पूर्वम्: ४।१।६४
अनन्तरम्: ४।१।६६
 
सूत्रम्
इतो मनुष्यजातेः॥ ४।१।६५
काशिका-वृत्तिः
इतो मनुस्यजातेः ४।१।६५

इकारान्तात् प्रातिपदिकात् मनुष्यजातिवाचिनः स्त्रियां ङीष् प्रत्ययो भवति। अवन्ती। कुन्ती। दीक्षी। प्लाक्षी। इतः इति किम्? विट्। दरत्। मनुष्यग्रहणं किम्? तित्तिरिः। जातेः इति वर्तमाने पुनर् जातिग्रहणं योपधादपि यथा स्यात्। औदमेयी। इञ उपसङ्ख्यानम् अजात्यर्थम्। सौतङ्गमी। मौनचित्ती। सुतङ्गमादिभ्यश्चातुरर्थिक इञ् न जातिः।
लघु-सिद्धान्त-कौमुदी
इतो मनुष्यजातेः १२७३, ४।१।६५

ङीष्। दाक्षी॥
न्यासः
इतो मनुष्यजातेः। , ४।१।६५

"अवन्ती, कुन्ती" इति। अवन्तिकुन्तिशब्दाभ्यामपत्येऽर्थे "वृद्धेत्कोशलाजादाञ्ञ्यङ्" ४।१।१६९ "स्त्रियामवन्तिकुन्तुकुरुभ्यश्च" ४।१।१७४ इति तस्य लुक्, ततो ङीष्। "दाक्षी,प्लाक्षी"इति। "अत इञ्" ४।१।९५। सर्वत्र गोत्रं हि जातिः। "विट्, दरत्" इति। विशोऽपत्येऽर्थे "जनपदशब्दात्क्षत्त्रियादञ्" ४।१।१६६। दरदो द्वयञ्मगधादिसूत्रेणाण् ४।१।१६८, "अतश्च" ४।१।१७५ इति तयोः स्त्रियां लुक्। इहापि गोत्रं जातिः। "तित्तिरिः" इति। अत्राकृतिग्रहणा जातिः। "उदमेयी" इति। "अत इञ्"४।१।९५ गोत्रमिह जातिः। "इञ उपसंख्यानम्" इति। इञन्तान्ङीष उपसंख्यानं कत्र्तव्यमित्यर्थः। किमर्तम्? अजात्यर्थम्। अजातिवाचिनोऽपीञन्ताद्यथा स्यात्। तत्रेदं प्रतिपादनम्-- "इतः" इति योगविभागोऽत्र क्रियते, तेनेञन्तादजातिवाचिनोऽपि भविष्यतीति। ततः "मनुष्यजातेः" इत्ययं द्वितीयो योगः पूर्वयोगस्यानित्यत्वज्ञापनार्थः।तेन मुष्यजातौ नित्यम्, अन्यत्र तु यथादर्शनम्। क्वचिदेव न सर्वत्र। "सौतङ्गमी" इत्याद्युदाहरणम्। स्यादेतत्-"अत इञ्" ४।१।९५ इति गोत्रापत्य एवात्रेञ् विहितः, गोत्रञ्च जातिरेव, तत् किमुच्यते--इञ उपसंख्यानमजात्यर्थमिति? अत आह-- "सुतह्गमादिभ्यः" इत्यादि। सुतङ्गमेन निर्वृता नगरीति "वुञ्छण्" ४।२।७९ इत्यादिना सुतङ्गमादित्वादिञ्। "इतः" इत तपकरणं दीर्घनिवृत्त्यर्थम्। तेन अवन्तीशब्दादयं न भवति। अवन्तिमिच्छति, "सुप आत्मनः क्यच्" ३।१।८, "अकृत्सार्वधातुकयोः" ७।४।२५ इति दीर्घः, अवन्ती य इत स्थिते क्विप्, "अतो लोपः" ६।४।४८ इत्यकारलोपः। पूर्वं लोपग्रहणादपृक्तलोपात् प्राक् "लोपो व्योर्वलि" ६।१।६४ इति यलोपः, पश्चात् "वेरपृक्तस्य" ६।१।६५ इति वकारस्य। ततः अवन्ती इति स्थिते यदि तपरकरणं न क्रियेत, ततोऽस्मादपि स्यात, ततः "हल्ङ्याब्भ्यः" ६।१।६६ इति सुलोपः प्रसज्येत,ततोऽवन्तीरिति न सिध्येत्॥
बाल-मनोरमा
इतो मनुष्यजातेः ५१३, ४।१।६५

इतो मनुष्यजातेः। शेषपूरणेन सूत्रं व्याचष्टे--ङीष् स्यादिति। इदन्तान्मनुष्यजातिवाचिनः स्त्रियां ङीष्स्यादित्यर्थः। स्त्रीप्रत्ययविधिषु?त इत्यनुवृत्तेरिदन्तात् "जातेरस्त्रीविषया"दित्यप्राप्तौ वचनम्। दाक्षीति। दक्षस्यापत्यं स्त्रीत्यर्थेः अत इञि अल्लोपः, आदिवृद्धिः, ङीष्, "यस्येति चे"तीकारलोपः। "गोत्रं च चरणैः सहे"ति जातिवाचित्वम्। दक्षः-प्रजापतिविशेषः। योपधादपीति। "अयं ङी"षिति शेषः। पुनर्जातिग्रहणेन योपधग्रहणस्याऽनुवृत्त्यभावबोधनादिति भावः। औदमेयीमि। उदमेयो नाम कश्चित्, तस्यापत्यं स्त्रीत्यर्थे "अत इञ्", "यस्येति चे"त्यल्लोपः, आदिवृद्धिः, औदमेयिशब्दान्ङीष्, "यस्येति चे"तीकारलोपः। तित्तिरिरिति। तित्तिरिः पक्षि जातिविशेषः। स्त्रियां ङीष् न, अमनुष्यजातिवाचित्वादिति भावः। "स्त्रीपुंसयोरपत्यन्तद्विचतुष्षट्पदोरगाः" इत्यमरकोशादयं स्त्रियामपि भवति, द्विपात्त्वात्।