"कुरूः" इति। कुरोरपत्यं स्त्री-- कुरुनादिभ्यो ण्यः"
४।१।१७०, "स्त्रियामवन्ति"
४।१।१७४ इत्यादिना तस्य लुक्। गोत्रमिह जातिः। "ब्राहृबन्धूः" इति। ब्राहृ बन्धरस्याः, वीरो बन्धुरस्या इति बहुव्रीहिः। ब्राहृबन्धूवीरबन्धूशब्दौ कस्याञ्चिदेव जातौ वत्र्तेते। जातित्वं पुनरसर्वलिङ्गभाक्त्वात्। तौ हि स्त्रीलिङ्गपुंल्लिङ्गादेव, न नपुंसकलिङ्गौ। "उतः" इति तपरकरणं मुखसुखार्थम्। न तु दीर्घनिवृत्त्य्रथम्; ऊकारान्तस् मनुष्यजातिवाचिनोऽभावात्।
"ङकारः"इत्यादि। ऊङो यदि ङकारो न क्रियेत तदा "नोङ्धात्वोः"
६।१।१६९ इत्यस्मिन्नपि न कत्र्तव्यः स्यात् ; ङाकारानुबन्धवतोऽन्यस् कस्यचिदूकारस्याभावात्। ततश्च "नोधात्वोः" इत्युच्यमाने यवाग्वा, यवाग्वै इत्यत्रापि "उदात्तयणो हल्पूर्वात्"
६।१।१६८ इति तृतीयादिविभक्तेरुदात्तत्वस्य प्राप्तस्य प्रतिषेधः स्यात्। ननु चार्थवत ऊकारस्य ग्रहणात् "अर्थवद्()ग्रहणे नानर्थकस्य" (व्या।प।१) इत्यनर्थकस्य न भविष्यति, यवागूशब्दो हि "सृयुवचिभ्योऽन्युजागूजक्नुचः" (द।उ।१०।४) इत्यागूच्प्रत्ययान्तो व्युत्पादितः, तत्रागूच्छब्द एव प्रत्ययार्थेनार्थवान्,
ऊकारस्त्वनर्थक एव? नैतदस्ति; यस्मान्न वर्णग्रहणेष्वियं परिभाषा व्यवस्थिता, वर्णग्रहणञ्चेदम्, अतो नोपतिष्ठते।
अथोपतिष्ठेत? एवमपि "कृषिचमितनिधनिसर्जिखर्जिभ्य ऊः" (द।उ।१।१६४) इत्यूप्रत्ययस्य ग्रहणं स्यात्। ततश्च खर्ज्वा, खर्ज्वे-- इत्यत्र प्रतिषेधः प्रसज्येत। तस्माद्विशेषणार्थो ङकारः कत्र्तव्यः। अथ दीर्घोच्चारणं किमर्थम्, ननु उङेवोच्येत, "अकः सवर्णे दीर्घः" (६।१।
१०१) इति दीर्घत्वेन हि दीर्धस्य ग्रहणं भवति? इत्यत आह-- "दीर्घोच्चारणम्" इत्यादि। यदि दीर्घो नोच्चार्येत तदा "शेषाद्विभाषा"
५।४।१५४ इति परत्वात् पक्षे कप् स्यात्, अतस्तद्बाधनार्थं दीर्गोच्चारणम्।
कथं पुनर्दीघोच्चारणेन कपो निवृत्तिः? ब्राहृआ बन्धूरस्येति समासादनन्तरमूङ् क्रियताम्ुत कबिति? तत्र परत्वात् कप् स्यात्; दीर्घोच्चारणेनोकारप्रश्लेषात्। पुनर्विधानं तुल्यकालप्राप्तिकं स्वार्थिकतया समानजातीयं कब्विधिमेव निवर्तयति, न स्वादिविधिम्। स्वादयस्तूङन्ताद्भवन्त्येव; त्यूङोरपि ग्रहणात्; ज्ञापकाद्वा, "()आशुरः ()आश्रवा"
