पूर्वम्: ४।१।६१
अनन्तरम्: ४।१।६३
 
सूत्रम्
सख्यशिश्वीति भाषायाम्॥ ४।१।६२
काशिका-वृत्तिः
सख्यशिष्वी इति भाषायाम् ४।१।६२

सखी अशिश्वी इत्येतौ शब्दौ ङीषन्तौ भाषायां निपात्येते। सखीयं मे ब्राह्मणी। न अस्याः शिशुरस्ति इति अशिश्वी। भाषायाम् इति किम्? सखा सप्तपदी भव। अशिशुम् इव मामयं शिशुरभिमन्यते।
न्यासः
सख्यशि�आईति भाषायाम्। , ४।१।६२

"सखी" इति। सखिशब्दान्ङीप्। नास्याः शिशुरस्तीति वाक्यशेषेण बहुव्रीहिं दर्शयन्नशिशुशब्दो यो बहुव्रीहिस्तस्याशि()आईति निपात्यते। न तु तत्पुरुषो यस्तस्येति दर्शयति। तत्पुरुषे हि न शिशुरशिशुरित्येवं भवति। "सखा" इति। "अनङ् सौ" ७।१।९३ इत्यनङादेशः, "नोपधायाः" ६।४।७ "सर्वनामस्थाने च" ६।४।८ इति दीर्घः। "सख्यशिशुभ्याम्" इत्येवं वक्तव्ये यन्निपातनं क्रियते, तस्यैतत् प्रयोजनम्-- तुल्यश्रुतेः शब्दान्तरस्यापि यथा स्यात्, सह खेन या वत्र्तते सा सखीति
बाल-मनोरमा
सख्यशि�आईति भाषायाम् ५१०, ४।१।६२

सख्यशि()आई। सखिशब्दादशिशुशब्दाच्च स्त्रियां ङीष् निपात्यते भाषायाम्। सौकिकप्रयोगो-भाषा। तर्हि वेदे नैव स्यादित्यत आह--इतिशब्द इति। "प्रकारे" इत्यनन्तरं "वर्तते" इति शेषः। प्रकारः=सजातीयता। भाषायामित्यस्येति। सच "इति"शब्दो भाषायामित्यस्यानन्तरं संनिवेश्यते इत्यर्थः। ततश्च भाषायां वेदे चेति फलितम्। नन्वेवं सति भाषायामिति व्यर्थमित्यत आह--तेनेति। भाषाग्रहणेन भाषायां सर्वत्र भवति, वेदे तु क्वचिदिति लभ्यत इत्यर्थः। सखीति। सखिशब्दान्ङीषि "यस्येति चे"ति खकारादिकारस्य लोपः। भाषायां किम्?। "सखा सप्तपदा भव" अशि()आईति। न विद्यते शिशुर्यस्या इति विग्रहः। अशिशुशब्दान्ङीषि उकारस्य यण्। "अशि()आई शिशुना विना" इत्यमरः। छन्दस्यपि क्वचिदित्यस्योदाहरणमाह--आ धेनवो धुनयन्तामशि()आईरिति। अशि()आईशब्दाज्जसि "दीर्घाज्जसि चे"ति पूर्वसवर्णदीर्घनिषेधाऽभावश्छान्दसः।

तत्त्व-बोधिनी
सख्यशि�आईति भाषायाम् ४६०, ४।१।६२

सख्याशि()आईति। सखिशब्दादशिशुशब्दाच्च ङीष् निपात्यते। न विद्यते शिशुर्यस्याः सा अशि()आई। भाषायां किम्()। सखा सप्तपदी भव।