पूर्वम्: ३।२।१६९
अनन्तरम्: ३।२।१७१
 
सूत्रम्
क्याच्छन्दसि॥ ३।२।१७०
काशिका-वृत्तिः
क्याच् छन्दसि ३।२।१७०

क्य इति क्यच्क्यङ्क्यषां सामान्येन ग्रहणम्। क्यप्रत्ययान्ताद् धातोः छन्दसि विषये तच्छीलादिषु कर्तृषु उकारप्रत्ययो भवति। मित्रयुः। न छन्दस्यपुत्रस्य ७।४।३५ इति प्रतिषेधाद् न धीर्घः। सुम्नयुः। संस्वेदयुः छन्दसि इति किम्? मित्रीयिता।
न्यासः
क्याच्छन्दसि। , ३।२।१७०

"मित्रयुः" इति। मित्रमिच्छतीति "सुप आत्मनः क्यच्"३।१।८ इति क्यच्। "अकृत्सार्वधातुकयोः" ७।४।२५ इति दीर्घत्वं प्राप्नोति, "क्यचि च" ७।४।३३ इतीत्त्वञ्च, एतदुभयमपि "न च्छन्दस्यपुत्रस्य" ७।४।३५ इति प्रतिषेधान्न भवति। "संस्वेदयुः"इति। लोहितादित्वात् ३।१।१३ क्यष्। "सुम्नयुः" इति। "देवसुम्नयोः" ७।४।३८ इति प्रतिषेधः। सुम्न इवाचरतीति "कर्त्तुः क्यङ सलोपश्च" ३।१।११ इति क्यङ॥
बाल-मनोरमा
क्याच्छन्दसि ९५२, ३।२।१७०

क्याच्छन्दसि। क्यप्रत्ययान्तादुप्रत्ययः स्यात्तच्छीलादिषु छन्दसीत्यर्थः। सुम्नयुरिति। सुम्नं - सुखम्।तदात्मन इच्छतीत्यर्थे सुम्नशब्दात् क्यच्। "न च्छन्दस्यपुत्रस्ये"ति निषेधात् "क्यचि चे"ति ईत्त्वम्, "अकृत्सार्वे"ति दीर्गश्च न। "सुम्नये"ति क्यजन्तादुप्रत्ययः। अतो लोपः।

तत्त्व-बोधिनी
क्याच्छन्दसि ७८२, ३।२।१७०

क्याच्छन्दसि। "क्य" इति क्यच्क्यष्क्यङां सामान्यग्रहमम्। क्यन्ताद्धातोश्छन्दसि विषये ताच्छीलादिषु उप्रत्ययो भवतीति काशिका। किद्यः क्य इति व्याख्यानात्कण्ड्वादियगपि गृह्रते। तेन "तुरण्यवोऽङ्गिरसो नक्षन्त", "सपर्येम सपर्यवः", "यमस्य योनौ शकुनं भुरण्यु"मित्यादि सिद्धम्। तुरण त्वरायां , सपर पूजयां, भुरण धारणपोषणयोरित्येते कण्ड्वादिषु पठिताः। अथ कथं "सन्तः प्रणयिवाक्यानि गृह्णन्ति ह्रनसूयवः" इति भट्टपादाः?। मृगय्वादिषु असूयशब्दो द्रष्टव्य इति हरदत्तः। सुम्नयुरिति। सुम्नशब्दात्क्यचि तदन्तादुः। "न छन्दस्यपुत्रस्ये"ति निषेधात् "क्यचि चे"ति ईत्वम्, "अकृत्सार्वे"ति दीर्घश्च न भवति।