१।२।७१ इतिनिर्देशात्। तेन ब्राहृबन्धूरिति नित्यमूकारान्त एव भवति, न तु कदाचित् कबन्तः। "अध्वर्युः" इति। अध्वरमिच्छतीति क्यच्, "क्याच्छन्दसि"
३।२।१७० इत्युप्रत्ययः, "कब्यघ्वरपृतनस्यर्चि लोपः"
७।४।३९ इत्यकारलोपः।
"अप्राणिजातेश्च" इत्यादि। अप्राणिजातिवाचिनश्च प्रातिपदिकादूङ् प्रत्ययो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- "पङ्गोश्च"
४।१।६८ इत्यत्र चकारोऽनुक्तसमुच्चयार्थः, तेनाप्रणिजातेश्च रज्ज्वादिवर्जिताद्भविष्यति। "अलाबूः, कर्कन्धूः" इति। कः पुनरस्योङि सत्यसति वा विशेषः, यावतोभयत्र तदेव रूपं स व स्वरः; तथा हि-- अलाबूशब्द उणादिषूकारप्रत्ययान्त एव व्युत्पाद्यते, "कृषिचमितनिधनिसर्जिखर्जिभ्य ऊः" (द।उ।१।१६४) "{इति वत्र्तमाने णित् इति च (द।उ।१।१६८) नञि लम्बेर्नलोपश्च" (द।उ।१।१७०) इतिनञ्पूर्वात् "लबि अवरुआंसने इत्यस्मादूप्रत्ययः" इति पाठेन भवितव्यम्। इति "वत्र्तमाने णित्" इति च "नञि लम्बेर्नलोपश्च" (द।उ।१।१७०) इति नञ्पूर्वात् "लबि अवरुआंसने" (धा।पा।३७९) इत्यस्मादूप्रत्यययः, "इदितो नुम्"
७।१।५८ इत्यनेन कृतनुमागरूपस्य नकारस् नलोपश्च विहितः; कर्कन्धूशब्दोऽपि "नृतिशृध्योः कूः" (द।उ।१।१७४) इति वत्र्तमाने "अन्दूदृन्भूजम्बूकफेलूकर्कन्धूदिधिषूः" (द।उ।१।१७६) इत्यूकारान्त एव व्युत्पादितः,
तत्किमर्थमूङ् विधीयते? अलाब्वा, अलाब्वै-- इत्यत्र "नोङधात्वोः"
६।१।१६९ इति विभक्त्याद्युदात्तत्वप्रतिषेधो यथा स्यात्। असति हि तस्मिन् यथा खलप्वौ, खलप्वः- इत्यत्र स न भवति तथेहापि न स्यात्॥
ऊडुतः। "अयोपधा"दिति "मनुष्यजाते"रिति चानुवर्तते, उत इति तद्विशेषणम्, तदन्तविधिः। तदाह--उकारान्तादित्यादिना। कुरूरिति। कुरुक्षेत्रस्य राजा कुरुः, तस्यापत्यं स्त्रीत्यर्थः। "गोत्रं च चरणैः सहे"ति जातित्वम्। कुरुशब्दाडूङि सवर्णदीर्घः। ऊङि दीर्घोच्चारणस्य प्रयोजनं भाष्ये स्पष्टम्। "तस्यापत्य"मित्यणमाशह्क्याह--कुरुनादिभ्यो ण्य इति। अपत्याधिकारस्थमिदं सूत्रम्। अनेन सूत्रेम अणपवादो ण्यप्रत्यय इत्यर्थः। तर्हि स श्रूयेतेत्यत आह--तस्येति। अध्वर्युरिति। अध्वर्युशाखाध्यायिनीत्यर्थः। चरणत्वाज्जातित्वम्। "पुरा युगेषु नारीणां मौञ्जीबन्धनमिष्यते। अध्यापनं च वेदानां सावित्रीवचनं तथा।" इति यमादिस्मृतिः।
