङ्गाच् च उपसर्जनातित्येवम् आदिविधिप्रतिषेधविषयः सर्वो ऽप्यपेक्ष्यते। यत्र ङीष् विहितस् तत्र तदपवादः। दिक्पूर्वपदात् प्रातिपदिकात् ङीप् प्रत्ययो भवति। स्वरे विशेषः। प्राङ्मुखी, प्राङ्मुखा। प्राङ्नासिकी, प्राङ्नासिका। इह न भवति, प्राग्गुल्फा, प्राक्क्रोडा, प्राग्जघना इति।
न्यासः
दिक्पूर्वपदान्ङीप्। , ४।१।६०

"विधिप्रतिषेध" इत्यादि। विधिविषयः-- स्वाङ्गमुपसर्जनसंयोगोपधत्वम्, नासिकादि च प्रातिपदिकम्। प्रतिषेधविषयः- संयोगोपधञ्च प्रातिपदिकम्, "न क्रोडादिबह्वचः" ४।१।५६ "सहनञ्विद्यमानपूर्वाच्च" ४।१।५७ इति। एतेनैतत् सूचयति-- "स्वाङ्गाच्चोपस्र्जनासंयोगोपधात्" ४।१।५४ इत्यादि विधिशास्त्रमिहानुवत्र्तते, "न क्रोडादिबह्वचः" ४।१।५६ इत्यादि प्रतिषेधशास्त्रम्, तेन यत्र विषये ङीष् विहितस्तत्रैव ङीब्विधेयः। यत्र तु विषये ङीष् प्रतिषिद्धस्तत्र ङीबपि प्रतिषिध्यत इति। "यत्र ङीष् विहितः" इत्यादिना विधि विषयापेक्षयाः फलं दर्शयति। कः पुनर्ङीपो वा विशेषः, यावतोभयत्र तदेव रूपम्? इत्याह-- "स्वरे विशेषः" इति। ङीपो हि पित्त्वादनुदात्तत्वं भवतीति, ङीषस्तु प्रत्ययस्वरेणाद्युदात्तत्वम्। "प्राङमुखी" इति। ऋत्विगादि ३।२।५९ सूत्रेणाञ्चतेः क्विन्, "अनिदिताम्" ६।४।२४ इत्यनुनासिकलोपः, "उगितश्च" ४।१।६ इति ङीप्--प्राची। प्राच्यां दिशि मुखमिति "दिक्शब्देभ्यः सप्तमीपञ्चमी" ५।३।२७ इत्यादिनास्तातिः, "अञ्चेर्लुक्" ५।३।३० इति तस्य लुक्, "लुक् तद्धितलुकि" १।२।४९ इति स्त्रीप्रत्ययस्यापि लुक्, "तद्धितश्चासर्वविभक्तिः" १।१।३७ इत्यव्ययत्वम्, "अव्ययादाप्सुपः" २।४।८२ इति सुपो लुक्--- प्राग् मुखं यस्याः सा प्राङमुखी, "यरोऽनुनासिकेऽनुनासिको वा" ८।४।४४ इति ङकारः। "प्राङ्()मुखा" इति। टाप्। ननु च ङीपा मुक्ते "स्वाङ्गाच्चोपसर्जनात्" (४।१।५४) इति ङीषा भवितव्यम्? नैतदस्ति; आचार्यप्रवृत्तिज्र्ञापयति--यत्रोत्सर्गापवादयोर्विभाषा तत्रापवादेन मुक्त उत्सर्गो न प्रवत्र्तत इति, यदयं "पीलाया वा" ४।१।११८ इति वाग्रहणं करोति। यद्यत्राणा विकल्पितेन मुक्ते "स्त्रीभ्यो ढक्" (४।१।१२०) (इति) ढकारेण भवितव्यं किं वाग्रहणेन? तस्मादस्माद्वाग्रहणादिदं ज्ञाप्यते-- यत्रोत्सर्गोऽपि विभाषा तत्रापवादेन मुक्त उत्सर्गो न प्रवर्तत इति। कथं पुनरुत्सर्गो विभाषा? महाविभाषया। "प्राग्दीव्यतोऽण्" ४।१।८३ इत्यणुत्सर्गः, "स्त्रीभ्यो ढक्" ४।१।१२० इति ढगपवादः; तेन मुक्ते यद्यपि स्यादण्, किं वाग्रहणेन? नेत्येवं ब्राऊयात्, तत्रौत्सर्गिकाणो निवृत्त्यर्थम्। "इह न भवति" इत्यादिना प्रतिषेधापेक्षायाः फलं दर्शयति। "प्राक्क्रोडा, प्राग्जघना" इति। अत्र हि "न क्रोडादिबह्वचः" ४।१।५६ इत्यस्याप्यनुवृत्तेर्ङीष् न भवति। "प्राग्गुल्फा" इति। अत्राप्यसंयोगोपधा ४।१।६३, "वहश्च" ३।२।६४ इति ण्विः, ण्वेः सर्वापहारी लोपः, प्रत्ययलक्षणेन "अत उपधायाः" ७।२।११६ इति वृद्धिः, ङीष्, "वाह ऊठ्" ६।४।१३२ इति संप्रासरणसंज्ञको वकारस्योठ् भवति; "वसोः सम्प्रसारणम्" ६।४।१३१ इत्यतः सम्प्रसारणानुवृत्तेः। ठकारः "एत्येधत्यूठसु" ६।१।८६ इति विशेषणार्थः। "सम्प्रसारणाच्च" ६।१।१०४ इति पररूपत्वम्, "एत्येधत्यूठ्सु" ६।१।८६ इति पूर्वपदाकारेण सैहकादेशो वृद्धिः॥
बाल-मनोरमा
दिक्पूर्वापदान्ङीप् ५०८, ४।१।६०

