पूर्वम्: ४।१।६३
अनन्तरम्: ४।१।६५
 
सूत्रम्
पाककर्णपर्णपुष्पफलमूलबालोत्तरपदाच्च॥ ४।१।६४
काशिका-वृत्तिः
पाककर्णपर्णपुष्पफलमूलवालौत्तरपदाच् च ४।१।६४

पाकाऽद्युत्तरपदात् जातिवाचिनः प्रातिपदिकात् स्त्रियां ङीष् प्रत्ययो भवति। स्त्रीविषयत्वादेतेषां पूर्वेण अप्राप्तः प्रत्ययो बिधीयते। ओदनपादी। शङ्कुकर्णी। शालपर्णी। शङ्खपुष्पी। दासीफली। दर्भमूली। गोबाली। पुष्पफलमूलौत्तरपदात् तु यतो नेष्यते तदजादिषु पठ्यते, सत्प्राक्काण्डप्रान्तशतैकेभ्यः पुष्पात्, सम्भस्त्राजिनशणपिण्डेभ्यः फलात्, मूलान्नञः इति।
न्यासः
पाककर्णपर्णपुष्पफलमूलबालोत्तरपदाच्च। , ४।१।६४

"ओदनपाकी" इति। ओदनस्य पाक इति षष्टीसमासः। व्युत्पत्तिमात्रार्थं त्वसौ क्रियते, न त्ववयवार्थो विद्यते। समुदाय एव ह्रयं कस्याञ्चिज्जातौ वत्र्तते। एवं "शह्कुकर्णी" इत्यदिष्वपि वेदितव्यम्॥
बाल-मनोरमा
पाककर्णपर्णपुष्पफलमूलवालोत्तरपदाच्चा ५१२, ४।१।६४

पाककर्ण। "जातेरस्त्रीविषया"दिति पूर्वसूत्रेणैव सिद्धे किमर्थमिदमित्यत आह--स्त्रीविषयादपीति। नियतस्त्रीलिङ्गादपीत्यर्थः। नियतस्त्रीलिङ्गत्वात्पूर्वेणाऽप्राप्तिरिति भावः। जातिवाचित्वं दर्शयितुमाह--ओषधिविशेष रूढा इति। अवयवव्युत्पत्तिरहिता इत्यर्थः।

तत्त्व-बोधिनी
पाककर्णपर्णपुष्पफलमूलवालोत्तरपदाच्च ४६२, ४।१।६४

पाककर्ण। "जाते"रित्यनुवृत्तेर्नेह--बहुपुष्पा बहुफलाशाखा। एवं हि पूर्ववर्णे सिद्धे किमनेन सूत्रेणेत्यशङ्क्याह--स्त्रीविषयादपीति।

तत्त्व-बोधिनी
इतो मनुष्य जातेः ४६३, ४।१।६४

इतो मनुष्य। इतः किम्()। विट्। दरद्। विटशब्दात् "जनपदशब्दात्क्षत्त्रि#आदञ्ित्यञ्। दरच्छब्दात्तु "द्द्यञ्मगदे"त्यण्। तयोः "अतश्चे"ति लुक्। यस्तु वैश्यपर्यायो विट्शब्दः सोऽपि प्रत्युदाहरणमित्याहुः। दाक्षिति। "अत इञ"। गोत्रलक्षणा जातिः। अदन्तत्वाऽभावादप्राप्तो ङीष् विधीयते। योपधादपीति। "जाते"रित्यनुवर्तमाने पुनर्जातिग्रहणादिति भावः। उदमेयस्येति। उदकं मेयं यस्य उदमेयः। "उदकस्योदः संज्ञाया"मित्युदादेशः। इञ उपसङ्ख्यानमजात्यर्थम्। सौतङ्गमी। निर्वृत्ताद्यर्थे "वुञ्छ"णादिसूत्रेण सुतङ्गमादिभ्य इञ्। न चायमिञन्तो जातिः।