अप्राणिजातेश्चेति। "वाचकाना"मिति शेषः। रज्ज्वादिभिन्नानामप्राणिजातिवाचकानामपि ऊङ उपसङ्ख्यानमित्यर्थः। नन्वत्र उत इति संबध्यते वा, न वा?। नाद्यः, अलाबूरिति भाष्योदाहरणविरोधात्, अलाबूशब्दस्य ऊदन्तत्वात्। न द्वितीयः, अदन्तादपि अप्राणिजातिवाचन ऊङापत्तेरित्यत आह--रज्ज्वादिपर्युदासादिति। "उत" इति न संबध्यतो। अदन्तेषु नातिप्रसङ्गः "नञिवयुक्तमन्यसदृशाधिकरणे तथा ह्रर्थगतिः" इति न्यायेन रज्ज्वादिसदृशानामुवर्णान्तानामेव ग्रहणादिति भावः। अलाब्वेति। अलाबूशब्दादूङि सवर्णदीर्घे अलाबूशब्दादूङन्तात्सुबुत्पत्तिः। टायां यणादेशे अलाब्वा इति रूपम्। एवं कर्कन्धूशब्दादूङन्ताट्टायां "कर्कन्ध्वा" इति रूपम्। "कर्कन्धूर्बदरी"त्यमरः, "तुम्ब्यलाबूरुभे समे" इति च। ननु ऊदन्तत्वादनयोरूङ्विधिव्र्यर्थ इत्यत आह--अनयोरिति। कृकवाकुरिति। पक्षिजातिविशेषः। अत्र मनुष्यजातित्वाऽभावात्पूर्वेणापि न ङीष्।
ऊङुतः। ङकारो "नोङ्धात्वोः" इति विशेषणार्थः। अन्यथा "यगाग्वै" "यगाग्वै"इत्यत्रापि स निषेधः स्यात्। दीर्घोच्चारणं तु "()आश्रू"शब्दार्थम्। अन्यत्र सवर्णदीर्घेणापि सिद्धेः। कुरुरिति। लिङ्गविशिष्टपरिभाषया स्वादयः। अत्र व्याचक्षते---"यद्येकादेशस्य पूर्वान्तत्वेन ग्रहणात्स्वादय इति व्याख्यायेत तर्हि "काण्डे" "कुड()ए"इत्यादावपि "एकवचनमुत्सर्गतः"इति सुःप्रवर्तत, तद्वारणाय "अप्रत्ययः"इति प्रसज्यप्रतिषेधाभ्युपगमे तु प्रकृते दोषः। "()आश्रू"रित्यत्रैकादेशाऽभावाल्लिङ्गविशिष्टपरिभाषाया आवश्यकत्वाच्च। अतएव "रमे"इत्यत्र "एकादेशस्य पूर्वान्तत्वेन ग्रहणात्स्वादयैति मनोरमादौ न व्याख्यातमिति। अध्वर्युरिति। अध्वर्युशाखाध्येत्री, अध्वर्युशाखाध्यायिवंशोद्भवेति वार्थः। चरणलक्षणेयं जातिः। अध्वरं यातीति विग्रहे "मृगय्यादयष्चे"त्यौणादिकेन अध्वरशब्दस्यान्तलोपः, याधातोः कुप्रत्ययश्च।
अप्राण्जातेश्चारज्ज्वादीनामुपसङ्ख्यानम्। पर्युदासादिति। यदि सूत्रादुत इति गृह्रते तर्हि अलाब्बादावूहः संभवो नेति भावः। अलाब्वेत्यादि। प्रथमान्तं द्वितीयान्तं वा नोदाह्मतम्। वक्ष्यमाणप्रयोजनस्य तत्राऽसभवात्। नोङ्धात्वोरिति। ऊङ्धात्वोर्यणः परे शसादय उदात्ता न स्युरिति सूत्रार्थः।