दिक्पूर्वपदान्ङीप्। दिक्पूर्वपदं यस्येति विग्रहः। स्वाङ्गादित्यनुवर्तते। प्रातिपदिकादिति च।"अन्यतो ङीषि"त्यतो ङीषित्यनुवृत्तं षष्ठ()आ विपरिणम्यते। तदाह--दिक्पूर्वेत्यादिना। प्राङ्मुखीति। प्राक् मुखं यस्या इति विग्रहः। ङीषो ङीब्विधेः फलमाह--आद्युदात्तं पदमिति। ङीपः पित्त्वादनुदात्तत्वे बहुव्रीहिप्रकृतिस्वरेणाद्युदात्तत्वम्। ङीषि तु प्रत्ययस्वरेणान्तोदात्तत्वं स्यादित्यर्थः। नच स्वतन्त्रो ङीबेव विधीयतामिति वाच्यं, तथा सति प्राग्गुल्फेत्यादावपि "असंयोगोपधा"दिति निषेधं बाधित्वा ङीप्प्रसङ्गात्। ङीषो ङीबादेशविधौ तु "स्वाङ्गाच्चोपसर्जनादसंयोगोपधा"दिति विहितङीषो ङीब्विधानान्न दोषः। "असंयोगोपधा"दित्यस्यानुवृत्त्यङ्गीकारे तु प्रतिपत्तिगौरवमिति भावः।

तत्त्व-बोधिनी
दिक्पूर्वपदान्ङीप् ४५८, ४।१।६०

ङीषो ङीबादेश इति। "अन्यतो ङी"षित्यतो ङीषित्यनुवर्तते। "दिक्पूर्वपदा"दिति पञ्चम्या "ङी"षिति प्रथमायाः षष्ठी कल्प्यत इति भावः। यदि तु स्वतत्त्रो ङीप्स्यात्तर्हि "प्राग्गुल्फा" "प्राक्रोडे"त्यत्रापि प्रसज्येत, पूर्वोक्ताऽसंयोगोपधादित्यस्य निषेधानां चानुवृत्तौ प्रतिपत्तिगौरवमिति भावः। [प्राङिति।"निपाता आद्युदात्ताः"इति पूर्वपदे उदात्ते सति "बहुव्रीहौ प्रकृत्या पूर्वपद"मिति पूर्वपदप्रकृतिस्वरे सिद्धे ङीष् प्रत्ययस्वरेणोदात्त इति सेषनिघातः स्यात्, तन्माभूदिति ङीषो ङीबनुदात्तो विधीयत इति प्राङ्गुखीति पदमाद्युदात्तमिति भावः]